चित्तौड
चित्तौडनगरं महाराणा प्रतापस्य मेवाडराजस्य राजधानी आसीत् इत्यतः प्रसिद्धम् वर्तते। अत्रत्यं चेतकस्मारकं दर्शनीयम् अस्ति। चित्तौड् भारतस्य इतिहासे चित्तौडस्य दुर्गस्य विशेषमहत्त्वम् अस्ति । ७२८ तमे क्रिस्ताब्दे प्रसिद्धः रजपूतवीरः बप्परावलः एतत् दुर्गं निर्मापितवान् । रजपूताः शौर्येण, पराक्रमेण्, प्रगतिपरैः कार्यैः, संस्कृत्तिपरत्वेन च ख्याताः आसन् । बप्परावलेन निर्मितम् एतत् नगरं मोगलराजैः ध्व्स्तीकृतम् । विश्वाविख्यातायाः सुन्दर्याः पद्मिन्याः पतिः राजा भीमसिंहः अत्रत्यः एव । कृष्णभक्ति कारणतः समर्ग्रे देशे ख्यातया मीराबाय्या निर्मितः कृष्णलयः अत्रैव अस्ति । तस्याः पत्या कुम्भराणवर्येण निर्मापितम् एकं मन्दिरम् अपि अत्र अस्ति । अत्रत्येषु भवनेषु अतिविशिष्टं भवनम् अस्ति विजयस्तम्भः । मालवराजः (सुल्तानः) मोहम्मदखिलजी चित्तौडस्य वशीकरणाय आगत्य पराज्यं पाप्य प्रतिगतः । तस्यैव विजयस्य स्मरणार्थम् एषः विजयस्तम्भः निर्मितः । १४४० तमे क्रिस्ताब्दे कुम्भराणा एतं निर्मापितवान् । एषः १२२ पादौन्नत्ययुतः अस्ति ।