चण्डीगढ

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(चण्डीगढ़ इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Chandigarh in India (disputed hatched).svg
शिलोद्यानस्य किञ्चन दृश्यम्
शिलोद्यानस्थः जलपातः

चण्डीगढ़ केन्द्रात् नियन्त्रितप्रदेशेषु अन्यतमम् अस्ति ॥ एतद् नगरं पञ्जाबहरियाणाराज्ययोः राजधानी अस्ति । अस्मिन् प्रदेशे मोहाली इत्यत्र विद्यमानं क्रिकेट् क्रीडाङ्गणं बहु प्रसिद्धम् अस्ति। चण्डीगडनगरं (Unique City) सुन्दरनगरं, सुयोजितनगरम् इत्यादिनामभिः प्रसिद्धमस्ति । नगरनिर्माणस्य उत्तमेतिहासः अस्ति । भारतपाकिस्तानयोः विभाजनसमये लाहोरनगरं पाकिस्तानदेशे योजितम् अभवत् । तदा उत्तमनगरं निर्माय पञ्जाबप्रान्ते राजधानीनिर्माणाय चिन्तनम् आरब्धम् । एवं नगरनिर्माणं भारतसर्वकारेण चिन्तितम् अभवत् । प्रथमः प्रधानमन्त्री श्री जवाहरलालनेहरुः क्रिस्ताब्दे १९५३ तमे वर्षे नगरस्य निर्माणम् आरब्धवान् । क्रिस्ताब्दे १९६६ तमे वर्षे हरियाणा राज्यस्य उदयः अभवत् । अस्यापि राजधानी आवश्यकी आसीत् । एवम् उभययोः राज्ययोः एकस्मिन् नगरे राजधानीकार्याणि’ प्रचलन्ति । उभयोः एकः एव उच्चन्यायालयः स्थापितः अभवत् । प्रथमः प्रधानमन्त्री श्री जवाहरलालनेहरुः क्रिस्ताब्दे १९५३ तमे वर्षे नगरस्य निर्माणम् आरब्धवान् । क्रिस्ताब्दे १९६६ तमे वर्षे हरियाणा राज्यस्य उदयः अभवत् । अस्यापि राजधानी आवश्यकी आसीत् । एवम् उभययोः राज्ययोः एकस्मिन् नगरे राजधानीकार्याणि’ प्रचलन्ति । नगरनिर्माता अभियन्ता वास्तुशिल्पी कार्बुसियर् नगरयोजनां कृतवान् । तदा तदा उत्तमाः सूचनाः दत्तवान् । एतेन अद्यापि नगरयोजना निर्मातारः, नगराभ्यासिजनाः नूतनवास्तुशिल्पकालां ज्ञातुम् इच्छुकाः अत्र आगत्य अध्ययनं कुर्वन्ति । मरुभूमौ पुष्पं कथं विकासितम् इति ज्ञातुं कुतूहलेन वास्तुतन्त्रज्ञाः अत्र आगच्छन्ति ।

निर्माणवैशिष्ट्यम्[सम्पादयतु]

चण्डीगडनगरं ग्रिड् स्टैल् सेक्टर् रीत्या निर्मितम् अस्ति । अत्रत्याः हरितपट्टिकाः अत्याधुनिकाः नवनवीनाः च । अस्य नगरस्य विस्तारः ११४ चतुरस्र कि.मीटरमितः अस्ति । मुख्यतया त्रीणि उपनगराणि, २७ ग्रामाः च अस्मिन् नगरे अन्तर्भवन्ति । वायव्ये सिवालिक् पर्वतावली अस्ति । नगराय पेयजलयोजनाय सुखान् सरोवरस्य निर्माणं कृतम् अस्ति । भारते निर्मितेषु कृतकजलाशयेषु एषः जलाशयः अपि अन्यतमः अस्ति ।

चण्डीगढनगरस्य उद्यानानि[सम्पादयतु]

चण्डीगडनगररचनायां फलपुष्पविभागस्य महत्वपूर्णं योगदानम् अस्ति ।फलपुष्पानां विषये आसक्तिमतां चण्डीगडनगरं नन्दनवनमिव अस्ति । आलङ्कारिकसस्यानाम् आलङ्कारिकपुष्पाणां च वस्तुसङ्ग्रहालयः इति एतत् नगरं वदन्ति । सप्तविभागेषु व्याप्तम् एतत् उद्यानम् उत्तरभारते अन्यत्र कुत्रापि द्रष्टुं न शक्यते । उद्यानेषु डा झकिर हुसैन रोजगार्डन्, शान्तिकुञ्ज इत्यादीनि निर्मितानि सन्ति । प्राणिनां विविधाः आकृतयः, तन्त्रिभिः निर्मिताः प्राणिरचनाः टोपिनीनामके वाटिकाप्रदेशे सन्ति । म्याङ्गोगार्डन् उत्तमं प्रेक्षणीयस्थलमस्ति । पार्श्वे राक् गार्डन् म्यूसियं नामकः कलासङ्ग्रहालयः अस्ति । सोमवासरे प्रवेशः नास्ति । जवाहरलालनेहरुः चण्डीगडनगरं प्राचीनवैभवदर्शकं भविष्यकालीनं विश्वासपात्रं नवीनमनगरम् इति वर्णितवान् अस्ति । इदानीम् एतत् प्रमुखनगरमिति विश्वे घोषितम् अस्ति ।

राकगार्डन्[सम्पादयतु]

निष्प्रयोजकवस्तुभिः निर्मितं विस्मयजगत् इति कथ्यते । नगरप्रदेशे यानि निष्प्रयोजकानि वस्तूनि लभ्यन्ते तानि सङ्गृह्य अस्मिन् उद्याने उत्तमकलाकृतयः निर्मिताः सन्ति । नेकचन्दनामकः एतत् विस्मयकारि कार्यं कृतवान् ‘Nek Chand’s Kingdom’ इति एतत् उद्यानं प्रसिद्धम् अस्ति ।न केवलं भारते अपि तु विश्वेऽपि एतादृशम् उद्यानम् अन्यत् नास्ति । भाग्नानि कङ्कणानि , मृदानिर्मितपात्राणां भागाः, नलिकानां भागाः , विद्युत् तन्त्र्यः, विविधशिलाखण्डाः अत्र सुन्दाकलाकृतिरुपं प्राप्तवन्तः सन्ति । नेकचन्दः एकः एव एतां अद्भुतवाटिकां निर्मितवान् अस्ति । क्रिस्ताब्दे १९५० तमे वर्षे नेकचन्दमहोदयः सामान्यः मार्गकार्यनिरीक्षकः आसीत् । बहु अध्ययनमपि न कृतवान् आसीत् । सर्वैः त्यक्तानि त्याज्यवस्तूनि अवेक्ष्य एतानि उपयुज्य किमपि कर्तुं शक्यते वा इति नेकचन्दमहोदयः चिन्तितवान् । अष्टादशवर्षाणि यावत् कार्यं कृत्वा राक् गार्डन् निर्माण कृतवान् । क्रिस्ताब्दे १९७६ तमे वर्षे एतत् कार्यं समाप्तम् अभवत् । महानगरे त्याज्यानि वस्तूनि बहूनि भवन्ति । एतेषां बहिः नयनमपि समस्या अस्ति । भवननिर्माणभागाः, अयसा निर्मितानि आसनानि गृहोपयोगिवस्तूनि शिलाखण्डाः कूप्यः इत्यादयः एकस्योपरि अन्यं योजयित्वा अपूर्ववस्तूनि निर्मितवान् अस्ति । तेन इदम् उद्यानं विश्वविख्यातमस्ति । अस्मिन् उद्याने कृतकपर्वताः, गुहाः, गुहायाः उपरि गृहगोधिकाः, एवं शतशः दर्शनीयानि चित्राणि, वस्तूनि, स्थानानि, च निर्मितानि सन्ति । अस्य विस्तारः दश हेक्टरपरिमितः अस्ति ।

चित्रशाला[सम्पादयतु]

विमानमार्गः[सम्पादयतु]

देहलीतः विमानसम्पर्कः अस्ति ।

धूमशकटमार्गः[सम्पादयतु]

देहली-चण्डीगड अन्तरं २५४ कि.मी अस्ति ।देशस्य विविधभागेभ्यः उत्तमवाहनसम्पर्कः अस्ति ।

वाहनमार्गः[सम्पादयतु]

प्रति-अर्धाघण्टम् एकं वाहनं देहलीतः अस्ति । शिम्ला,मनाली, धर्मशाला नगरेभ्यः अपि वाहनसम्पर्कः अस्ति । वसत्याः कृते अनेकाः धर्मशालाः उपाहारवसतिगृहाणि सन्ति । यात्रिनिवासः, चरणरामधर्मशाला इत्यादयः प्रमुखाः ।


"http://sa.wikipedia.org/w/index.php?title=चण्डीगढ&oldid=271465" इत्यस्माद् पुनः प्राप्तिः