चार्ल्स् एल्टन्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

(कालः – १९०० तः १९९१)

Charles Sutherland Elton
जननम् 1900
Manchester, England
मरणम् 1991
Oxford, England
देशीयता फलकम्:UK
कार्यक्षेत्राणि Animal ecology, zoology
संस्थाः Oxford University
मातृसंस्थाः Oxford University
शोधच्छात्राः Dennis H. Chitty, William W. Murdoch
विषयेषु प्रसिद्धः Eltonian niche, food chain
प्रभावः Julian Huxley, Robert Collet, Victor Ernest Shelford, Alexander Carr-Saunders
प्रमुखाः प्रशस्तयः Darwin Medal (1970)

एषः चार्ल्स् एल्टन् (Charles Elton) कश्चन प्रसिद्धः परिसरविज्ञानी । एषः इङ्ग्लेण्ड्-देशस्य म्याञ्चेस्टर् इति नगरे १९०० तमे वर्षे जन्म प्राप्नोत् । अस्य चार्ल्स् एल्टनस्य अध्ययनं लिवर्-पूल्-विश्वविद्यालये प्राचलत् । अनन्तरम् आक्स्फर्ड्–विश्वविद्यालयतः प्राणिशास्त्रे पदवीं प्राप्नोत् । पदव्याः प्राप्तितः पूर्वम् एव प्रख्यातेन जीवविज्ञानिना जूलियन् हक्सलिना सह दूरप्रदेशान् गत्वा परिसरस्य अध्ययनम् अकरोत् । जीविनां, तेषां वासस्थानस्य परिसरस्य सम्बन्धं, जीवि–जीविनां च सम्बन्धं च विवृणोति परिसरविज्ञानम् । परिसरे जायमानस्य परिवर्तनस्य कारणानि, तेषां परिवर्तनानां कारणतः जीविनां विषये जायमानाः परिणामाः च तैः परिसरविज्ञानिभिः अभ्यस्यते । इदानीं तु परिसरे जायमानस्य परिवर्तनस्य मुख्यं कारणद्वयम् – एकं कारणं तु तीव्रगतत्या वर्धमाना जनसंख्या, अपरं तु कारणम् अस्ति तान्त्रिकप्रगतेः कारणतः आविष्कृतानि नूतनानि उपकरणानि, सौलभ्यानि वा । एताभ्यां द्वाभ्यां कारणाभ्यां जीविनां सामान्यं जीवनं व्यस्तं जातम् अस्ति । कतिपय जीविनां वंशः एव नष्टः जातः अस्ति । परिसरप्रियैः कृतस्य अध्ययनस्य आधारेण, तेषाम् अनुभवस्य आधारेण च अयं चार्ल्स् एल्टन् प्राणिनां परिसरस्य च सम्बन्धस्य विषये संशोधनम् आरब्धवान् । कालान्तरे आधुनिकस्य परिससरविज्ञानस्य मूलतत्त्वानि अपि निरूपितवान् । इदानीम् अपि विश्वाद्यन्तं तेषाम् एव मूलतत्त्वानाम् आधारेण परिसरस्य अध्ययनं प्रचलति ।

एषः चार्ल्स् एल्टन् सर्वः अपि प्राणी वा सस्यं वा उदरपोषणार्थं किं वाञ्छति इति ज्ञात्वा सर्वस्य अपि प्राणिनः परिसरे किञ्चित् विशिष्टं स्थानं भवति इति निरूपितवान् । प्राणिनं निमित्तम् आहारं कल्पयितुं सस्यानां कृते आवश्यकाः पोषकांशाः के ? तथा च सस्यजन्यानाम् आहाराणां सेवनेन प्राणिभिः प्राप्यमाणाः पोषकांशाः च के ? इति विषयम् अपि अयं चार्ल्स् एल्टन् अधीतवान् । एवं प्राणि–सस्यानं मध्ये विद्यमानम् अवलम्बनम् अधीत्य आहारशृङ्खलायाः, आहारपिरमिड् इत्यस्य च वैज्ञानिकं विवरणम् अददात् । समूहे वसतां प्राणिनां विषये ऊर्णदातॄणां प्राणिनं च विषये अपि अयं चार्ल्स् एल्टन् अध्ययनम् अकरोत् । आहारं नाशयतां मूषकाणां तथा "ओल्” इत्याख्यानां प्राणिनां विषये अपि अध्ययनं कृत्वा द्वितीयमहायुद्धस्य अवसरे आहारस्य रक्षणस्य क्रमान् असूचयत् । एषः चार्ल्स् एल्टन् सर्वस्य अपि प्राणिनः अथवा सस्यस्य स्वाभाविकस्य जीवनस्य निमित्तम् आवश्यकान् प्रकाश–वायु–उष्णता–आहार–जल–परिसरादीन् वासस्थानम् (हेबिटाट्) इति असूचयत् । अनन्तरं क्याक्टस्, हिमभल्लूकस्य, समुद्रतलस्य मीनस्य च विषये, तैः जीविभिः सह समञ्जनं कृत्वा जीवतां जीविनां च विषये अध्ययनं कृत्वा तं समूहं "जीविसमुदायः” इति (बयोटेक् कमिटि) अवदत् ।

अयं चार्ल्स् एल्टन् परिसरस्य सम्बद्धानां वीक्षणानां, निर्णयानां च विषये बहून् लेखान् पुस्तकानि च अलिखत् । अनेन १९२७ तमे वर्षे "प्राणिपरिसरः” (Animal ecology), १९३० तमे वर्षे "आनिमल् इकालजि आण्ड् एवल्यूषन्” (Animal Ecology and evolution), १९३२ तमे वर्षे "जर्नल् आफ् आनिमल् इकालजि” (Journal of Animal Ecology) (चार्ल्स् एल्टन् एव सम्पादकः), १९४२ तमे वर्षे "ओल्स् मैस् आण्ड् लेम्मिङ्ग्स्”(Wols, Mais and Lemmings), १९५४ तमे वर्षे "दि कण्ट्रोल् आफ् राट्स् आण्ड् मैस्” (the Control of Rats And Masi), १९५८ तमे वर्षे "दि इकालजि आफ् इन्वेशन्स् आफ् आनिमल्स् आण्ड् प्लाण्ट्स्” (The Ecology of Invention of Animals And Plants), तथा च "दि पाटर्न् आफ् आनिमल् कम्युनिटीस्” (The Patern of Animal Communities) इत्येतानि पुस्तकानि लिखितानि । एषः चार्ल्स् एल्टन् १९५३ तमे वर्षे रायल्-सोसैट्याः फेलोशिप् प्राप्नोत् । १९६७ तमे वर्षे कला तथा विज्ञानस्य अमेरिका–अकादम्याः (American Academy of Arts And Sceince) विदेशीफेलो अपि प्राप्तवान् । १९६७ तमे वर्षे एव लिनियन्-सोसैट्याः सुवर्णपदकम् अपि प्राप्नोत् । १९७० तमे वर्षे डार्विन्-मेडल् अपि प्राप्तवान् । एषः चार्ल्स् एल्टन् १९६७ तमे वर्षे उद्योगात् निवृत्तिम् अवाप्नोत् तथा च १९९१ तमे वर्षे ९१ तमे वयसि च इहलोकात् निवृत्तिम् अवाप्नोत् ।

"http://sa.wikipedia.org/w/index.php?title=चार्ल्स्_एल्टन्&oldid=261845" इत्यस्माद् पुनः प्राप्तिः