चिखलदरा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(चिकल्धारा इत्यस्मात् पुनर्निर्दिष्टम्)
चिकल्धा
—  गिरिधाम  —
चिकल्धा
Location of चिकल्धा
in महाराष्ट्रम्
निर्देशाङ्काः

२१°१३′उत्तरदिक् ७७°४३′पूर्वदिक् / 21.21°उत्तरदिक् 77.72°पूर्वदिक् / २१.२१; ७७.७२

देशः भारतम्
राज्यम् महाराष्ट्रम्
मण्डलम् अमरावतीमण्डलम्
जनसङ्ख्या ४,७१८ (2001)
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• औन्नत्यम्


1,088 मीटर (3,570 फ़ुट)

चिकल् धा गिरिधाम महाराष्ट्रराज्ये सात्पुरापर्वतश्रेण्याम् अमरावती मण्डले स्थितं सुन्दरं गिरिधामस्थलमेतत् । अत्र सरोवराणि, जलपाताः, फलपुष्पाणि प्राणिवर्गः, पक्षिसङ्कुलं दर्शनीयानि सन्ति । एतत् गिरिधाम प्राचीनं पौराणिकं स्यलं च अस्ति । अत्रैव भीमः कीचकं मारयित्वा प्रपाते क्षिप्तवान् । अतः कीचकधारा एव चिकल्धा अभवत् इति जनानां विश्वासः । अनन्तरं सः अत्र स्नानं कृतवान् । एतत् तीर्थं भीमकुण्डम् इति च प्रसिद्धम् अस्ति ।

स्थाने जलप्रपात:
स्थाने निसर्गसौन्दर्यम्

अमरावतीमण्डले अन्तर्भूतम् इदम् उपमण्डलं, समग्रे महाराष्ट्रे प्रसिद्धं वीक्षणीयस्थानम् । अमरावती इत्यस्मात् नगरात् इदं स्थानं ९० कि.मी. दूरे अस्ति । महाराष्ट्रराज्ये एकमेव 'कोफी'बीजोत्पादनक्षेत्रम् इदम् उपमण्डलम् ।

सातपुडा आवल्या: मेळघाट आवल्याम् स्थितम् चिखलदरा इत्येतत् गिरिधाम ३५६४ पादोन्नतम् अस्ति । महाभारतकथानुसारं 'कीचकधारा' इत्येव नामधेयं, परम् इदानीम् अपभ्रंशेन ‘चिखलदरा’ सञ्जातम् । मेळघाट आवल्यां यत् अरण्यक्षेत्रम्, तस्मिन् शार्दूला:, भल्लुका:, ‘साम्बर’, सूकराश्च सन्ति । १९७४ तमे वर्षे इदम् अरण्यं व्याघ्र-अभयारण्यम् इति केन्द्रसर्वकारेण घोषितम् । अस्मिन् उपमण्डले विराटराज्ञ: राजप्रासाद:, जलसन्धारणसंस्था (water harvesting system), कोलखास, हरिकेन, सीमाडोह, भीमकुण्ड: इत्येतानि अपि प्रेक्षणीयस्थानानि सन्ति ।

धूमशकटमार्गः[सम्पादयतु]

नागपुरनिस्थानतः १८४ कि.मी । समीपधूमशकटनिस्थानं बडनेर्

वाहनमार्गः[सम्पादयतु]

मुम्बयीतः ८०६ कि.मी अमरावती तः १०० कि.मी.

"https://sa.wikipedia.org/w/index.php?title=चिखलदरा&oldid=390213" इत्यस्माद् प्रतिप्राप्तम्