घटप्रभा
एषा प्रश्चिमघट्टेषु उद्भवति ।२८३ किलोमीटर् पर्यन्तं पूर्वदिशं प्रति प्रवहति । एषा नदी बेळगावी मण्डलस्य गोकाक इति स्थाने ५३मीटर्तः अधः पतति } एषा ८८२९ चतुरस्रकिलोमीटर्प्रदेशं यावत् जलसेचनं करोति।
अन्तर्विषयाः |
[सम्पादयतु] उगमः
अनन्तरं बागलकोटेमण्डले कलादगी ग्रामे इशान्यदिशि ३५कि.मी दूरे कृष्णानद्या मिलति । घटप्रभानद्याः जलानयनप्रदेशस्तावत् ८८२९ च .कि.मी विस्तृतः अस्ति ।
[सम्पादयतु] उपनद्यः
हिरण्यकेशी एवं मार्कण्डेयनदी अस्याः उपनद्यौ ।
[सम्पादयतु] जलबन्धाः
[सम्पादयतु] धूपदाळ् जलबन्धः
घटप्रभानद्याः गोकाक-उपमण्डले धूपदाळ् ग्रामस्य समीपे १८९८ तमे वर्षे एकः जलबन्धः निर्मितः । अस्मात् जलबन्धात् ७१ कि.मी. यावत् कुल्याः निर्मिताः । अनेन ४,२५,००० हेक्टेरप्रदेशस्य जलव्यवस्था जाता । स्वातन्त्र्यानन्तरं कर्णाटकसर्वकारेण एषा कुल्या १०९ कि.मी. यावत् विस्तारिता ।
[सम्पादयतु] हिडकल् जलवन्धः
हिडकल् ग्रामस्य समीपे निर्मिते जलाशये ६५९ दशलक्षघन.मी. जलं सङ्गृह्णन्ति। अनेन जलनयनप्रदेशस्य विस्तारस्तावत् – २,३९,६१४ हेक्टेरमितं जातम् ।
[सम्पादयतु] भविष्यत्कालीनयोजनाः
हिडकल् जलाशयस्य उन्नतीकरणम् । अनेन३,३१,००० हेक्टेर् प्रदेशस्य जलव्यवस्था भविष्यति ।
[सम्पादयतु] जलपातः
गोकाकपट्टणात् १० कि.मी दूरे सुन्दरः जलपातः गोकाकजलपातः इति प्रसिद्धः। तस्य औन्नत्यं तावत् ५३ मी. जलपातस्य उपरि पुरातनदोलासेतुः आकर्षिका विद्यते ।