चालुक्यवंशः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
चालुक्यवंशः
ಚಾಲುಕ್ಯವಂಶ
साम्राट्
क्रि.श. ५४३–क्रि.श. १०७५
राजधानी कल्याणी, वेङ्गी, बादमी
भाषाः कन्नडभाषा, तेलुगुभाषा
धर्मः सनातनधर्मः
Government एकप्रभुत्वम्
बादामीचालुक्याः
 - क्रि.श. ५४३ - ५६६ प्रथमः पुलिकेशिः
 - क्रि.श. ५६६-५९७ प्रथमः कीर्तिवर्मः
 - क्रि.श. ५९७-६०९ मङ्गलेशः
 - क्रि.श. ६०९-६४२ इम्मडिपुलिकेशिः
हतिहासः
 - स्तम्भित क्रि.श. ५४३
 - Earliest records
 - Disestablished क्रि.श. १०७५
Warning: Value specified for "continent" does not comply

चालुक्यवंशः दक्षिणभारते क्रि.श. ५५०तमवर्षतः क्रि.श. ७५० पर्यन्तं तथा क्रि.श.९७३तः क्रि.श.११९०तमवर्षपर्यन्तं कर्णाटके अधिकारारूढः राजवंशः । क्रि श ६ शतके कलिङ्गे इदानीन्तनेषु ओरिस्सासमीपप्रदेशेषु शासनं कुर्वत् विष्णुकुण्डसाम्राज्यम् अग्रे चालुक्यानां साम्राज्यस्य कश्चन भागः अभवत् । चालुक्यसाम्राज्यं क्रि श ५५० तः ७५० पर्यन्तं कर्णाटकस्य बादामीतः, अनन्तरं ९७० तः ११९० पर्यन्तं कर्णाटकस्य कल्याणीतः दक्षिणभारतस्य, मध्यभारतस्य शासनम् अकरोत् । काञ्च्यां शासनं कुर्वन्तः पल्लवाः तेषां समकालीनाः आसन् । एकशतकं यावत् एतयोः साम्राज्ययोः मध्ये परस्परं लघु लघु युद्धानि भवन्ति स्म । बहुवारम् अन्यस्य साम्राज्यस्य राजधानीं वश्यकुर्वन् । तादृशेषु युद्धेषु केरलस्य चेराः, श्रीलङ्कायाः राजानः च पल्लवानां पक्षे भवन्ति स्म । पाण्ड्याः चालुक्यानां पक्षे युद्धं कुर्वन्ति स्म । दक्षिणभारतस्य शिलामयाः बहवः देवालयाः एतेषां काले एव निर्मिताः । यद्यपि सम्पूर्णभारतस्य एकमेवराज्यस्य परिकल्पना उत्तरभारते हर्षवर्धनस्य पराजयेन सह नष्टा अभवत् तथापि दक्षिणभारते पौनःपुन्येन पल्लविता भवति स्म ।


संवर्धनम्[सम्पादयतु]

चालुक्यवंशस्य प्रतिष्ठापनं क्रि.श. ५५०तमे वर्षे प्रथमपुलकेशिना अभवत् । केचन इतिहासकारः आमनन्ति प्रथमराजः जयसिंहः इति अपि । पुलकेशिः स्वस्य प्रशासनार्थं तदानीन्तनकालस्य वातापी (अद्यतनः बादामिः बागलकोटेमण्डलम्) इति नगरं राजधानीं कृतवान् । तस्य पुत्राः चालुक्यसाम्राज्यम् अद्यतनकर्णाटकपर्यन्तम् अतनोत् ।

नर्तनशिवः - चालुक्यशिल्पनिदर्शनम्

पुनरुत्थानम् अवसानं च[सम्पादयतु]

चालुक्यसाम्राज्यं पुनः क्रि.श. ६५५तमे वर्षे विक्रमादित्यस्य नृपत्वे पुनरुत्थापितम् । पल्लवैः सह कृतानि धारायुद्धानि क्रि.श. ७४०तमे वर्षे चालुक्यराजस्य विक्रमादित्यस्य विजयेन समाप्तम् । किन्तु क्रि.श. ७५०तमे वर्षे राष्ट्रकूटैः युद्धे पराजितं चालुक्यसाम्राज्यं क्षीयमाणम् अभवत् । क्रि.श. ९७०तमे वर्षे चालुक्यवंशे अन्यतमः तैलपः राष्ट्रकूटान् जित्वा गुजरात् प्रदेशं विना अन्यान् हस्तच्युतप्रदेशान् पुनः प्राप्तवान् । अस्य राजधानी कल्याणी । अस्य कालस्य चालुक्यसाम्राज्यस्य कल्याणीचालुक्याः इति नाम अभवत् । प्रथमः सोमेश्वरः इति चालुक्यः (अस्य आहवमल्लः इत्यपि अभिधा) राजाधिराजचोळं क्रि.श. १०५२ तमवर्षे युद्धे पराजितवान् । चालुक्यवंशस्य अग्रिमः प्रसिद्धः राजा षष्टः विक्रमादित्यः (क्रि.श. १०७६तमवर्षतः क्रि.श. ११२६पर्यन्तम् । अस्य विक्रमाङ्कः इत्यपि नाम आसीत् । विक्रमाङ्कस्य मरणानन्तरं चालुक्यसाम्राज्यं बहुकालम् न अतिष्ठत् । क्रि.श. ११९०तमे वर्षे द्वारसमुद्रस्य होय्सळवंशः|होय्सळाः, यदुगिरेः यादवाः च चालुक्यवंशं पराजितवन्तः ।

ऐतिह्यानि[सम्पादयतु]

कल्याणस्य चालुक्यराजस्य विक्रमादित्यस्य प्रसिद्धः आस्थानकविः विद्यापतिः बिल्हणः स्वस्य विक्रमाङ्कदेवचरिते कथाम् एवम् अवदत् -

  • इन्द्रः ब्रह्माणं प्रार्थितवान् यत् जगतः अधर्मं नियन्त्र्य दुष्टदमनाय कञ्चित् समर्थं वीरं सृजतु इति । तदा ब्रह्मा सन्ध्योपासनावसरे स्वस्य पञ्चपात्रात् (चलुकात्) कञ्चित् वीरम् असृजत् । चलुकादुद्गतः एषः एव चालुक्यवंशस्य मूलपुरुषः । अस्मिन् एव वंशे आगतः हरितः मानव्यः इति वीरौ वंशस्य ख्यातिम् इतोप्यतिशयेन संवर्धितवन्तौ । वेङ्गीचालुक्यानां विमलादित्यस्य रामस्तिपुण्डिप्रदेशे अपि इदमेव उपाख्यानं प्रस्थापितम् । अस्याः कथायाः एव अन्या आवृत्तिः अपि अस्ति । षष्टः विक्रमादित्यस्य कालस्य नीलगुन्दाभिलेखे बिल्हणः पुनः एतत् विवृणोति । एतदनुगुणं चालुक्यानां पूर्वजाः अयोध्यायाः राजानः । तत्र ५९तमपरम्परापर्यन्तं राज्यं प्रशास्य पश्चात् दक्षिणदेशमागताः । तत्र १६परम्पराः प्रशसनम् अकुर्वन् । तत्पश्चात् अस्तङ्गतं वंशं पुनः आनीतवान् जयसिंहः । षष्टविक्रमादित्यस्य हण्डरिकाशिलालेखानुगुणं हरितिपञ्चशिखी इति ऋषौ अर्घ्ये कुर्वाणे तस्य अञ्जलितः उद्भूताः चालुक्याः इति । सप्तमातृकाः एतान् पालितवत्यः इत्यपि वदन्ति ।

चालुकेतिहासस्य कालमानत्रयम्[सम्पादयतु]

चालुक्याः दक्षिणप्रस्थभूमिप्रदेशं ६००वर्षाणां दीर्घवधौ प्राशासन् । अस्मिन् काले त्रयः स्वतन्त्राणि किन्तु निकटबान्धव्ययुतानि राज्यानि अभवन् । तानि बादामीचालुक्याः (क्रि.श. ६-८शतकम्) तेषां सहोदराः कल्याणीचालुक्याः अथवा पश्चिमचालुक्याः, वेङ्गिचालुक्याः अथवा पूर्वचालुक्याः च ।

बादामिचालुक्याः[सम्पादयतु]

चालुक्यसाम्राज्यस्य प्रतिष्ठापकः प्रथमः पुलिकेशिः (क्रिश. ५५०तमवर्षम्) वातापी कर्णाटाकस्य बागलकोटेमण्डलस्य अद्यतन बादामी इति स्थानं वशीकृत्य तत् राजधानीम् अकरोत् । अग्रे एते चालुक्याः बादामीचालुक्याः इत्येव प्रथिताः अभवन् । पुलिकेशिना तस्य वंशस्थैः च प्रशासितं राज्यं सम्पूर्णं कर्णाटाकम्, आन्ध्रप्रदेशराज्यस्य बहुभागाः अन्तर्गतम् आसीत् । इम्मडिपुलिकेशिः बादामिचालुक्यानां श्रेष्ठतमः चक्रवर्ती इति वक्तुं शक्यते ।

बादामी चालुक्याः[सम्पादयतु]

कदम्बवंशीयानां साम्राज्यस्य पतनादनन्तरं कर्णाटकप्रदेशे चालुक्यवंशीयानां साम्राज्यस्य स्थापनाभवत् । बादामी इति नगरं तेषाम् राजधानी आसीत् । सा.श. ५४० तः सा.श.७५३ वर्षपर्यन्तं चालुक्यवंशीयानां प्रशासनम् अभवत् । चालुक्याः कर्णाटकस्य प्रथमराजवंशः इति ख्याताः। एतेषां साम्राज्यस्थापकः कृषककुटुम्बस्य सदस्यः इति विदुषाम् अभिप्रायः अस्ति ।कर्णाटकेतिहासे एषः राजवंशः बहुवैधैः महत्वं प्राप्तः अस्ति । कलावास्तुशिल्पः, साहित्यम् इत्याषु क्षेत्रेशु चालुक्यवंशीयानां महत्वपूर्णं योगदानम् अस्ति । भारतदेशस्य राजकार्ये प्रमुखं पात्रं निर्वहन्तः चालुक्यवंशीयाः कर्णाटकस्य अतीव गौरवम् वर्धितवन्तः । एषः राजवंशः अतीव प्रसिद्धः अभवत् । पूर्वम् चालुक्यराजवंशीयाः कदम्बसाम्राज्यस्य अधीनराजानः आसन् । जयसिंहवल्लभः तस्य पुत्रः रणराणः च चालुक्यसाम्राज्यस्य प्रशासनकर्तारः आसन् । परन्तु एतेषाम् विषये विशेषाधारभूतं विवरणं न लब्धम् अस्ति । रणारागस्य पुत्रः प्रथमः पुलिकेशि स्वतन्त्ररुपेण प्रशासनम् कृतवान इति कारणात् एतमेव चालुक्यसाम्राज्यस्य स्थापकम् परिगणितवन्तः सन्ति । प्रथमः पुलिकेशि क्रिस्ताब्द ५४० तः क्रिस्ताब्ध ५६६ वर्ष पर्यन्तम् प्रशासनम् कृतवान् । एषः कदम्बवंशीयान् युध्दे पराजित्य स्वसाम्राज्यस्य विस्तारं कृतवान । बादामीनगरे दुर्गम निर्माय गुहालयनिर्माणे कार्यम् आरब्धवान् ।

प्रशासनकालः[सम्पादयतु]

शिलाभिलेखानुसारं प्रथमः पुलिकेशिः अनेकयज्ञकार्याणि कृतवान् इति विदितमभवति । अस्य सत्याश्रयः रण्वैक्रमः इत्यादयः उपदयः आसन् । एतस्य पुत्रौ प्रथमः कीर्तिवर्मा मङ्गळेशः च । प्रथमपुलिकेशिराजस्य प्रशासनानन्तरम् एतौ शासकौ अभवताम् । प्रथमः कीर्तिवर्मा सा.श.५६६ तः सा.श.५९६ वर्षपर्यन्तम् सिंहासनारुढः आसीत् । एषः कदम्बवंशीयान् पराजित्य साम्राज्यस्य विस्तारे मग्नः अभवत् । सागरतीरप्रदेशे पश्चिमभागे स्थितम् । अळुपराजं तथा कर्णाटस्य आन्ध्रप्रदेशस्य सीमायां स्थितं नळवाडीप्रदेशस्थं नळराजं पराजितवान् । कळिङ्गपर्यन्तमपि आक्रमणं कृतवान् । सेन्द्रकराजस्य सहोदरीं परिणीय स्वप्रभावं वर्धितवान् । प्रथमपुलिकेशिराजस्य पुत्रः द्वितीयपुलिकेशिः बालः इति कारणात् सहोदरः मङ्गळेशः सा.श.५९६ तः सा.श. ६१० वर्षपर्यन्तम् सिंहासनारुढः अभवत् । प्रथमकीर्तिवर्मणः नियमानुसारमेव नीतिमनुसरन् मङ्गेळशः अपि राज्यविस्तारं कृतवान् ।

द्वितीयपुलिकेशिराजस्य साम्राज्यविस्तारः[सम्पादयतु]

मध्यभारते केचनभागः वशीकृताः अभवन् । गुजरातराज्यस्य सीमान्तं यावत् सेनकार्यं कृत्वा प्रभावीराजः अभवत् । कलचूर्यराजं बुद्धराजमपि पराजितवान् चाळुक्यानां विरुद्धं यदा अधीनराजः स्वामिराजः क्रान्तिम् आरब्धवान् आसीत् । तं पराजित्य शिक्षां दत्तवान् । महाकूटेस्थिते स्तम्भशिलाभिलेखे मङ्गलेशः स्वयं गङ्गराजान् पल्लवराजान् चोळराजान् अलुपराजान् च पराजितवान् । मङ्गळेशः परमभागवतः इति ख्यातः बादामीनगरे विष्णुं गुहादेवालयं निर्मितवान् । एषः स्वपुत्रम् एव साम्राज्ये स्थापयितुम् निर्णयं कृतवान् । भ्रातुः पुत्रः द्वितीयपुलिकेशिः प्राप्तवयस्कः आसीत् । अतः चालुक्यराजवंशे अन्तःकलहः आरब्धः । द्वितीयः पुलिकेशिः विजयीभूत्वा सा.श.६१० तमे वर्षे चालुक्यसिंहासनाधीश्वरः अभवत् । कर्णाटकस्येतिहासे नूतनम् अध्यायम् आरब्धवान् । चालुक्यराजवंशे प्रवृत्तेन अन्तर्युद्धेन राज्ये अराजकता अभवत् । अनेके माण्डलिकाः अस्थिरतायाः लाभं स्वीकर्तुं प्रयत्नं कृतवन्तः। क्रान्तिकारिणौ अप्पयिकगोविन्दौ द्वितीयपुलिकेशिराजेन पराजितौ । अनन्तरं गङ्गवंशीयाः कदम्बवंशीयाः [अलुपवंशः|अलुपवंशीयाः]] च पराजिताः अभवन् । एवम् चाळुक्यसाम्राज्यस्य सर्वेऽपि अधीनाः अभवन् द्वितीयः पुलिकेशिमहाराजः आन्तरिकबाहयोभयसुरक्षार्थं प्रबलं सैन्यं सज्जीकृतवान् । द्वितीयः पुलिकेशिमहाराजः महानौकासौन्यस्य निर्माणमपि कृतवान् । उत्तरभारते लाट्गुर्जरमालवप्रदेशेषु आक्रमणं कृत्वा पराजितवान् । उत्तरभारते कान्यकुब्जनगरे सम्राट हर्षवर्धनः प्रशासनं करोति स्म । तस्य दक्षिणभारते साम्राज्यविस्तारणस्य आशा आसीत् । नर्मदानदीतीरे द्वितीयपुलिकेशिमहाराजेन साकं हर्षवर्धनः युद्धं कृत्वा पराजितः अभवत् । अनन्तरं द्वितीयपुलिकेशिमहाराजं दक्षिणापथेश्वरः इत्याङ्गीकृतवान् । नर्मदानदी दक्षिणोत्तरसाम्राज्ययोः सीमा अभवत् । द्वितीयपुलिकेशिमहाराजः काञ्चीनगरप्रशासकान् पल्लवराजान् नियन्त्रयितुं पाण्ड्यराजैः चोळराजैः च सह उत्तमराजकीयसम्बन्धं स्थापितवान् । दक्षिणभारते पल्लवराजाः चालुक्यराजाः च सङ्घर्षयुक्ताः आसन् । सहजतया एतयोः मध्ये सार्वभौमत्वविषये स्पर्धा आसीत् ।

चालुक्यराजाः-
  • प्रथमः पुलिकेशिः (क्रि.श. ५४३ - ५६६)
  • प्रथमः कीर्तिवर्मः (क्रि.श. ५६६-५९७)
  • मङ्गलेशः (क्रि.श. ५९७-६०९)
  • इम्मडिपुलिकेशिः (क्रि.श. ६०९-६४२)
  • प्रथमः विक्रमादित्यः (क्रि.श. ६५५-६८०)
  • विनयादित्यः (क्रि.श. ६८० - ६९६)
  • विजयादित्यः (क्रि.श. ६९६-७३३)
  • द्वितीयः विक्रमादित्यः (क्रि.श. ७३३-७४६)
  • द्वितीयः कीर्तिवर्मा (क्रि.श. ७४६-७५३)

क्रि.श. ७५३तमे वर्षे राष्ट्रकूटानां दन्तिदुरग्तः कीर्तिवर्माणां पराजितवान् अनेन चालुक्यसाम्राज्यस्य पतनम् अभवत् ।

कल्याणीचालुक्याः[सम्पादयतु]

राष्ट्रकूटानां काले क्षीणं चालुक्यसाम्राज्यं द्वितीयतैलपः राष्ट्रकूटानां तृतीयं कृष्णं पदच्युतं कृत्वा चालुक्यरज्यस्य अनेकप्रदेशान् स्ववशान् अकरोत् । अनेन चालुक्यसाम्राज्यं पुनः वैभवमवाप्नोत् । इयं शखा एव कल्याणीचालुक्याः इति प्रथिता अभवत् । अग्रे अयं राजवंशः २५०वर्षाणि प्राशासत् । एते निरन्तरं चोळराजैः वेङ्गिचालुकैः सह च युद्धं कुर्वन्ति स्म । सत्याश्रयः (क्रि.श. ९९७-१००८), प्रथमः सोमेश्वरः (क्रि.श. १०४२-१०६८), षष्टः विक्रमादित्यः (क्रि.श. ९९७-१००८) च अय वंशस्य प्रसिद्धाः केचन राजानः । कर्णाटकस्य प्रमुखराजवंशीयेषु कल्याणीचालुक्यवंशीयाः अपि प्रख्याताः आसन् । दक्षिणप्रस्थभूमौ द्वितीयशतकतकात् अधिकं कालं एते प्रशासनम् अकुरवन् । दक्षिणभारते एतस्मिन्नेव समये चोलवंशीयाः अपि प्रबलाः आसन् । तत्थापि तेषां राज्यविस्तरणकार्यं कर्तुं चालुक्यवंशीयाः अवकाशं न दत्तवन्तः । बादमीचालुक्यवंशीयाः एव एते स्वपंरपराम् अग्रेऽपि अनुवर्तितवन्तः । राष्ट्रकूटवंशीयैः जिताः एते दशमशतककाले राष्ट्रकूटवंशीयान् पराजित्य कर्णाटकस्य कल्याणप्रदेशे स्वीयम् अधिकारं प्रतिष्ठापयन् । अतः एतेषां वंशस्य नाम कल्याणीचालुक्याः इत्यभवत् । द्वितीयः तैलपः राष्ट्रकूटवंशस्य अन्तिमं राजानं द्वितीयकर्णं पराजित्य सा.श.९७३ तमे वर्षे कल्याणनगरे स्वप्रशासनम् आरब्धवान् । तैलपः समर्थः सेनानी आसीत्यतः अनेकान् अधीनराजान् परजितवान् । सर्वेऽपि पराजिताः तैलपस्य प्रशासनम् अङ्गीकृतवन्तः । सा.श.९९२ तमे वर्षे चोलवंशीयानां प्रथमः राजराजेन्द्रः चालुक्यसाम्राज्यम् आक्रान्तुं प्रयत्नं कृतवान् । तदा तैलपः चोलराजान् पराजितवान् कर्णाटकसीमां संरक्षितवान् कोङ्कणदेशीयान् सिल्लारराजान् तथा सेवुणवंशीयान् च जित्वा अधीनराजन् अकरोत् ।

साम्राज्यविस्तारः[सम्पादयतु]

दक्षिणभारते शिवयोगप्रदेशतः उत्तरे गोदावरीद्याः पर्यन्तं राज्यं विस्तीर्णवान् । राष्ट्रकूटवंशीयैः स्थापितं साम्राज्यं चोळवंशीयानां हस्ते यथा न गच्छेत् तथा संरक्षितवान् । तैलपः पारमारराजानां मञ्जेत्यादीनाम् आक्रमणं सम्यक् निरुद्धवन् । मञ्जः १६ वारम् आक्रमणम् कृतवान् इति प्रबन्धचिन्तामणिः इति ग्रन्थे आधारः लभ्यते । अन्ततः मञ्जः पराजितः बद्धः अभवत् । अनेन पारमारराजानाम् आक्रमणम् समाप्तम् अभवत् । तैलपः सा.श.९७३ तः ९९६ पर्यन्तं स्वजीवनान्तं यावत् प्रशासनम् कृतवान् । द्वितीयतैलपस्यानन्तरं तस्य सुतः सत्याश्रयः सा.श. ९९६ तः ३००८ वर्षपर्यन्तं प्रशासकः अभवत् । पिता इव सत्याश्रयः अपि सततं साम्राज्यरक्षणार्थं प्रयत्नम् अकरोत् । अस्यापि साम्राज्यरक्षणार्थं सामाजिकसुरक्षायाः कार्यकरणम् अनिवार्यम् अभवात् । पारमारवंशीयाः पुनः आक्रमणं कृतवन्तः । किन्तु शूरः सेनानी सत्याश्रयः पारमारराजान् पराजितवान् । सिळ्ळरराजाः त्रिपुरीदेशीयाः कलचूरिराजाः जिताः अभवन् । चालुक्यवंशीयानां परमाधिकारम् अङ्गीकृतवन्तः । सत्याश्रयः गुर्जरराजान् पराजित्य गुर्जरप्रदेशपर्यन्तं साम्राज्यं विस्तीर्णवान् । एतस्मिन् समये एव चोळवंशीयः राजराजेन्द्रः चालुक्यवंशीयस्य साम्राज्यस्य अनेकनगरेषु आक्रमणं कृतवान् । किन्तु पुनरागतः सत्याश्रयः राजराजेन्द्रं पराजित्य साम्राज्यस्य संरक्षणं कृतवान् । सत्याश्रयस्य आहवमल्लः इरिवबेडङ्गः इत्यादीनि नामानि आसन् । कन्नडभाषायाः प्रसिद्धकविः रन्नः सत्याश्रयस्याश्रये आसीत् । सत्याश्रमस्य पश्चात् चालुक्यसिंहासने पञ्चमः विक्रमादित्यः, जयसिंहः, प्रथमसोमेश्वरः, सा.श.१०६८ तः १०७६ तमवर्षपर्यन्तं प्रशासनं कृतवन्तः । एतेषां समयेऽपि सततम् आन्तरिकाः बाह्याः च शत्रवः आक्रमणम् अकुर्वन् । विशेषतः चोळवंशीयाः आक्रमणम् कृतवन्तः । सा.श.१० ५४ तमे वर्षे प्रथमः सोमेश्वरः युद्धे चोळवंशीयान् पराजितवान् । चोळराजं राजराजेन्द्रं मारितवान् च । सा.श.१०६३ तमे वर्षे वेङ्गिराजानः दुर्बलाः अभवन् । तस्मिन् समये प्रथमः सोमेश्वरः चोळवंशीयैः जनपालकैः युद्धं कृतवान् । दक्षिणभारते परमाधिकारस्य स्थापनार्थं चोळराजानां नियन्त्रणं साम्राज्यस्य सीमारक्षणं च अनिवार्यं कर्म अमभवत् । द्वितीयः सोमेश्वरः अल्पकालमेव प्रशासनकर्ता अभवत् । अनन्तरं षष्टविक्रमादित्यः सा.श.१०७६ तः ११२७ वर्ष पर्यन्तं सिंहासनारूढः आसीत् । अस्य समये विशेषतः विक्रमशकः इति नवीनशकवर्षास्य आरम्भः अभवत् । षष्टविक्रमादित्यः स्वसोदरेणैव अन्तरिककलहं प्राप्तवान् । एतां समस्यां सम्यभिवारणम् कृत्वा पञ्चाशत् वर्षपर्यन्तं प्रशासनं कृतवान् । अनेकदण्डयागाणामपि आयोजनं कृतवान् । क्रान्तिकार्ये प्रवृत्तान् सिळ्ळारराजान् अलुपराजान् दण्डयित्वा स्वपरमाधिकारस्य अङ्गीकारे अनिर्वायताम् आनीतवान् । सा.श. १०८५ तमे वर्षे चोळवंशीयानां राज्ञः विरुद्ध्य आक्रमणम् कृत्वा काञ्चीनगरं वशीकृतवान् । एतस्मिन् समये द्वारसमुद्रे होय्सळवंशीयाः प्रवर्धमानाः भवितुम् प्रयत्नं कृतवन्तः । होय्सळराजः विष्णुवर्धनः चळुक्यसेनां हासनप्रदेशस्य कण्णेगालसमीपे पराजितवान् । पुनः चाळुक्यवंशीयाः होय्सळवंशः|होय्सळवंशीयान्]] पराजित्य अधीनराजन् अकरोत् ।

शकपुरुषः विक्रमादित्यः[सम्पादयतु]

विक्रमादित्यः चोळवंशीयां राजकुमारीं परिणीतवान् । अतः चोळचालुक्यवंशयोः वैरः उपशान्तः । उत्तरभारते नर्मदानदीपर्यन्तं साम्राज्यरक्षणे विक्रमादित्यः समर्थः अभवत् । अस्य भुवनकमलः पेर्मादिदेवः इत्यादयः उपाधयः आसन् । चालुक्यवंशीयानां प्रशासनकाले विक्रमादित्यःविक्रमादित्यस्य]] अधिकारसमयः सुवर्णयुगः इति प्रसिद्धः अस्ति । शूरः युद्धोत्सही, विक्रमादित्यः साम्राज्ये शान्ति स्थापकः च आसीत् । अस्य समये राज्ये उत्तमास्थितिः आसीत् । प्रसिद्धः कविः बिल्हणः विक्रमाङ्कदेवचरितम् इति काव्यं लिखितवान् । विज्ञोनश्वरः मिताक्षरग्रन्थम् इति कृतिं रचितवान् । एतौ ग्रन्थौ कन्नडसाहित्यै अतीव अमूल्यै स्तः। विक्रमादित्यः विक्रमपुरम् इति एकम् नूतनम् नगरं निर्मितवान् । षष्टः विक्रमादित्यः सा.श.११२७ तमे वर्षे दिवं गतः अभवत् । अनन्तरं तस्य पुत्रः तृतीयः सोमेश्वरः अधिकारं गृहीतवान् । एषः स्वयम् सहित्यासक्तः अभिमानीलेखकः आप्यासीत् मानसोल्लासः इति ग्रन्थः एतेन लिखितः अस्ति । अस्य ग्रन्थस्य अभिलाषितार्थचिन्तामणिः इत्यपि नामास्ति । अत्र ग्रन्थे न्यायशास्त्रवैद्यशास सङ्गीत चित्रकला श्वशास्त्राणाम् विषयाः सम्यक् निरुपिताः सन्ति । अस्य प्रशासनकाले चोळचाळुक्यवैरं पुनः आरब्धम् अभवत् । युद्धेषु चोळराजानः वेङ्गिप्रदेशम् आक्रान्तवन्तः । होय्सलराजः विष्णुवर्धनः स्वतन्त्रतया प्रशासनम् आरब्धवान् । तृतीयसोमेश्वरः स्वस्य राज्यसंरक्षणार्थं निर्लक्षितवान् आसीत् । अस्य सर्वज्ञचक्रवर्ती इत्यपि उपाधिः आसीत् ।

साम्राज्यपुनरारम्भः[सम्पादयतु]

तृतीयसोमेश्वरस्य पुत्रः द्वितीयः जगदेकमल्लः प्रशासकः अभवत् । एतत्समये एव कल्याणीचालुक्यानां साम्राज्यस्य पतनस्यारम्भः अभवत् । वारङ्गलप्रदेशे काकतीयाः वेङ्गिप्रदेशे चालुक्याः स्वतन्त्राः इति उदघोषयन् । गोवाप्रदेशे हान्गलप्रदेशे कदम्बाः च चालुक्यानां परमाधिकारं धिक्कृतवन्तः । राजानः अस्मर्थाः अभवन् । अधीनराजानः प्रबलाः अभवन् । विक्रमादित्यस्य समये कलचूर्यवंशीयाः वैवाहिकसम्बन्धं संवर्धितवन्तः आसन् । किन्तु सा.श.११५६ वर्षसमये पुनः प्रबलाः अभवन् । सा.श.११५६ वर्षसमये कलचूर्यराजः बिण्णलः तृतीयतैलपराजस्य अधीनतां त्यक्त्वा स्वयम् चालुक्य सिंहासनम् अधिरूढवान् । सततम् २८ वर्षाणि प्रशासनं कृत्वा चतुर्थसोमेश्वरं सा.श.२२८४ तमे वर्षे पुनः पराजितवान् । सा.श.२२८९ तमे वर्षे देवगिरिप्रदेशीयाः सेवुणराजाः दोरसमुद्रस्य च होय्सळराजाः च प्रबलाः अभवान् । अतः स्वाभावतः एव द्वादशशतकस्योत्तरे भागे कल्याणिचालुक्यानां साम्राज्यस्य पतनमभवत् ।

योगदानम्[सम्पादयतु]

प्रायशः सार्धैकशतवर्षपर्यन्तं प्रशासनं कृत्वा कल्याणिचालुक्याः कर्णाटकस्य सर्वतोमुखाभिवृद्धये कार्ये रताः अभवन् । पूर्वं ये राजानः कर्णाटके साम्राज्यं स्थापितवन्तः तस्य च संरक्षणं कृतवन्तः । सामान्यजनानां व्यावहारिकी भाषा कन्नडभाषा एवासीत् । कन्नडाभाषायामेव शिलाभिलेखान् निर्मितवन्तः । अनेक देवालयानां निर्माणम् कारितवन्तः । कन्नडकाला संस्कृतिः साहित्यम् इत्यादीनां पोषकाः कल्याणिचालुक्याः चोळराजानाम् आक्रमणानि विरुद्ध्य कर्णाटकसाम्राज्यम् रक्षितवन्तः । एतेषां समये व्यापारव्यवहारेषु च अभिवृद्धिः अभवत् । अनेकाः वणिज्यसङ्घाः स्थापिताः । ऐहोळे इति प्रदेशे एनूर्वरु इति वाणिज्यस्य सङ्घस्य उत्तमः परिणामः सर्वगोचरः अभवत् । गदगप्रदेशे बेळ्ळिगांवप्रदेशेषु शिक्षाकेन्द्राणि अस्मिन् काले प्रवर्धमानानि अभवन् । चालुक्यराजाः कलासंस्कृतिनृत्यादीनां प्रोत्साहनम् अकुर्वन् । सार्धेकशतककाले प्रशासने कर्णाटकेतिहासे विशिष्टकार्याणि कृत्वा नूतनाध्यायकर्तारः अभवन् ।

  • द्वितीयः तैलपः (क्रि.श. ९७३-९९७)
  • सत्याश्रयः (क्रि.श. ९९७-१००८)
  • पञ्चमः विक्रमादित्यः (क्रि.श.१००८-१०१५)
  • द्वितीयः जयसिंहः क्रि.श.(१०१५-१०४२)
  • प्रथमः सोमेश्वरः (क्रि.श.१०४२-१०६८)
  • द्वितीयः सोमेश्वरः (क्रि.श. १०६८-१०७६)
  • षष्टः विक्रमादित्यः (क्रि.श.१०७६-११२६)
  • तृतीयः सोमेश्वरः (क्रि.श. ११२६-११३८)
  • द्वितीयः जगदेकमल्लः (क्रि.श. ११३८-११५१)
  • तृतीयः तैलपः (क्रि.श. ११५१-११६८)
  • तृतीयः जगदेकमल्लः (क्रि.श. ११६३-११८२)
  • चतुर्थः सोमेश्वरः (क्रि.श. ११८४-१२००)

होय्सळानां, काकतीयानां, यादवानां च राजवंशानाम् उत्कर्षेण क्रि.श. ११८०तमवर्षात् कल्याणीचालुक्यानां साम्राज्यस्य पतनम् अभवत् ।

पूर्वचालुक्याः[सम्पादयतु]

अद्यतनान्ध्रप्रदेशस्य समुद्रतीरभागस्य विष्णुकुण्डिनसाम्राज्यस्य अन्यभागानं जित्वा इम्मडिपुलिकेशिः कुब्जविष्णुवर्धनं स्वप्रतिनिधिरूपेण नियोजितवान् । पुलकेशेः मृत्योः पश्चात् इयं शाखा स्वतन्त्रा सती मुख्यवातापिसाम्राज्यात् अग्रे अनेकपरम्परापर्यन्तं स्वतन्त्रप्रशासनम् अकरोत् । एते राजानः नवमशतकस्य मध्यभागपर्यन्तं वेङ्गिप्रान्ते कन्नडभाषायाः संवर्धनम् अकुर्वन् । तदानीन्तने शिलालेखेषु कन्नडलिपौ तेलुगुभाषा दृश्यते ।

  • कुब्जविष्णुवर्धनः (क्रि.श. ६२४-६४१)
  • प्रथमः जयसिंहः (क्रि.श. ६४१-६७२)
  • इन्द्र भट्टारक (क्रि.श. ६७३)
  • द्वितीयः विष्णुवर्धनः (क्रि.श. ६७३-६८२)
  • मङ्गियुवराजः (क्रि.श. ६८२-७०६)
  • द्वितीयः जयसिंहः (क्रि.श. ७०६-७१८)
  • तृतीयः विष्णुवर्धनः (क्रि.श. ७१९-७५५)
  • प्रथमः विजयदित्यः (क्रि.श. ७५५-७७२)
  • चतुर्थः विष्णुवर्धः (क्रि.श. ७७२-८०८)
  • द्वितीयः विजयादित्यः (क्रि.श. ८०८-८४७)
  • पञ्चमः विष्णुवर्धनः (क्रि.श. ८४७-८४९)
  • तृतीयः विजयादित्यः (क्रि.श. ८४८-८९२)
  • प्रथमः भीमः (क्रि.श. ८९२-९२१)
  • चतुर्थः विजयादित्यः (क्रि.श. ९२१)
  • प्रथमा अम्मा(क्रि.श. ९२१-९२७)
  • द्वितीयः विक्रमादित्यः (क्रि.श. ९२७-९२८)
  • द्वितीयः युद्धमल्लः (क्रि.श. ९२८-९३५)
  • द्वितीयः चालुक्यभीमः (क्रि.श. ९३५-९४७)
  • द्वितीया अम्मा (क्रि.श. ९४७-९७०)
  • दानमवः (क्रि.श. ९७०-९७३)
  • जटचोडभीमः (क्रि.श. ९७३-१०००)
  • प्रथमः शक्तिवर्मा (क्रि.श. १०००-१०११)
  • विमलादित्यः (क्रि.श. १०११-१०१८)
  • राजराजनरेन्द्रः (क्रि.श. १०१८-१०६१)
  • द्वितीयः शक्तिवर्मा ।
  • सप्तमः विजयादित्यः (क्रि.श. १०६३-१०६८, क्रि.शा. १०७२-१०७५)

चालुक्यमूलम्[सम्पादयतु]

चालुक्यानां मूलस्य विषये अभिप्रायभेदाः सन्त्यपि ते कर्णाटकस्य राजानः इति विषये ऐकमत्यम् अस्ति । चालुक्यानां शिलाभिलेखभाषा कन्नडभाषा संस्कृतभाषा च । केषाञ्चन चालुक्यराजानां नामानि अरस इति कन्नडभाषाशब्दान्तानिराष्टकूटानां शिलालेखेषु कर्णाटकबलम् इति चालुक्याः सम्बोधिताः । तदनुगुणं चालुक्याः बनवासीकदम्बानां वंशजाः अथवा बन्धवः । बनवासीकदम्बानाम् अधीनाः प्रदेशाः एव अग्रे चालुक्याधीनाः अभवन् । मङ्गलेशस्य प्रसिद्धाः बादामीगुहालेखाः (क्रि.श. ५७८) तस्य महाकूटस्य स्म्भानां लेखनानि (क्रि.श. ६०२), कप्पे अरभट्टस्य शिलाभिलेखाः (क्रि.श. ७००) च चालुक्यानां कन्नडभाषाप्रेम प्रकाशयन्ति । बादामि कोडि प्रदेशस्य प्रथमः पुलिकेशिः क्रि.शा. ५४३तमवर्षस्य प्रथमशिलाभिलेखः द्वितीयपुलकेशेः ऐहोळेशिलाभिलेखः (क्रि.श. ६३४) च कन्नडलिपौ संस्कृतभाषया सन्ति । ऐहोळेशिलाभिलेखः पुलिकेशिं ९९०००ग्रामाणाम् अधिपतिः इति प्रशंसति । अद्य महाराष्ट्रराज्ये विद्यमाननेषु ९६मराठिकुलेषु अन्यतमस्य सोलङ्किकुलजाः चालुक्यराजवंशीयाः तेषां मूलं कर्णाटकम् एव इति वदन्ति ।

बादामिचालुक्यानां योगदानम्[सम्पादयतु]

चालुक्यसाम्राज्यस्य महत् योगदानं नाम वास्तुशिल्पकला एव । पट्टदकल्लु, बादमी, ऐहोळे इत्यदिस्थानेषु शिलासु उत्कीर्णानि मन्दिराणि, अजन्ता, एल्लोरा इत्यादिस्थानेषु निर्मितानि शिल्पानि भित्तिचित्राणि च चालुक्यानाम् अभिरुचेः सक्षिणः । (|UNESCO heritage site) एतं कालं चालुक्यानां शैल्याः वास्तुशिल्पस्य आरम्भकालः इति परिगणितः क्रि.श. ४५०-७५०तमवर्षेषु ऐहोळे इत्येकस्मिन्नेव स्थाने १५०अधिकानि मन्दिराणि निर्मितवन्तः । ऐहोळेदुर्गा (क्रि.श. षष्टशकते), लाड् खान् (क्रि.श. ४५०) मेगुति (क्रि.श. ६३४) हुच्चिमल्लि, हुच्चप्पय्यः (क्रि.श. पञ्चमशतकम्) इत्यादयः देवालयाः बादामीगुहादेवालयाः च एतेषाम् आरम्भकालस्य कलोदाहरणानि । क्रि.श. ७४०तमे काले विक्रमादित्यः पट्टदकल्लु इति स्थाने अद्भुतं मन्दिरं निर्मितवान् । अत्रविद्यमानाः वीरूपाक्षदेवालयः, मल्लिकार्जुनदेवालयः, सङ्गमेश्वरदेवालयः, जैनदेवालयः, च द्राविड इति शैल्यानिर्मिताः । जम्बुलिङ्गदेवालयः, काशीविश्वेश्वरदेवालयः, गळगनथदेवालयः च उत्तरभारतीयनागरशैल्या निर्मिताः सनि । पापनाथदेवालये दक्षिणोत्तशैल्योः सङ्गमः अस्ति ।

कल्याणीचालुक्यानां कला साहित्यं च[सम्पादयतु]

कन्नडभाषायाः रन्नसदृशेभ्यः कविभ्यः कल्याणीचालुक्याः आश्रयं दत्तवन्तः । रन्नः द्वितीयतैलपस्य आस्थानकविः चालुक्यानां कालस्य प्रथमः कविः आसीत् । अजितनाथपुराणम्, साहसभीमविजयम् अथवा गदायुद्धम्, परशुरामचरितम्, रन्नकाण्डम्, इत्यादयः अस्य प्रसिद्धाः कृतयः । तस्मिन् काले अनेकाः कन्नडभाषाविद्वांसः अभवन् । तेषु केचन शृङ्गारशास्त्रस्य विषये लिखितायाः मदनतिलक इति कृतेः कर्ता चन्द्रराजः, जातकतिलकम् (ज्योतिश्शात्रे) इति कृतेः कर्ता श्रीधराचार्यः गोवैद्य इति ग्रन्थस्य कर्ता कीर्तिवर्मा, धर्मामृतस्य नयसेनः, काव्यावलोकनस्य नागवर्मा समयपरीक्षे ग्रन्थस्य ब्रह्मशिवः, गणितशास्त्रस्य राजादित्यः, कर्णाटककल्याणकारकग्रन्थस्य जगद्दालसोमनाथः, वचनकारः देवरदासिमय्यः च कल्याणीचालुक्यानां कालस्य एव साहित्यकाराः । मन्त्री कन्नडपञ्चतन्त्रस्य रचयिता दुर्गसिंहः सेनापतिः द्वितीयः चावुण्डरायः (लोकोपकारस्य रचयिता) इत्यादयः अपि अस्मिन् काले एव कन्नडभाषासाहित्यसमृद्धिम् अकुर्वन् ।

कल्याणीचालुक्याः यशोधरचरितम्, पार्श्वनाथचरितम् इत्यादीनां रचयिता वादिराजः इत्यादीभ्यः अपि आश्रयम् अयच्छन् । स्वस्य आश्रयदातारं विक्रमादित्यं बिल्हणः विक्रमाङ्कदेवचरितम् इति कृतिं विरचय्य अमरमकरोत् । सुप्रसिद्धस्य मिताक्षरस्य कर्ता विज्ञानेश्वरः तृतीयसोमेश्वरः कलाविज्ञानयोः विषये विश्वकोशम् अरचयत् ।

वास्तुशिल्पवैभवम्[सम्पादयतु]

बळ्ळारी, धारवाडः, हैदराबादकर्णाटकम्, इत्यादिप्रदेशेषु दृश्यमानानि चलुक्यशैलीभवनानि चालुक्यानां पूर्वार्धशैल्याः होय्सळानां शैल्याः च निदर्शनानि । दक्षिणभारते तत्रापि कर्णाटाके निर्मितै मन्दिरैः द्वादशशतकस्य कल्याणिचालुक्यानां वास्तुशिल्पम् अत्युच्चस्थितिम् अवाप्नोत् । कल्याणीचालुक्यानां वास्तुशिल्पस्य अपरं वैशिष्ट्यं नाम बहुसोपानानां पुष्करनिर्माणम् । गदगमण्डलस्य लक्कुण्डिप्रदेशस्य काशीविश्वेश्वरदेवालयः, दावणगेरेमण्डलस्य कुरुवत्तिप्रदेशस्य मल्लिकार्जुनदेवालयः, कोप्पळमण्डलस्य महादेवमन्दिरम्,च चालुक्यानाम् उत्तरार्धवास्तुशिल्पशैल्याः उत्कृष्टोदाहरणानि । तत्रापि महादेवमन्दिरं बृहदाकारेण सूक्ष्मक्षदनेन भारतस्य शिल्पस्य अत्युत्तमम् उदाहरणम् । भित्तीनां, स्तम्भानां, गोपुरस्य च क्षदनानि चालुक्यानाम् अत्युन्नतस्तरस्य कलाभिरुचेः संस्कृतेः निदर्शनानि । क्रि.श. १११२तमकालस्य शिलाभिलेकः कश्चित् देवायलयः षष्टविक्रमादित्यस्य निर्माणम् इति सूचयति । एषः देवालयानाम् एव चक्रवर्ती इति वर्णयति । होय्सळराजाः प्रसिद्धं शिल्पिनं जकणाचारी इत्येनं यदा बेलूरुदेवालयस्य निर्माणं कर्तुम् आदिशन् सः एतस्य महादेवमन्दिरस्य दर्शनं कृत्वा प्रेरणाम् आप्नोत् इति ऐतिह्यः अस्ति । कल्याणिचालुक्यानां वास्तुशिल्पकलायां सूक्ष्मक्षदनस्य सुन्दरस्तमानां सोपानपुष्कराणां कार्ये विशेष लक्ष्यं दत्तम् इव भाति । कल्याणीचालुक्याः कर्णाटकस्य धारवाडमण्डले, गदगमण्डले, हावेरीमण्डले च पञ्चाषदधिकान् देवालयन् निर्मितवन्तः । बादामी, ऐहोळे इत्यदिषु प्रदेशेषु अपि यल्लम्मस्य मल्लिकार्जुनस्य च देवालयान् प्रतिष्टापयन् । गदगस्य वास्तुशिल्पशैली इत्येव प्रथिता काचित् नूतना शैली तस्मिन् एव काले आविष्कृता । एषा दक्षिणस्य द्राविडशैल्याः उत्तरस्य नागरशैल्याः च मिश्ररूपम् इति वदन्ति ।

शोधकानाम् अवलोकनम्[सम्पादयतु]

डा.ज्योत्स्ना कामत् इति इतिहासज्ञा वदति कर्णाटकस्य इतिहासे चालुक्यानां कालं सुवर्णयुगम् इति वक्तुं शक्यते । यतः राज्यस्य विस्तारं दक्षं प्रशासनं, सामजिकसुरक्षां, विद्याप्रसारं, वाणिज्यव्यवहारे विकासं, साहित्यकलानाम् अभिवृद्धिं, च अकुर्वन् । बसवेश्वरादयः समाजविकासकारकाः अस्य काले एव सस्भूताः । प्रतिवर्षं कर्णाटकसर्वकारः पट्टदकल्लु, ऐहोळे परिसरेषु दिनत्रयस्य चालुक्योत्सवं वैभवेन आचरति । तत्र सङ्गीतं नृत्यम् इत्यादयः मनोरञ्जनकार्यक्रमाः अयोज्यन्ते । क्रि.श.१९६०तमकाले निर्मितम् इम्मडिपुलिकेशी चलच्चित्रं प्रसिद्धम् अभवत् ।

बाह्यानुबन्धाः[सम्पादयतु]



"http://sa.wikipedia.org/w/index.php?title=चालुक्यवंशः&oldid=270158" इत्यस्माद् पुनः प्राप्तिः