चन्दनम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Santalum ellipticum इति जातीयः चन्दनतरुः

श्रीखण्डः इत्यपि नाम्ना ख्यातः अयं वृक्षः अप्रतिम स्वसुगन्धार्थं वर्णार्थं च प्रसिद्धः । Sandal wood इति आङ्गलभाषया अस्य ख्यातिः । अस्मिन् विभिन्नसुगन्धानां वर्णानां च जातयः सन्ति । भारतदेशस्य मलयपर्वतश्रेणिषु चन्दनवनराजी यथेष्ठं आसीदिति इतिहासपुराणेषु वर्णितम् । अयं श्रीगन्धवृक्षः भारते वर्धमानः कश्चन विशिष्टः वृक्षः । अयं सर्वेषु प्रदेशेषु न वर्धते । भारतदेशस्य कर्णाटकराज्यस्य दक्षिणभागेषु तथा च केरलराज्ये च अधिकतया वर्धते श्रीगन्धवृक्षः । अयं न महान् वृक्षः । सामान्यम् औन्नत्यं भवति अस्य । अस्य वृक्षस्य काष्ठम् औषधत्वेन उपयुज्यते । फेनकानां सुगन्धद्रव्याणां च निर्माणे अपि अयं वृक्षः उपयुज्यते । अनेन एव निर्मितं “मैसूरु स्याण्डल्” नामकं फेनकं सुगन्धद्रव्यादिकं च विश्वे एव प्रसिद्धम् अस्ति । अस्य काष्ठम् अन्येन द्रव्येण सह उद्घर्ष्य तथा च कषायं निर्माय औषधं सज्जीकर्तुं शक्यते । संस्कृते अस्य श्रीगन्धस्य “चन्दनम्” इति अपरं नाम अपि अस्ति । अस्मिन् “साण्टिलाल्” नामकः तैलांशः भवति । तस्मात् एव कारणात् अस्य वृक्षस्य विशिष्टः कश्चन गन्धः भवति । अयं श्रीगन्धः देवमूर्तिनां निर्माणे, देवपूजायाः वस्तूनां, पीठानां च निर्माणे अपि उपयुज्यते ।

चन्दनदारुनिर्मितः गणेशमूर्तिः

इतरभाषासु अस्य श्रीगन्धस्य नामानि[सम्पादयतु]

अयं श्रीगन्धवृक्षः आङ्ग्लभाषयाWhite Sandal wood इति उच्यते । अस्य श्रीगन्धवृक्षस्य सस्यशास्त्रीयं नाम अस्ति Santalum Album इति । हिन्दीभाषया“सफेद् साण्डल्” इति, तेलुगुभाषया“गन्धवु चक्क” इति, तमिळभाषया“चन्दन कट्टै” इति, मलयाळभाषया“चन्देन मरम्” इति, मराठीभाषया“सफेद् चन्दन्” इति, कन्नडभाषया“चन्दन मर” अथवा “गन्धद मर” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य श्रीगन्धस्य प्रयोजनानि[सम्पादयतु]

अस्य श्रीगन्धस्य रसः तिक्तः । अयं शीतवीर्यः अपि । अस्य मूलं लघु, रूक्षं चापि । १. अस्य श्रीगन्धस्य मूलं पित्तशामकम् ।
२. ज्वरबाधायाम् अस्य श्रीगन्धस्य उद्घर्षणं कृत्वा ललाटस्य उपरि लेपनेन शरीरस्य औष्ण्यम् अपगच्छति ।
३. पित्तविकारान्, पित्तजन्यं ज्वरं चापि निवारयति श्रीगन्धस्य कषायम् ।
४. चर्मरोगेषु अपि श्रीगन्धस्य उपयोगः हितकरः ।
५. चर्मणि पिटकानां वा व्रणानां वा कालकाः सन्ति चेत् श्रीगन्धम् उद्घर्ष्य लेपयन्ति ।
६. महती पिपासा बाधते चेत् नारिकेलजलेन सह अस्य चूर्णं सेवनीयम् ।
७. अस्य श्रीगन्धस्य तैलं पिटकान्, ज्वलनं चापि निवारयति ।
८. मूत्रस्य विसर्जनस्य अवसरे ज्वलनं जायते चेत् अस्य श्रीगन्धस्य कषायं पातव्यम् ।
९. अतीव स्वेदः जायते चेत्, स्वेदः दुर्गन्धयुक्तः चेत् च अस्य चूर्णं शरीरे लेपनीयम् ।
१०. अतिसारेण पीडिताः अस्य श्रीगन्धस्य उपयोगेन शमनं प्राप्नुवन्ति ।
११. शरीरे यत्र कुत्रापि शोथः जातः अस्य श्रीगन्धस्य लेपः करणीयः ।
१२. श्रीगन्धस्य चूर्णं, तेनैव प्रमाणेन तण्डुलानां क्षालनजलं, खण्डशर्करां, मधु च योजयित्वा कषायं निर्मातुं शक्यते ।
१३. अनेन श्रीगन्धेन निर्मितं चन्दनतैलं, चन्दनासवः च आपणेषु उपलभ्यते । तत्र चन्दनतैलं चर्मरोगान्, चर्मणः ज्वलनं च शमयति । चन्दनासवः पित्तं, औष्ण्यं चापि निवारयति ।

संस्कृतादिषु अनेकभाषाकाव्येषु चन्दनवृक्षस्य प्रस्तावः दृश्यते । विशेषतः चन्दनवृक्षः सज्जनानां दृष्टान्तरूपेण प्रस्तूयते । यथा..

मूलं भुजङ्गैः शिखरं प्लवङ्गैः
शाखा विहङ्गैः कुसुमं च भृङ्गैः
श्रितं सदा चन्दनपादपस्य
परोपकाराय सतां विभूतयः

सस्यशास्त्रीयं वर्गीकरणम्[सम्पादयतु]

स्याण्टलम् इति सस्यकुलान्तर्गतः अयं वृक्षः मध्यमप्रमाणेन प्ररोहति । स्याण्टलम् आस्बम् (Santalum Album) इति अस्य सस्यशास्त्रीयं नाम । स्याण्टालम् एपिप्टिकम् (Santalum ellipticum), स्याण्टालं फ्रेयसिनेटियनम्(S. freycinetianum), स्याण्टालं प्यानिक्युलेटम् (S. paniculatum) इति जातीयाः वृक्षाः अधिकमौल्ययुताः भवन्ति । भारते, आस्ट्रेलियायां इण्डोनेशियायां, प्रशान्तसागरद्विपे, च चन्दनस्य वृक्षाः अशिकाः भवन्ति । कर्णाटकस्य श्रीखण्डः अत्युत्तमः इति प्रसिद्धिः अस्ति ।

प्रयोजनानि[सम्पादयतु]

चन्दनतरोः काष्ठानि पुष्पाणि पत्राणि बीजानानि इत्यादीनि सर्वाङ्गानि बहूपयोगाय भवन्ति । चन्दनकाष्ठात् उत्पाद्यमानस्य तैलस्य बहुमौल्यम् अस्ति । सुगन्धवस्तूनां निर्माणार्थं शिल्पानां पुत्तलीनां च उत्कीर्णार्थं च चन्दनस्य दारूणि बहूपयुक्तानि भवन्ति । विश्वे सर्वत्र अत्युपयोगात् चन्दनस्य अभावनः सञ्जातः । अतः इदानी सर्वाकारीयप्रोत्साहनेन सर्वत्र अस्य कृषिकर्म दृश्यते ।

वीथिका[सम्पादयतु]

विविधजातीयाः चन्दनपादपाः

"http://sa.wikipedia.org/w/index.php?title=चन्दनम्&oldid=270155" इत्यस्माद् पुनः प्राप्तिः