चित्रदुर्गम्
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
| चित्रदुर्गम् | |||
|---|---|---|---|
| — नगरम् — | |||
|
Location in Karnataka, India |
|||
| Coordinates: 14°14′N 76°24′E / 14.23°N 76.4°ECoordinates: 14°14′N 76°24′E / 14.23°N 76.4°E | |||
| देशः | |||
| राज्यम् | कर्णाटकम् | ||
| Region | Bayaluseeme | ||
| मण्डलम् | चित्रदुर्गम् | ||
| सर्वकारः | |||
| • Member of Parliament | Janardhana Swamy | ||
| विस्तीर्णम् | |||
| • Total | २१.५७ Square km (८.३ Square mile) | ||
| औन्नत्यम् |
|
||
| जनसङ्ख्या (2001) | |||
| • Total | १,२२,५९४ | ||
| Languages | |||
| • Official | कन्नड | ||
| IST (UTC+5:30) | |||
| PIN | 577 50x | ||
| Telephone code | 08194 | ||
| वाहनपञ्जीकरणम् | KA-16 | ||
चित्रदुर्गं (Chitradurga) कर्णाटकस्य चित्रदुर्गमण्डलस्य केन्द्रम् अस्ति । चित्रदुर्गम् ऐतिहासिकमहत्त्वम् आप्नोति । त्यागे, शौर्ये, परम्परायां च एतत् प्रसिद्धिम् आप्नोत् । अत्र विद्यमानः सप्तावर्तं दुर्गं पर्यटकान् आकर्षति । विजयनगरसाम्राज्यस्य काले तिम्मण्णनायकः इति सेनापतिः आसीत् । तस्य शौर्यपराक्रमं च प्रशंस्य राजा तस्मै एतत् स्थानं पारितोषिकरूपेण प्रदत्तवान् । तिम्मण्णनायकस्य पुत्रः ओबण्णः अथवा मदकरिनायकः । तस्य पुत्रः कस्तूरीरङ्गप्पः । अस्य काले प्रदेशः शान्तः समृद्धः चासीत् । इसिल इति प्रदेशः चित्रदुर्गस्य ईशान्यप्रान्ते ब्रह्मगिरेः समीपे अस्ति । चक्रवर्तिनः अशोकस्य काले एतत् स्थलम् अस्य राज्यस्य राजधानी आसीत् । तस्य काले निर्मितः चैत्यालयः इदानीमपि अत्र दृश्यते । आशोकस्य शिलाशासनमपि अत्र प्राप्तम् ।