चन्द्रशेखर आजाद

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(चन्द्रशेखर आजादः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
चन्द्रशेखर आजाद

जननम् बाल्यम् च[सम्पादयतु]

चन्द्रशेखर आजाद भारतदेशस्य स्वातन्त्र्यसम्पादनार्थम् आङ्गलशासनविरुद्धम् आन्दोलनं कृतवान् । स्वातन्त्र्यं मे जीवितम् इति सः अमन्यत । अयं चतुर्विंशे वयसि शत्रुभिः परिवृतः सन् गोलकावेधेन आत्मनैव आत्मानं मारितवान् क्रान्तिवीरः । चन्द्रशेखरः मध्यप्रदेशे भावराग्रामे षडधिकनवदशशततमे (१९०६) क्रिस्ताब्दे जुलैमासे त्रयोविंशतितमे दिने अजायत । तस्य पिता सीतारामतिवारिः । सः कस्मिंश्चित् उपवने वनपालक आसीत् । माता जगराणीदेवी । बाल्ये एव चन्द्रशेखरः संस्कृतभाषामभ्यसितुं वाराणसीं गत्वा तत्र अध्ययनम् आरभत। तस्मिन्नेव समये सर्वत्र भारते स्वातन्त्र्यान्दोलनं प्रचलितमासीत् । तत्काले क्रूरं जलियन्वालाहत्याप्रकरणं श्रुत्वा उद्विग्नः चन्द्रशेखरः भारतदेशे आङ्गल-शासनम् उन्मूलयितुमैच्छत् । तदानीं महात्मागान्धीमहाभागः लाललजपतरायः, मदनमोहनमालवीयः इत्यादयो नेतारः भारतीयस्वातन्त्रान्दोलनस्य धुरीणाः आसन् ।

असहकारान्दोलनम्[सम्पादयतु]

तदा आङ्गलशासनकार्येषु भारतीयैः सहकारो न देयः इति धिया असहकारान्दोलनं प्रवृत्तम् । तत्काले एकदा वाराणस्यां महती जनयात्रा प्रावर्तत । तस्यां यात्रायां कश्चन धुरीणः त्रिवर्णध्वजं हस्ते गृहीत्वा पुरतः गच्छन्नासीत् । तम् आरक्षकाः अत्यन्तम् अताडयन् । एतत्सर्वं दूरादेव अवलोकयन् बालः चन्द्रशेखरः आरक्षकाणामुपरि पाषाणं प्राक्षिपत् । आरक्षकाः तमनुधावन्तः यत्नेन गृहीत्वा न्यायालयम् अनयन् । तत्र एवं प्रश्नोत्तरमभवत् ।

न्यायाधीशः - रे बाल ! किं ते नाम ?
चन्द्रशेखरः -आजादः (स्वातन्त्र्यम्)
न्यायाधीशः- कस्ते पिता ?
चन्द्रशेखरः-स्वाभिमानः ।
न्यायाधीशः - किं वासस्थानम् ?
चन्द्रशेखरः -कारागृहम् ।

बालकेन दत्तमेवंविधं वीरोचितम् उत्तरं श्रुत्वा तत्रत्याः सर्वे जनाः तमभ्यनन्दयन् । आजाद् इत्येव तमाह्वयन् । ततः प्रभृति चन्द्रशेखर- 'आजाद' इत्येव सः प्रथितः । वस्तुतः आजाद् इत्यस्य हिन्दीभाषायां स्वातन्त्र्यमित्यर्थः । एतादृशेन उत्तरेण क्रुद्धो न्यायाधीशः आजादस्य वेत्रताडनदण्डनम् आदिशत् । आजादस्तु प्रतिताडनं महान्तं क्लेशमनुभवन् अपि 'वन्दे मातरं’, 'जयतु गान्धीमहोदयः’ इत्यादि उद्घोषणं नात्यजत् । तदारभ्य सः स्वातन्त्र्यान्दोलने प्रधानं भागं वहन्नेव अभ्यवर्धत ।

स्वातन्त्र्यान्दोलनम्[सम्पादयतु]

एकदा आङ्ग्लशासनविरुद्धं भित्तिपत्रस्थापनं सर्वत्र प्राचलत् । स्वातन्त्र्यान्दोलने प्रविष्टाः सर्वे सदस्याः अन्यान्यस्थानेषु भित्तिपत्रस्थापने व्यापृताः । चतुरः आजादस्तु आरक्षकस्थानेऽपि तत्स्थापयितुम् ऐच्छत् । एकं भित्तिपत्रं स्वीकृत्य उभयतः निर्यासलेपं कृत्वा पृष्ठे धृत्वा आरक्षकस्थानमगच्छत् । तत्र स्तम्भसमीपे स्थित्वा केनचिदारक्षकपुरुषेण कुशलवार्तालापं कुर्वन्नेव तदविदितं, स्तम्भे पृष्ठं निपीडय भित्तिपत्रं तत्र लग्नमकरोत् । ततः संलापं परिसमापितवान् इव आरक्षकम् आमन्त्र्य क्वापि अगच्छत् । पथिकजनाः आरक्षकस्थानेऽपि भित्तिपत्रं पश्यन्तः विस्मिताः अभवन् ।

भारतीयगणराज्यसेनाप्रवेशः[सम्पादयतु]

इलाहाबादस्य आज़ाद-उद्यानवने अस्य वृक्षस्य अधः एव ब्रिटिश्जनैः युद्ध्यमानः वीरगतिं प्राप्नोत्

आजादः षोडशे वयसि रामप्रसादबिस्मिल्लेन आयोजितां भारतीयगणराज्यसेनाम् आविशत् । तस्यां सेनायां क्रान्तिकारिषु आन्दोलनेषु निपुणं शिक्षितोऽभवत् । एकदा गणराज्यसेनासदस्याः सर्वे सेनाकार्यार्थं धनं सङ्ग्रहीतुकामाः सर्वाकारीयवित्त्वकोशमेव अपहर्तुं प्रवृत्ताः । तत्प्रसङ्गे च ते सर्वे सैनिकाः दुर्दैववशात् आरक्षकैः गृहीता अभवन् । नायकः बिस्मिल्लोऽपि आरक्षकहस्तगतः अभवत् । आजादस्तु आरक्षकमध्ये एव सञ्चरन्नासीत् । बिस्मिल्ले मरणदण्डेन मृते सति आजाद एव सेनानायकोऽभवत् । भगतसिंहनामकः अन्योऽपि वीरः क्रान्तिकारी तरुणः तस्य सहायकोऽभूत् । तस्मिन् काले आङ्ग्लशासनं 'साइमन्’ नामकस्य आध्यक्ष्ये एकां समितिमरचयत् । तस्याः समितेः उद्देशस्तु साधुपरिवर्तनव्याजेन स्वातन्त्र्यान्दोलने शैथिल्योत्पादनमेव आसीत् । अतः तस्य बहिष्करणाय लालालजपतरायप्रभृतयः प्रवृत्ताः । तदा ललालजपतरायः आरक्षकैः निर्दयं ताडितः सन् अचिरेण मृतवान् । तस्य प्रतीकारं विधातुम् आजादसेना 'साण्डर्स’नामानम् आरक्षकाधिपं व्यापादयत् । ततः प्रभृति आजादं ग्रहीतुम् आरक्षकाः सर्वप्रकारेण प्रयत्नम् अकुर्वन् ।

प्राणार्पणम्[सम्पादयतु]

वञ्चकाः केचन गुप्तवेषाछ्छन्नाः सन्तः आजादसेनां प्रविश्य सर्वं रह्स्यम् आरक्षकेभ्यः आवेदयन् । एकदा आजादः अलहाबाद्-नगरे आल्फेड्-उद्याने कुत्रचित् मित्रेण साकं सम्भाषमाण आसीत् । तदा वीरभद्रतिवारिनाम्ना वञ्चकेन बोधिताः आरक्षकाः झटित्येव तं परिवार्यं ग्रहीतुं प्रवृत्ताः । अशीतिसंख्याकानां तेषां मध्ये एकाकी आजादः चक्रव्यूहप्रविष्टः अभिमन्युः इव शौर्येण अयुध्यत । समाप्तप्रायासु गोलिकासु अन्तिमया एकया सः आत्मानं मारयित्वा भारतमातरं निजरुधिरेण अभ्यषिञ्चत् , स्वीयम् 'आजाद्’ नाम च सार्थकम् अकरोत् ।

"http://sa.wikipedia.org/w/index.php?title=चन्द्रशेखर_आजाद&oldid=277374" इत्यस्माद् पुनः प्राप्तिः