चन्द्रशेखर वेङ्कटरामन्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
चन्द्रशेखर वेङ्कटरामन्
जननम् 7 November 1888(1888-11-07)
तिरुवनैकोयळ्, तिरुचिरापल्ली, मद्रास् प्रेसिडेन्सी, भारतम्
मरणम् 21 November 1970(1970-11-21) (aged 82)
बेङ्गळूरु, कर्णाटकराज्यम्, भारतम्
देशीयता  भारतम्
कार्यक्षेत्राणि भौतविज्ञानम्
संस्थाः भारतीयवित्तमन्त्रालयः[१]
कोलकाताविश्वविद्यालयः
भारतीयकृषिविज्ञानपरिषद्
भारतीयविज्ञानसंस्था
केन्द्रीयमहाविद्यालयः, बेङ्गळुरुविश्वविद्यालयः
रमन् शोधसंस्था
मातृसंस्थाः मद्रासविश्वविद्यालयः
शोधच्छात्राः जी एन् रामचन्द्रन्,
विक्रम अम्बालाल् सराभाई
विषयेषु प्रसिद्धः रमन् एफेक्ट्
प्रमुखाः प्रशस्तयः नैट् बचेलर्(१९२९)
नोबेल् प्रशस्तिः (१९३०)
भारतरत्नम् (१९५४)
लेनिन् शान्तिपुरस्कारः (१९५७)
पतिः/पत्नी लोकसुन्दरी अम्मळ्(१९०७–१९७०)

चन्द्रशेखर वेङ्कट रामन् (तमिळ् சந்திரசேகர வெங்கடராமன்) (जीवितकालः - क्रि.श. १८८८तः १९७०पर्यन्तम्)कश्चित् भौतिकशास्त्रज्ञः आसीत्। एषः क्रि.श. १९३०तमे वर्षे नोबलपुरस्कारेण अलङ्कृतः । तस्‍य जन्‍म दक्षिणभारतस्‍य तिरुचिरापल्‍लीनामके स्‍थाने अभवत्‌। अध्ययनस्य पश्चात् एषः राजकीयवित्तविभागे कार्यम् अकरोत्‌। आशुतोष मुखोपाध्‍यायः तं कोलकत्ताम्‌ अनयत्‌। प्रकाशस्य प्रकीर्णविषये उत्कृष्टकार्यनिमित्तं क्रि.श. १९३०तमे वर्षे श्रेष्ठतमः नोबेल्पुरस्कारः प्रदत्तः । अस्य परिशोधनं तु अस्य नाम्नि एव रामन् प्रभावः इत्येव प्रसिद्धम् अस्ति । तस्य 'रामन् प्रक्रियायाः'[२] शोधनदिनाङ्क: (फ़ेब्रवरिमासस्य २८तमदिनम्)। अद्य भारते 'राष्ट्रियविज्ञानदिनम्' इति आचरन्ति ।

शिक्षा संशोधनम् च[सम्पादयतु]

चन्द्रशेखरवेङ्कटरामन् वर्यस्य प्रारम्भिकी शिक्षा वाल्टियत् इति स्थाने अभवत् । तस्य द्वादशे वयसि प्रवेशपरीक्षाम् उत्तीर्य भौतिकविज्ञानविषये स्नातकपदवीं तथा स्नातकोत्तरपदवीं च मद्रास्नगरस्य प्रेसिडेन्सीमहाविद्यालयतः प्राप्तवान् । अस्मिन् महाविद्यालये क्रि.श. १९०२तमे वर्षे प्रविश्य क्रि.श. १९०४तमे वर्षे सम्पूर्णविद्यालयस्य प्रथमस्थानं प्राप्तवान् । एषः क्रि.श. १९०६तमे वर्षे मद्रास्विश्वविद्यालयतः गणितविषये प्रथमश्रेण्यां स्नातकोत्तरपदवीम् प्राप्तवान् । पश्चात् वेङ्कटरामन्वर्यः कोलकत्तायाः भारतीयवित्तीयनिगमे सहायकवित्तीयव्यवस्थापकत्वेन उद्योगम् आरब्धवान् । किन्तु अस्मिन् कार्ये अस्य रुचिः नासीत् । अतः क्रि.श.१९१७तमे वर्षे सर्वकारीयसेवार्थं त्यागपत्रं दत्तवान् । पश्चात् इण्डियन् असोसियेषन् फार् कल्टिवेशन् आफ् सैन्स् इति स्वीयं भौतिकविज्ञानसङ्घटनम् आरब्धवान् । शोधकर्ये अस्य अतीव रुचिं दृष्ट्वा कोलकत्ताविश्वविद्यालयस्य कुलपति: सर् आशुतोषमुखर्जी भौतिकविज्ञानस्य विभागप्रमुखत्वेन कार्यं कर्तुम् अनुरोधं कृतवान् । भौतिकविज्ञानस्य संशोधस्यस्य फलरूपेण कलकताविश्वविद्यालयात् डि.एस्सी पदवीं प्राप्तवान् । क्रि.श. १९२४तमे वर्षे फेलो आफ् रायल् सोसैटी इत्यस्य सदस्यत्वेन निर्वाचितः अभवत् । क्रि.श. १९३०तमे वर्षे रामन्प्रभावः इति अस्य संशोधनार्थं नोबेल्पारितोषिकम् इति जगतः सर्वश्रेष्ठं पुरस्कारं एषः क्रि.श. १९४८तमे वर्षे सेवायाः निवृत्तः रामन्शोधसंस्थानम् इति सङ्घटनं बेङ्गळूरुनगरे संस्थाप्य तत्र शोधरतः अभवत् । क्रि.श. १९५४तमे वर्ष् भारतसर्वकारेण भारतरत्नम् इति प्रशस्त्या भूषितः । क्रि.श. १९५७तमे वर्षे लेनिन् शान्तिपुरस्कारः अपि अस्य कण्ठं समलङ्करॊत् ।

टिप्पणिः[सम्पादयतु]

  1. The Nobel Prize in Physics 1930 Sir Venkata Raman, Official Nobel prize biography, nobelprize.org
  2. "Sir Venkata Raman - Biographical". Retrieved 29 मार्च 2014.