चन्द्रशेखर कम्बारः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
चन्द्रशेखर कम्बारः
ಚಂದ್ರಶೇಖರ ಕಂಬಾರ
जननम् फरवरी १, १९३७ (1937-02-01) (वयः ७७)
घोडिगेरी, बेळगाविमण्डलम्, कर्णाटकराज्यम्
वृत्तिः साहित्यकारः नाटकप्रणेता
राष्ट्रीयता भारतीयः
अल्मा मॆटॆर् कर्णाटकविश्वविद्यालयः
कालः क्रि.श.१९३७ तः ....
प्रकारः पद्यानि, कथाः, नाटकानि
विषयाः जानपदम्, जीवनम् ।
साहित्यकान्दोलनम् नवोदयः
प्रमुखकृतयः शिखरसूर्य

karanth.kannadavedike.net

डा.चन्दशेखर कम्बारस्य जननं क्रि.श.१९३७तमे वर्षे जनवरिमासस्य द्वितीये दिने बेळगाविमण्डलस्य घोडिगेरि ग्रामे अभवत् । अस्य पिता बसवेण्णप्प कम्बाराः माता चेन्नम्मा च । बेळगाविनगरस्य लिङ्गराजमहाविद्यालयतः स्नातकपदवीम्, क्रि.श. १९६२तमे वर्षे कर्णाटकविश्वविद्यालयतः स्नातकोत्तरपदवीं, पि.एच्.डि.उपाधिं च अवाप्तवान् । बेङ्गळूरुविश्वविद्यालयस्य आध्यापकः, कर्णाटकजानपद अकादेमी अध्यक्षः, देहल्याः राष्ट्रीय नाटकशालायाः निदेशकः, हम्पिकन्नडविश्वविद्यालस्य आरम्भिककुलपतिः, च भूत्वा कम्बारः कन्नडसरस्वत्याः सेवम् अकरोत् । क्रि.श.१९६८तमवर्षतः क्रि.श.१९६९पर्यन्तं चिकागो विश्वविद्यालये कन्नडाध्यापकत्वेन कार्यम् अकरोत् । चिकागो, न्यूयार्क, बर्लिन्, मास्को, जपान् इत्यादिषु देशेषु विश्ववियालयान् गत्वा विशेषोपन्यासान् कृतवान् ।

वृत्तिजीवनम्[सम्पादयतु]

युवा चन्द्रशेखर कम्बारः धारवडस्य कविस्मेलने पद्मेकं वाचितवान् । कम्बारस्य पद्यम् अन्यषामपेक्षया भिन्नम् आसीत् । तदा तत्र आध्यक्ष्यपीठे विराजमानः कश्चित् कविवर्यः अयसः कर्मकरः कव्यं करोति इति कुवचनम् अवदत् । कम्बारः अस्य वचनानि गभीरतया परिगणय्य काव्यकषौ परिश्रमं कर्तुम् आरब्धवान् । जानपदीयं सौन्दार्यं स्वस्य लेखनेषु आत्मसात्कृतः कम्बारः विविधमुखप्रतिभानां सङ्गमः । कविः, नाटकरचयिता, सङ्गीतनिदेशकः, चलच्चित्रनिदेशकः, अध्यापकः, जानपदज्ञः, प्रशासकः च भूत्वा देशसेवां कुर्वन् तिष्ठति । बेङ्गळूरुविश्वविद्यालये अनेकवर्षाणि उपन्यासकवृत्तिं कृत्वा तदनन्तरं हम्पीप्रदेशे कन्नडविश्वविद्यालयस्य कुलपतिः इति सेवां स्म्पूर्य निवृत्तः सन् इदानीं बेङ्गळूरुमहानगरे बनशङ्करीविस्तरणे विश्रान्तं जीवने अस्ति । स्वस्य वृत्तिजीवने न केवलं वेतनस्य कार्यं न कुर्वन् जनपदनृत्यानां, गीतानां, नाटकानां च विषयान् सङ्गृह्य स्वलेखेषु उपयुक्तवान् । उत्तरकर्णाटके तत्रापि बेळगाविमण्डलस्य, धारवाडमण्डलस्य च विशिष्टां भाषां स्वसाहितकृतिषु विशेषतया उपयुक्तवान् । वरकवेः द.रा.बेन्द्रेमहोदयस्य असन्तरं तादृशभाषायाः प्रयोगः अनेनैव कृतः । कम्बरमहोदयः स्वरचितानां कथाग्रन्थानां चलच्चित्राणि अकरोत् । करिमायि, सङ्गीता, काडुकुदुरे इत्यादीनि तत्र स्मरणीयानि । स्वस्य चलच्चित्रस्य स्वयं सङ्गीतस्वरसंयोजनमपि कृतवान् इति विशेषः । काडुकुदुरे चलच्चित्रस्य शीर्षिकगीतस्य गायकस्य शिवमोग्ग सुब्बण्ण इत्यनेन राष्ट्रपतिफलकमपि प्राप्तम् । जीके मास्तरर प्रणयपसङ्गः इति कथाग्रन्थं दूरदर्शनचलच्चित्ररूपेण निर्मितवान् । दशाधिकानि साक्ष्यचित्राणि अपि निर्मितवान् कम्बारः उत्तमः नाटककारः अपि । जानपदशैल्याः पद्यरचनायां गाने च सिद्धहस्तः ।

कृतयः[सम्पादयतु]

हेळतेन केळ (ಹೇಳತೇನ ಕೇಳ), सिरिसम्पिगे(ಸಿರಿಸಂಪಿಗೆ), बेळ्ळिमीनु(ಬೆಳ್ಳಿಮೀನು), ऋष्यशृङ्ग(ಋಷ್ಯಶೃಂಗ), काडुकुदुरे(ಕಾಡುಕುದುರೆ), नायिकथे(ನಾಯಿಕಥೆ), हरकेय कुरि(ಹರಕೆಯ ಕುರಿ), बेळेशङ्कर(ಬೋಳೇಶಂಕರ), सिङ्गारव्व मत्तु अरमने(ಸಿಂಗಾರವ್ವ ಮತ್ತು ಅರಮನೆ) च अस्य कथाग्रन्थाः, महामायि (ಮಹಾಮಾಯಿ) अस्य नूतना नाटककृतिः, शिखरसूर्य(ಶಿಖರ ಸೂರ್ಯ) २६वर्षाणाम् अन्तरेण क्रि.श.२००६तमे वर्षे लोकार्पितः महाकथाग्रन्थः । उत्तरकर्णाटकस्य रङ्गभूमिः एव अस्य संशोधनक्षेत्रम् । क्रि.श. १९८५तमे वर्षे "जानपदविश्वकोश " बृहद्ग्रन्थं कन्नडे लोकार्पितवान् इति अस्य विशेषा कीर्तिः । अहत्य २२रूपकाणि, ८पद्यसङ्कलनानि, ४कथाग्रन्थाः, चकोरी इति महाकाव्यम्, जानपदरङ्गभूमिसम्बद्धाः, शिक्षाक्षेत्रसम्बद्धाः १४संशोधनकृतयः अपि कम्बारमहोदयः सारस्वतलोकाय अर्पिताः माहानिधयः । अस्य नैकाः कृतयः हिन्दीभाषया, आङ्ग्लभाषया चानूदिताः । बेम्बत्तिद कण्णु (‘ಬೆಂಬತ್ತಿದ ಕಣ್ಣು’क्रि.श.१९६१), नार्सिसस् (‘ನಾರ್ಸಿಸಸ್‌’ क्रि.श.१९६९) अस्य प्रसिद्धे रूपके ।

प्रशस्तिपुरस्काराः[सम्पादयतु]

बाह्यनुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=चन्द्रशेखर_कम्बारः&oldid=271087" इत्यस्माद् पुनः प्राप्तिः