चामराजनगरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
चामराजनगरमण्डलम्

ಚಾಮರಾಜನಗರ ಜಿಲ್ಲೆ
मण्डलम्
Skyline of चामराजनगरमण्डलम्
राष्ट्रम् भारतम्
राज्यम् कर्णाटकराज्यम्
केन्द्रम् चामराजनगरम्
उपमण्डलानि येलन्दूरु, गुन्ड्लुपेटे, कोल्लेगाल, हनूरु, चामराकनगरम्
Area
 • Total ५,१०१ km
Population
 (2001)
 • Total ९,६५,४६२
 • Density १८९/km
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भारतीयसामान्यकालमानम्)
PIN
571 3xx
दूरवाणिसंज्ञा 08226
Vehicle registration KA-10
Website chamrajnagar.nic.in

चामराजनगरमण्डलम् (Chamarajanagar district) कर्णाटकराज्यस्य दक्षिणभागे विद्यमानं लघुमण्डलम् अस्ति । पूर्वमेतत् मैसूरुमण्डलस्य एव भागः आसीत् । अस्य मण्डलस्य नाम एव केन्द्रस्य नाम । अत्र सर्वे प्रादेशिकभाषया भाषन्ते किन्तु सोलिगनुवि इति काचित् कन्नडस्य एव रूपान्तरम् अपि अत्र भाष्यते । केचन तमिलुभाषिकाः अपि अत्र वसन्ति ।

विस्तीर्णता[सम्पादयतु]

५६८५ च.कि.मी.मिता ।

भौगोलिकता[सम्पादयतु]

कोळ्ळेगाल इति प्रदेशः पूर्वं तमिलुनाडुराज्यस्य एव भागः आसीत् ।

उपमण्डलानि[सम्पादयतु]

अत्र चामराजनगरं, यळान्दूरु, कोळ्ळेगालः , गुण्ड्लुपेटे इति चत्वारि उपमण्डलानि सन्ति ।

नद्यः[सम्पादयतु]

कावेरी, नुगु

प्रसिद्धक्षेत्राणि[सम्पादयतु]

हुलिगनमरडी, हेम्मरगाल्, हरळुकोटे, यळदूरु, वडगेरे, अगर, कनकगिरिः गोपालस्वामिपर्वतः, मलेमहदेश्वरबेट्ट, बिळिगिरिरङ्गनबेट्ट धार्मिकतया प्रमुखे अस्मिन् मण्डले अनेकानि पुण्यक्षेत्राणि सन्ति । तेषु मलेमहदेश्वर पर्वतः, तत्र प्रचाल्यमानः यात्रामहोत्सवः बहुप्रसिद्धः । बिळिगिरिरङ्गनबेट्ट, हिमवद्गोपालस्वामीबेट्ट (बेट्ट=पर्वतः), बण्डिपुरराष्ट्रियोद्यानं च प्रसिद्धानि स्थलानि । अस्य मण्डलस्य दक्षिणभागे निबिडम् अरण्यं विद्यते । अत्र अमूल्या वृक्षसम्पत् वर्तते । गजाः , व्याघ्राः , भल्लूकाः, हरिणाः च सन्ति ।

प्रेक्षणीयस्थानानि[सम्पादयतु]

१) गोपालस्वामिपर्वतः[सम्पादयतु]

अयं पर्वतः धेनुरिव् अस्तीति अस्य गोवर्धनगिरिः इति नाम अस्ति । कमलाचलः कामाद्रिः कञ्जगिरि इत्येतानि अन्यानि नामानि सन्ति । वास्तविकरुपेण गोपालस्वामिदेवालयः क्रिस्ताब्दे १३२५ तमे वर्षे श्रीमता माधवगायकवाडमहोदयेन निर्मितः । एतस्य देवालयस्य ७०० वर्षाणाम् इतिहासः अस्ति । दिनस्य २४ घण्टासु अयं पर्वतः हिमावृतः भवति इति अस्य् हिमवद् गोपालस्वामिपर्वतः इत्यपि नाम अस्ति । अस्योन्नतिः १४५४ मीटरमिता । पर्वतगमनाय मार्गः अस्ति किन्तु वक्रः दुर्गमः च अस्ति । गोपालपुरतः कुनगनहळ्ळीतः हङ्गळ्ग्रामतः पादचारणेनापि पर्वतारोहणं कर्तुं शक्यम् अस्ति । सः मार्गः केरलराज्यस्य वैनाड- अरण्यस्य दर्शनं कारयति । अत्रत्य आराध्ययदेवता श्रीगोपालस्वामी । एतस्य देवस्य सन्तान गोपालस्वामीति नाम अस्ति । स्वामी रुक्मिणीसत्यभामाभ्यां सह अत्र निवसति । महर्षिः अगस्त्यः एतस्य मन्दिरस्य प्रतिष्ठापनं कृतवान् इति ज्ञायते । एतं देवालयं परितः अष्टतीर्थानि सन्ति । ७७ सरांसि अपि सन्ति । तेषु अन्यतमे हंसतीर्थे काकाः स्नानं कृत्वा गतवन्तः इति पुराणानि वदन्ति । एषः प्रदेशः सुन्दरं गिरिधाम अपि । यात्रिकाणां प्रवासप्रियाणां च अतीव प्रियं स्थानं भवति ।

  • सम्पर्काय जङ्गमदूरभाषा -९४४८५४३३६१ , ९३४२३६४२०४, दूरभाषा -०८२२१-३२३०९१, २११८३२।
  • मार्गसूची मैसूरुतः ७५ किलोमीटर । चामराजनगररेलनिस्थानकं समीपे भवति ।

२.बिळिगिरिरङ्गनबेट्ट[सम्पादयतु]

एषः पर्वतः समुद्रस्तरतः ५०९१ पाद परिमितोन्नतः । एतं बिळिगिरिः श्वेताद्रिः दक्षिणतिरुपतिः इत्यपि च कथयन्ति । एषः पर्वतः दक्षिणोत्तरदिशि २६ कि.मी मितः अस्ति । निबिडारण्यावृतः अस्ति । वनमृगगजानां च सञ्चारः अत्र अरण्ये अस्ति । अत्र स्थितः बिळिगिरिरङ्गस्वामी देवालयः अत्युन्नत- शिलायाम् अस्ति । द्राविडशैल्या निर्मितः अस्ति । देवस्य विग्रहः ४.५ पादपरिमितोन्नतः चतुर्भुजमूर्तिः च अस्ति । देवः मेखलया-खड्गालङ्कारेण च युक्यः अस्ति । अत्र अलवेलु मङ्ग्गै इति नामिकायाः देव्याः मन्दिरम् अस्ति । एषः देवः पर्वतप्रदेशे स्थितानां सोलिगजनजातीयानाम् आराध्यः कुलदेवः अस्ति मैसूरुसंस्थानस्य मन्त्रिणा पूर्णय्यमहोदयेन होय्सलराजेन विष्णुवर्धनेन च एतस्य देवालयस्य जीर्णोध्दारः कृतः इति ज्ञायते ।

अस्य देवस्थानस्य समीपे (२६ कि.मी) पर्वतप्रदेशे दोड्डसम्पिगे इति स्थलमस्ति । भार्गवीनदी अत्र प्रवहति । एतत् पवित्रस्थानम् आस्ति । अत्र बृहत् चम्पकवृक्षः अस्ति । अस्य शाखाः ब्रह्माविष्णुमहेश्वराः इति भावना अस्ति । एतत् स्थानम् दुर्गादेववी-महेश्वरयोः अपि आवसस्थानमस्ति । भगवान् परशुराममहर्षिः ब्रह्महत्यादोषपरिहारार्थम् अत्र आगत्य तपः कृत्वा भगवतः पादौ भार्गवीनदीजलेन प्रक्षालितवान् । विहारार्थं वनानुभवलाभाय वनमृगाणां दर्शनाय च बी.आर.टि अभयारण्यम् अस्ति । अत्र प्रवेशः निवासः च अधिकमूल्येन लभ्यते । मार्गसूचिः -मैसूरुतः १२० कि.मी । बेङ्गळूरुतः २६४ कि.मी यळन्दूरतः २५ कि.मी । मैसूरुपर्यन्तं रेलयानस्य सौकर्यम् अस्ति ।

३.मलेमहदेश्वरबेट्ट[सम्पादयतु]

एषः पर्वतः ३२०० पादपरिमितोन्नतः पर्वतपङ्क्तियुक्तः । अस्य स्थलस्य श्रीमलेमहदेश्वरः मुख्यः देवः अस्ति । एषः लिङ्ग्गाकारः। शासनानाम् आधारेण एतस्य नाम महदेश्वर इति । श्रेष्ठयोगिनः १४-१५ शतकेषु अस्मिन् प्रदेशे आसन् । एते परशिवस्य अवतारपुरुषाः इति जनानां विश्वासः अस्ति । एते अत्र तपः कृत्वा सिद्धपुरुषाः इति नाम प्राप्तवन्तः । एतेषां सिद्धपुरुषाणां वनवासिनः अजपालकाः व्याधाः च भक्ताः आसन् । एतेषां स्मरणार्थं देवस्थानं निर्मितम् अस्ति । ते सर्वे अत्रैव लिङ्गैक्यतां प्राप्तवन्तः इति इतिहासः अस्ति ।

एतत् तीर्थस्यानं प्रति कर्णाटक-तमीलनाडुराज्यतः सहस्रशः भक्ताः आगच्छन्ति । दर्शनं कुर्वन्ति । टिप्पुसुल्तान् मैसूरुओडेयर प्रभृतयः देवालयाय अपरिमितं दानं दत्तवन्तः सन्ति ।

  • मार्गसूची-मैसूरुतः २६० कि.मी । मेट्टूरुतः ४० कि.मी ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चामराजनगरमण्डलम्&oldid=480292" इत्यस्माद् प्रतिप्राप्तम्