चरकसंहिता

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

परिचयः[सम्पादयतु]

चरकसंहिता आयुर्वेदस्य श्रेष्ठतमः ग्रन्थः। अस्य रचयिता महान् चिकित्साचार्यः चरकः। चरकसंहितायाः आरम्भे आयुर्वेदस्य अवतरणं कथं जातमिति वर्णितमस्ति । तस्य अनुसारं ब्रह्मा प्रजापतिं, प्रजापतिः अश्विनीकुमारम्, अश्विनीकुमारः इन्द्रम्, इन्द्रः भरद्वाजं, भरद्वाजः अन्येभ्यः ऋषिभ्यः इदं ज्ञानम् अददात् । पुनर्वसु आश्रेयः इदं ज्ञानं स्वस्य षड्भ्यः शिष्येभ्यः अयच्छत् । ते - अग्निवेशः, भेलः, जतूकर्णः, पराशरः, हारीतः, क्षारपाणिश्च । आत्रेयस्य उपदेशम् अग्निवेशः तन्त्ररूपेण निबद्धवान् 'अग्निवेशतन्त्रे' । अस्य अग्निवेशतन्त्रस्य सङ्ग्रहं भाष्यञ्च लिखितं चरकेण यच्च 'चरकसंहिता' इति प्रसिद्धं जातम् । एषः प्राचीन ग्रन्थः अद्यपि महत्वपूर्णः अस्ति। अत विविधरोगाणां लक्षनानि, निदानानि,पथ्यानि च वर्णितानि। कस्मै औषधाय कस्य वनस्पतेः अपेक्षा, कथं च औषधनिर्माणं करणीयम् इति सर्वमत्र विस्तरेण निगदितम्।

शैली आधारश्च[सम्पादयतु]

चरकसंहितायां बौद्धदर्शनस्य निर्देशाः केचन मिलन्ति चेदपि अधिकतया विकसितरूपेण न । ब्राह्मणधर्मस्य प्रामुख्यमेव दृष्टिगोचरः भवति । शिवविष्णुकार्तिकेयादीनां देवतानां पूजाविधानम् अत्र सूचितमस्ति । चरकसंहिता धर्मसूत्राणाम् आधारेण रचिता अस्ति । अत्र धन्वन्तरेः कृते आहुतिदानस्य निर्देशः अस्ति । धन्वन्तरिः देवतारूपेण पूजितः अस्ति । आरम्भे आयुर्वेदावतरणस्य विवरणं चरकेन प्रतिसंस्कृतमिति ज्ञायते । अन्ते दृश्यमाना पौराणिकच्छाया अपि इदं प्रमाणीकरोति । अग्निवेशस्य भाषा शैली च सरला । चरकस्य तु प्रौढा विद्यते । चरकः कश्चन उत्कृष्टः कविः आसीत् । गद्यपद्ययोः रचने तस्य प्रतिभा श्लाघनीया अस्ति ।

विषयविवरणम्[सम्पादयतु]

सम्पूर्णः गन्थः विषयानुसारम् अष्टस्थानेषु विभक्तः - सूत्रस्थानम्, निदानस्थानम्, विमानस्थानम्, शारीरस्थानम्, इन्द्रियस्थानम्, चिकित्सास्थानम्, कल्पस्थानम्, सिद्धिस्थानम् च । आहत्य १२० अध्यायाः अस्मिन् विद्यन्ते । चरकसंहिता आत्रेयसम्प्रदायस्य प्रमुखः आकरग्रन्थः मन्यते यस्यां कायचिकित्सा प्रमुखतया प्रतिपादितः अस्ति । आधुनिकचिकित्साविधानं यदा शैशवावस्थायाम् आसीत् तदा चरकसंहितायां प्रतिपादिताः आयुर्वेदीयाः सिद्धान्ताः श्रेष्ठाः गभीराश्च आसन् । एतस्याः दर्शनेन नितरां प्रभावितः आधुनिकचिकित्साविज्ञानस्य आचार्यः प्रा आसलरः चरकस्य नाम्नि अमेरिकादेशस्य न्यूयार्कनगरे १८९८ तमे वर्षे 'चरक-क्लब्' संस्थापितवान् यत्र चरकस्य चित्रमेकं स्थापितमस्ति ।

महत्त्वम्[सम्पादयतु]

आयुर्वेदस्य बृहत्रय्यां चरकसंहिता मूर्धन्या मन्यते । मध्यकाले श्रीहर्षस्य नैषधीयचरिते चरकस्य उल्लेखः कृतः अस्ति । वाग्भटः अपि चरकाय प्रथमं स्थानं कल्पितवान् अस्ति । सम्भाषायाः विचारः चरकसंहितायां विस्तृतरूपेण दत्तः अस्ति । ज्ञानार्जनाय विद्यमानेषु त्रिषु उपायेषु सम्भाषा अन्यतमा विद्यते । एतदर्थं विभिन्नपरिषदाम् आयोजनं तस्य कार्यशैली, सिद्धान्तस्थापनस्य विवरणं यत् चरकसंहितायाम् उपलभ्यते तत् वैज्ञानिकशोधसमीक्षायाः सर्वोत्कृष्टम् उदाहरणं विद्यते । एतादृशीषु परिषत्सु अनुमोदनं प्राप्य एव कोपि सिद्धान्तः ग्रन्थः वा अङ्गीक्रियते स्म । चिकित्साक्रमविषये अपि तेन लिख्यते यत् - 'वैद्यसमूह निःसंशयकराणाम्' इति । गभीररोगाणां चिकित्सावसरे अपि परस्परं विचारविमर्शं कृत्वा एव निर्णयः स्वीक्रियते स्म इति ।

अस्यां संहितायां त्रिदोष-पञ्चमहाभूतम्-रसगुणवीर्यविपाकादीनां मौलिकसिद्धान्तानां विषये वैज्ञानिकनिरूपणं दृश्यते । ज्ञान-कर्मयोः समुचितसामञ्चस्येन एव चिकित्सायाः उद्देशः सफलः भविष्यति इति ।

आयुर्वेदीयशिक्षणम्[सम्पादयतु]

स्नातकः सैद्धान्तिकज्ञानेन सह व्यावहारिकदक्षताम् अवश्यं प्राप्नुयात् । देहमानसदृष्टिमात्रेण चिकित्सा कर्तुम् अशक्या । चैतन्यं विना शरीरं निरर्थकं भवति । अतः पाञ्चभौतिकशरीरेण सह चैतन्ययुक्तस्य षड्धात्वात्मकस्य पुरुषस्य चिकित्सा कर्तव्या । चैतन्यस्य विवरणावसरे आस्तिकदर्शनानां विचारविमर्शः कृतः अस्ति । सामाजिकव्यवस्थायां पुण्य-पापयोः धर्माधर्मयोः कारणेन अपि रोगोत्पत्तिः भवेत् इति चिन्त्यते । त्रिदोषः अपि समस्तशरीरव्यापी इत्यतः समष्टिपुरुषस्य विचारः कर्तव्यः ।

चिकित्सा काचित् अत्यन्तं वैयक्तिकप्रक्रिया विद्यते । अन्यस्य जनस्य चिकित्सा समाना न भवति । सामान्य-विशेषयोः अयं समन्वयः चरकस्य वैशिष्ट्यं वर्तते । रोगिणः परीक्षां प्रत्यक्ष-अनुमान-प्रमाणादीनां द्वारा कृत्वा ज्ञात्वा तथ्यानाम् आधारेण चिकित्सा कर्तव्या । एतदतिरिच्य दोष-दूष्य-अग्नि-सत्त्व-प्रकृति-इत्यादीनां विचारः कृतः अस्ति अत्र ।

औषधं रोगस्य निवारणाय न दीयते अपि तु प्रकृत्याः सहायकरणाय एव दीयते इति स्पष्टतया कथयति चरकः । अतः अस्मिन् अर्थे चरकस्य चिकित्सा प्राकृतिकचिकित्सा । तेन उक्तः 'स्वभावोपरमवादः' प्राकृतिकचिकित्सायाः मूलम् । रोगस्य प्रतिषेधः व्याधिनिवारणम् इत्येतत् विहाय महर्षीणाम् अवधानं दीर्घायुष्ये आसीत् । अतः एव चरकः औषधानि विहाय आचार-रसायनविषये प्रामुख्यं यच्छति । आचरपालनं विना औषधसेवनं व्यर्थमेव इति तस्य अभिप्रायः । तेन लिखितं सद्वृत्तप्रकरणम् अत्युत्तममस्ति ।

चरकः आयुर्वेदद्रव्यगुणानां वैज्ञानिकाधारभूमिकायां प्रतिष्ठापयति । द्रव्यविषये षट्पदार्थानां निरूपणं कृतवान् अस्ति । द्रव्याणां रचनानुसारं कर्मानुसारञ्च वर्गीकरणम् ऐदम्प्राथम्येन चरकसंहितायां मिलति । पञ्चाशत्-महाकषायाणां कर्मानुसारं निर्णयः चरकस्य मौलिकं योगदानम् ।

चरकसंहितायाः अरबीभाषया अनुवादः ८ शतके जातः । तस्य ग्रन्थस्य आङ्ग्लानुवादश्च जातः अस्ति । क्षेत्रीयभाषाभिः अपि अयं ग्रन्थः उपलभ्यते ।

"http://sa.wikipedia.org/w/index.php?title=चरकसंहिता&oldid=242322" इत्यस्माद् पुनः प्राप्तिः