चित्तौडगढ
| चित्तौड्गढ् चित्तौड़गढ़ |
|||
|---|---|---|---|
| — नगरम् — | |||
| चित्तौर्गढदुर्गम् | |||
| विकटनाम(नि): चित्तूर् | |||
|
Location in Rajasthan, India |
|||
| Coordinates: 24°53′N 74°38′E / 24.88°N 74.63°ECoordinates: 24°53′N 74°38′E / 24.88°N 74.63°E | |||
| देशः | |||
| राज्यम् | राजास्थानम् | ||
| मण्डलम् | चित्तौर्गढ | ||
| औन्नत्यम् |
|
||
| जनसङ्ख्या (2001) | |||
| • Total | ९६,०२८ | ||
| Languages | |||
| • Official | हिन्दी | ||
| IST (UTC+5:30) | |||
चित्तौडनगरं महाराणा प्रतापसिंसस्य मेवाडराजस्य राजधानी आसीत् इत्यतः प्रसिद्धम् वर्तते। अत्रत्यं चेतकस्मारकं दर्शनीयम् अस्ति। १२ शतके राजस्थानराज्ये निर्मितं द्वितीयं दुर्गमस्ति । त्रिकूटपर्वते स्थितमेतत् २५० पादोन्नतम् अस्ति । अत्र ९९ वीक्षकस्थानानि ३० पादोन्नते प्रावारे सन्ति । रङ्गमहल् गजमहल् इत्यादयः प्रासादाः अत्र सन्ति । अत्र शिलासु सुन्दर- चित्राणि निर्मितानि सन्ति । अस्मिन् दुर्गे जैनमुनीनां देवालयाः अपि सन्ति ।
भारतीय-इतिहासे अनेकवारम् अत्र युद्धम् अभवत् । राजपूतवीराणां स्थानमेतत् । अत्यन्तं बलिष्ठदुर्गं पर्वतप्रदेशे अस्ति । महाराणा कुम्भः , राणा प्रतापसिंहः राणा सङ्ग्रामसिंहः कुम्भस्य पत्नी भक्ता मीराबायी इत्यादीनां जनानां वासस्थानमेतत् आसीत् । राणा कुम्भः मोहम्मदखिलजीं पराजित्य नवस्तरीयं विजयस्तम्भं निर्मितवान् । एषः प्रवासिनाम् अत्याकर्षकः स्थलविशेषः अस्ति । राणा भीमासिंहस्य पत्नी सुन्दरी राज्ञी पद्मिनी पतिव्रता नारी आसीत् । चित्तूरुदुर्गं गन्तु विशालः मार्गः अस्ति । महाराणाकुम्भराजगृहं, पद्मिनीमहल्, मीराबायीमहल्, कीर्तिस्तम्भः, जटाशङ्करदेवालयः, गिरिधरमन्दिरम् अत्र द्रष्टव्यानि स्थानानि । विजयस्तम्भः ३७ मीटर् उन्नतः (१२१ पादमितः) क्रिस्ताब्दे १४५८ तः १४६८ तमवर्षावधौ निर्मितम् अस्ति । स्तम्भस्य बाह्यभागे हिन्दूशिल्पालङ्कारः अस्ति । कीतिस्तम्भः द्वादशशतके निर्मितः २२ मीटर उन्नतः । कश्चन जैनवणिक् आदिनाथाय एतदर्पितवान् । अत्र समीपे मृगोद्यानं भीमलतासरोवरं , नीलकण्ठमहादेवजैनदेवालयः, काळीमातादेवालयः इत्यादयः सन्ति ।
अस्य समीपे गडसीसरोवरम् क्रिस्ताब्दे १३४० तमे वर्षे निर्मितम् अस्ति । कृतक् सरोवरेऽस्मिन् मध्ये निर्मितः जलमण्डपः सरोवरस्य सौन्दर्यं वर्धयति । पार्श्वे वस्तुसङ्ग्रहालयः अस्ति । सरोवरे नौकाविहारः राजस्थानप्रवासविभागेन कल्पितः अस्ति । अत्र अनेकानि सुन्दरभवनानि सन्ति । तेषु पटवरभवनं (१८००) सालीं सिंहभवनं (१८२५) उत्कृष्टशिल्पस्य उदाहरणम् । अत्र वालुकापर्वतेषु उष्ट्रारोहणं कृत्वा आनन्दमनुभवितुं अवकाशः अस्ति ।
भारतस्य इतिहासे चित्तौडस्य दुर्गस्य विशेषमहत्त्वम् अस्ति । ७२८ तमे क्रिस्ताब्दे प्रसिद्धः रजपूतवीरः बप्परावलः एतत् दुर्गं निर्मापितवान् । रजपूताः शौर्येण, पराक्रमेण्, प्रगतिपरैः कार्यैः, संस्कृत्तिपरत्वेन च ख्याताः आसन् । बप्परावलेन निर्मितम् एतत् नगरं मोगलराजैः ध्व्स्तीकृतम् । विश्वाविख्यातायाः सुन्दर्याः पद्मिन्याः पतिः राजा भीमसिंहः अत्रत्यः एव । कृष्णभक्ति कारणतः समर्ग्रे देशे ख्यातया मीराबाय्या निर्मितः कृष्णलयः अत्रैव अस्ति । तस्याः पत्या कुम्भराणवर्येण निर्मापितम् एकं मन्दिरम् अपि अत्र अस्ति । अत्रत्येषु भवनेषु अतिविशिष्टं भवनम् अस्ति विजयस्तम्भः । मालवराजः (सुल्तानः) मोहम्मदखिलजी चित्तौडस्य वशीकरणाय आगत्य पराज्यं पाप्य प्रतिगतः । तस्यैव विजयस्य स्मरणार्थम् एषः विजयस्तम्भः निर्मितः । १४४० तमे क्रिस्ताब्दे कुम्भराणा एतं निर्मापितवान् । एषः १२२ पादौन्नत्ययुतः अस्ति ।
व्यवस्थाः[सम्पादयतु]
सहाराटूरिस्ट, थारसफारी इत्यादयः प्रवासव्यवस्थापक संस्थाः सन्ति । वसत्यर्थम् अनेकानि उपाहारवसतिगृहाणि सन्ति ।
वाहनमार्गः[सम्पादयतु]
उदयपुरतः ८० कि.मी । धूमशकटयाननिस्थानं चित्तौड् द्वादशकि.मी दूरेऽस्ति । अजमेरतः ५०० कि.मी जयपुरतः ६१८ कि.मी उदयपुरतः ६६३ कि.मी । बिकानेरतः ३२८ कि.मी । देहलीतः ८९७ कि.मी –जोधपुरतः २९० कि.मी वारमारतः १५८ कि.मी |