छत्रपति शिवाजी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(छत्रपतिः शिवाजिः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

फलकम्:Underlinked

कश्चित् बालकः एकस्मिन् लघुनि सिंहासने उपविष्टवान् आसीत् । तस्य भटाः कञ्चन ग्रामाधिकारिणम् आनीतवन्तः । तस्य अपराधः एवम् आसीत् एकस्याः अनाथविधवायाः बलात्करणम् इति। ग्रामाधिकारिणः हस्तौ पादौ च बद्धौ आस्ताम् । अनाथानाम् असहायानां रक्षणं ग्रामाधिकारिणः कर्तव्यम् । किन्तु सःन केवलं दुष्टः अपि च गर्वी । एतावान् लघुबालकः तस्य चेष्टाः सुनिशितं परिशीलयतीति तस्य ग्रामाधिकारिणः ऊहापि नाभवत् । ग्रामाधिकारिणं न केवलं गृहीतवान् अपि तु न्यायस्थानं प्रति तम् आनीतवान् सः बालकः । सर्वविषयश्रवणानन्तरं ग्रामाधिकारी दारुणमपराधं कृतवानिति स्पष्टमभवत् ।

दृढस्वरेण बालराजकुमारः स्वनिर्णयं प्रकटितवान् -’एतस्य पादद्वयं, हस्तद्वयं कर्तयन्तु'इति।सर्वे जनाः आश्चर्यचकिताः जाताः, आनन्दमन्वभवन् च । जनाः चर्चां कुर्वन्ति स्म-"पश्यतु अस्माकं बालराजकुमारः न केवलं न्यायप्रिय: अपि तु, दुष्टेभ्यः किञ्चिद् अपि भीतिम् नानुभवति । सर्वस्याऽपि दोषिणः योग्यं दण्डं विदधाति । दीनानां, दुःखितानां, निर्धनानां विषये तस्य हृदयं करुणापूर्णम् अस्ति । तेषां साहाय्यता, संरक्षणं च तस्य प्राणसमम् । सर्वेभ्योऽपि विशिष्टः गुणः अस्ति--सर्वाः स्त्रियः राजकुमारः स्वमातृवत् भावयति । एषः ज्येष्ठः भूत्वा देशं, धर्मं च रक्षिष्यति इत्यत्र नास्ति सन्देह: । वयमपि अवश्यं तं सहकुर्मः"इति। कोऽसौ राजकुमार इति ज्ञातुमिच्छा अस्ति वा ? सः एव शिवाजि: । अस्याः घटनायाः समये तस्य आयुः आसीत् केवलं चतुर्दशवर्षानि । शिवराजराज्ये पूना, तत्समीपप्रान्ताः च आसन् । पिता शाहराजः बीजपुरराजस्य (सुलतानस्य) सभायाम् एकः सेनापति: । जनकः पुत्रस्य स्वभावं सम्पूर्णतया जानाति स्म । विदेशीयानां पालकानां पुरतः अनमतः स्वकुमारस्य सिंहसदृशं धैर्यं यदा शाहराज:स्मरति स्म तदा तस्य हृदयं पुलकितं भवति स्म । सा घटना एव अद्भुता- एकदा शाहराजः स्वपुत्रं बीजपुरराजस्य सभां नीतवान् । तदा शिवराजः द्वादशवर्षीयः अपि नासीत्। तदानीन्तन-सम्प्रदायानुसारं शाहराजः त्रिवारं हस्तेन भूमिं स्पृशन् शरीरं नामयित्वा प्रभोः नमस्कारं (सलाम्) कृतवान् । स्वपुत्रमपि तथैव करोतु इति सूचितवान् । तद्वाक्यश्रवणेनैव पादचतुष्टयं पृष्ठ्त: गत्वा दृढं दण्डवत् स्थित्वा असम्मतिं सूचयन् शिरः चालितवान्, अहं परपालकानां पुरतः शिरः न नामयामि इति । शिवराजस्य एतादृशी भावना तस्य तीक्ष्णदृष्टया प्रकटिता अभवत् । सिंहसदृशगाम्भीर्येण, दर्पेण च सः सभातः बहिरागतवान् ।

छत्रपतिशिवाजी (१६३०-१६८०) मराठा साम्राज्यस्य संस्थापकः। बीजपुरसुलतानस्य पुरतः एतादृशसाहसेन व्यवहृतवन्तः जनाः तावत्पर्यन्तं केऽपि नासन् । एतस्य लघुबालकस्य धैर्यं दृष्ट्वा सर्वेऽपि आश्चर्यचकिताः अभवन् । स्वपुत्रस्य एतादृशचेष्टाभिः शाहराजः कुपितः अभवद् वा ? नैव प्रत्युत स्वमनसि अधिकम् आनन्दम् अनुभूतवान् स: । दौर्भाग्यवशात् स्वतन्त्ररुपेण स्थातुं तस्य अवसर: नासीत् । अतः शाहराजः स्वपुत्रं पुण्यपत्तनं (पूना) प्रेषितवान् । स्वपुत्रः वा स्वतन्त्रराजः भवेदिति शाहराजस्य आशयः । एतावति लघुवयसि शिवराजे एतावत् धैर्यं, शौर्यं, देशभक्तिः, धर्मे अनुरागः इत्यादय: उदात्तगुणाः कथम् आगता: ? इति प्रश्नः भवतां मनसि सहजतया भवत्येव । एतेषां सर्वेषां कारणभूता आसीत् तस्य माता जीजाबाई । शिवराजस्य बाल्यदारभ्य सा तंरामायणे महाभारते, पुराणेषु च स्थितानां वीराणां, महात्मनां जीवनकथाः श्रावयति स्म । एतादृशवीरगाथाः, धर्मगाथाः श्रावं श्रावं शिवराजस्य मनसि अपि स्वयं रामः,कृष्णः, अर्जुनः, भीमः भवेयम् इति भावना जायते स्म । एतावदेव न, शिवराजस्य विषये परमेश्वरस्य कृपा अपि आसीत् । गुरुरूपेण, मार्गदर्शकरूपेण च दादाजी कोण्डदेव इति महापुरुषः लब्धः । कर्णाटकप्रान्ते कदाचित् भव्यं दिव्यं विजयनगरसाम्राज्यम् आसीत् । तस्य साम्राज्यस्य कथाः तदा तदा शिवराज:शृणोति स्म । एताः कथाः तस्मै महतीं स्फूर्तिं दत्तवत्यः ।

छत्रपतिः शिवाजी

’शिवनेरी’ भाग्यम्[सम्पादयतु]

१६२७ तमे वर्षे 'शिवनेरी’दुर्गे शिवराजः जातः । भविष्यकाले साधनीयाय दुर्गाणां विजयाय इतः एव स स्वराज्यं सुस्थिरं कर्तुम् एच्छत् । तस्य नान्दीरुपेण केवलं षोडशे वर्षे एव एकं दुर्गं जितवान् । तस्य दुर्गस्य नाम 'तोरणम्’ । 'तोरणम्’......आः..... कीदृशं सुन्दरम् , भावयुक्तं नाम । स्वराज्यस्य आधारभूतं तत् दुर्गं सर्वत: सुरक्षितं कर्तुं सैन्यमादिशत् शिवाजि: । तस्मिन् दुर्गे यदा खननमारब्धं तदा स्वर्णनाणकैः पूर्णानि पात्राणि लब्धानि । 'महालक्ष्म्या स्वराज्यलक्ष्म्याः कृते प्रेषिता पुरस्कृतिः एषा’ इति भाति खलु । आश्चर्यकरोऽयं विषयःयत् तत्र कर्म कुर्वतां निर्धनकर्मकराणां मनसि तस्मिन् विषये क्षणकालमपि व्यामोहःन उत्पन्न: । तं निधिं सर्वमपि ते शिवराजसमीपं नीतवन्तः । 'स्वराज्य’सङ्ग्रामाय देवेनैव एतद्वनं प्रेषितमिति ते चिन्तितवन्तः । तोरणदुर्गविजयानन्तरं शिवराजः एकस्यानन्तरं एकं दुर्गं जितवान् । शिवराजस्य विजयवार्ताः बीजपुरमहाराजस्य (सुलतानस्य) कर्णौ प्राप्तवत्यः । शिवराजस्य एतान् विजयान् निरोद्धुम् एकं कुतन्त्रं कृतवान् सः । शाहराजं कारागारे स्थापितनवान् । शाहराजं कारागारे बध्द्वा हिनस्तीति, शिरश्छेदनं करिष्यतीति वार्ताः शिवराजं प्राप्तवत्यः। अत्र स्वराज्यस्थापनानन्दे मग्नस्य शिवराजस्य ताः वार्ताः वज्राघात इव लग्नाः । तस्य मातुः जीजायाः मनः अपि एतया वार्तया व्याकुलितम् अभवत् । स्वस्य सौभाग्यं यमः कर्षयन्नस्तीति तया अनुभूतम् । एतया वार्तया सह विषादकरं वार्ताद्वयं अवाप्तम् । प्रथमा वार्ता फतेखान् -नामक: बीजपुर(सरदारः)सेनानी महता सैन्येन शिवराजं आक्रान्तुं प्रस्थितः इति । द्वितीया वार्ता- फरादखाननामकः अन्यः बीजपुरसेनानी शिवराजस्य सोदरं सभाजिराजं बन्धुं प्रेषितः अस्ति इति । शिवराजं पराजित्य, वित्रास्य वा कथमपि निग्रहीतुम् एतादृशं कुतन्त्रं रचितम् आसीत्। शिवराजः यदि वशो न भविष्यति, अथवा सङ्ग्रामं न त्यजति तथापि तस्य पितुः प्राणानां हानिः भविष्यति । शिवराजः व्याकुल: अभवन्। 'किं करणीयम्, किं न करणीयम्’ इति सः न ज्ञतवान् । एतस्यां क्लिष्टपरिस्थितौ तस्य पत्नी सयीबायी योग्यम् उपायं सूचितवती । तदा तस्याः वयः केवलं चतुर्दशवर्षाणि एव । " एतस्मिन् लघुविषये तावदधिकं चिन्तनं किमर्थम् ? शत्रुनाशनं करोतु । तदा भवतः पिता मुक्तो भविष्यति, स्वराज्यमपि सेत्स्यति" इति । सयीबायी नूनं वीरपत्नी । शिवराजः तत्क्षणं निर्णयं स्वीकृतवान् । पुरन्दरदुर्गं बीजपुरसुलतानस्य अधीने आसीत् । स्नेहपूर्णवाक्यैः तस्य दुर्गस्याधिपतेः हृदयं जित्वा शिवराजः स्वसैन्यं तस्मिन् दुर्गे न्यवेशयत् । फतेखानः स्वसैन्येन सह यदा तत्र प्राप्तः तदा पुरन्दरदुर्गस्थं शिवराजसैन्यं अवितर्कितम् आक्रमणं अकरोत् । स्वराज्यस्थापनसङ्ग्रामाय एषा प्रथमपरीक्षा पराक्रमवतः शिवराजसैन्यस्य आक्रमणेन पराजितः फतेखानः युध्दभूमिं त्य्क्त्वा पलायितवान् । अन्यत्र शम्भुराजः अपि फरादखानं जितवान् । सङ्ग्रामेषु जयं प्राप्तवान्, किन्तु पिता कथं रक्षणीयः ? इति शिवराजः चिन्तयन् आसीत् । हठात् तस्य मनसि विद्युदिव एकः विचारः आगतः । शत्रोः तन्त्रात् अपि उत्तमतन्त्रयोजने शिवराजः समर्थः । तस्मिन् समये देहलीं शाहजानः परिपालयति स्म । शिवराजः तस्मै एकं पत्रं लिखितवान् । 'मम पितरं बीजपुरसुलतानः कारागारे बध्दवान् । तं यदि मुक्तं करिष्यति तर्हि अहं, मम पिता च भवतः सेवायाम् उपस्थितौ भविष्यावः 'इति । बीजपुरसुलतानः पत्रस्य विषयं ज्ञातवान् । बहुकालतः देहलीचक्रवर्ती (बादशाहः)बीजपुरस्य आक्रमणप्रयत्ने अस्तीति सः जानाति स्म। अस्मिन् समये चक्रवर्ती आक्रमणार्थम् स्वयम् आगच्छति चेत् स्वस्य स्थितिः का ? इति भावना यदा मनसि आगता, तदा तस्य हृदयं भग्नमिवाभवत् । तत्क्षणं शाहराजं सगौरवम् अमुञ्चत । एवं शिवराजः स्वपराक्रमेण, बुध्दिचातुर्येण च स्वराज्यस्थापने समागताः संकटस्थितीः अतिक्रान्तवान् । अष्टादशवर्षाणां वयस्येव शिवराजः कोङ्कण-पुरन्दर- प्रतापगृह-राजगृह-चाकणेत्यादिनि चत्वारिंशत् दुर्गाणि स्वायत्तीकृत्य तत्र भगवद्ध्वजं प्रतिष्ठापितवान् । अस्मिन् समये एव देशस्य पश्चिमभागे आंगलेयाः पोर्चगीसजनाः च पदनिक्षेपं कुर्वन्तः आसन् । एते विदेशीयाः यदा कदापि भारतदेशं सङ्कटेषु पातयिष्यन्तीति सः पूर्वमेव समभावयत् । एतेभ्यः देशरक्षणाय समुद्रतीरप्रान्तेषु दुर्गाणां निर्माणम् आरभत । युध्दाय योग्याः नौकाः, नाविकादलं च निरमात् । विदेशीयशक्तिभ्यः सम्भविष्यमाणाम् आपदं पूर्वमेव ज्ञातवान् । तेषाम् आक्रमणानि निरोध्दं योग्यां रक्षणव्यवस्थां व्यरचयत् च एवं शिवराजः बहुदूरदर्शी आसीत् ।

शत्रूणां स्ंहार:[सम्पादयतु]

शिवराजः स्वराज्यनिर्माणे सफल: भवन्नस्तीति दृष्ट्वा आदिलशाहस्य (बीजपुरसुलतानस्य) मनः व्याकुलितम् अभवत् । निस्पृहता आवृता । 'शिवराजः आस्मिन् दिने एतद् दुर्गं जितवान्, ह्यः तद् दुर्गं जितवान् ’ इत्यादि वार्ताः प्रतिदिनं सः श्रृणोति स्म । राज्ञः सपत्नीमाता उलियाबेगम् नाम्नी शिवराजं नितरां द्वेष्टि स्म। सा प्रख्यातान् सर्वान् वीरानाहूय सभामेकाम् आयोज्य -"शिवराजं बन्धुं यस्य धैर्यसाहसादिकम् अस्ति, सः एतं खड्गं स्वीकरोतु’ इति पन्थाह्वानं कृतवती । सभायाः मध्ये पटवस्त्रेण आवृतः खड्गः आसीत् ।तदा बृहदाकारकः दृढकायः कश्चन सेनापतिः उत्थितवान् । पुरतः आगत्य तं खड्गं गृहीतवान् । तस्य नाम अफजलखानः । आदिलशाहसभायां मुख्यसेनानीषु अयम् एकः ।यथा अयं पराक्रमी, तथा वञ्चकः, क्रूरश्च । पञ्चविंशतिसहस्रयोधै: युक्तं बलिष्ठं सैन्यं स्वीकृत्य सः शिवराजं ग्रहीतुं प्रस्थितवान् । आरम्भे अफजलखानः तुलजापुरस्थं देवीमन्दिरं स्वह्स्ताभ्यां ध्वस्तं कृतवान् । तुलजापुरभवानी शिवराजस्य कुलदेवता । एवमेव पण्ढरपुरस्थां मूर्तिमपि ध्वस्तवान् । खानेन क्रीयमाणानां दुष्कृत्यानाम्, अत्याचाराणाञ्च वार्ताः शिवराजं प्राप्नुवन्त्येव । शिवराजः यावत् दुर्गेषु, अरण्येषु तिष्ठति, तावत् तस्य बन्धनं नैव सुकरं भवति इति खानः जानाति स्म । देवालयानां ध्वंसः, स्त्रीणाम् अत्याचारः, गवां हननम् इत्यादि अकृत्यानि कुर्मः चेत् शिवराजः अवश्यं बहिरागमिष्यतीति, विनायासं तं ग्रहीतुं शक्नुमः इति अफजलस्य कुतन्त्र्म् आसीत् । किन्तु शिवराजः स्वपरिधिम् अतिक्रम्य बहिः नागतवान् । अफजलखानस्य कुतन्त्रं सः ज्ञातवान् । दुर्गं त्यक्त्वा बहि: युध्दं क्रियते चेत् अफजलः अवश्यं जेष्यतीति सः जानाति स्म । अतिगहनारण्ये नूतनतया निर्मितं प्रतापदुर्गं प्राप्य, कथञ्चित् अफजलखानं तत्र आनयामः इति उपायं रचितवान् शिवराजः । अस्मिन्नेव समये भवनीमाता स्वप्ने शिवराजस्य साक्षादभूय ’ निश्चयेन तव विजयो भविष्यति’ इति आशिषो दत्तवती । यथाकथञ्चित् शिवराजं प्रतापगढतः भूप्रान्तम् आनेतुम् अफजलखानः एकं दूतं शिवराजस्य समीपे प्रेषितवान् । तस्मै दूताय अनेकाः रहस्यसूचनाः च दत्तवान् । शिवराजं प्राप्तः सः दूतः अतिविनम्रं " खान् महोदयः भवतः पितुः उत्तममित्रम् अस्ति । अतः सः भवन्तं न बाधयति । भवान् आगत्य तेन मिलतु ।" इति सूचितवान् । शिवराजः इतोऽपि विवेकेन एकं पत्रं विलिख्य स्वदूतद्वारा खानं प्रति प्रेषितवान् । " भवान् मम पितृव्येण तुल्यः । मम कारणेन जातान् दोषान् क्षाम्यतु । भवान् प्रतापगढम् आगत्य मां धन्यं कृत्वा, महाराजस्य समीपं नयतु ।" इति लिखितवान् । शिवराजस्य लेखे दृश्यमानं भयं ज्ञात्वा खानः अत्यन्तमानन्दितवान् । शिवराजस्य लेखहारः युक्तिपरः । सः खानस्य धैर्यसाहसादिकम् अत्यन्तं प्रशंसन् शिवराजस्य भीरुतां वर्णीतवान् । खानः अधिकं मोदम् अनुभूतवान् । खानः स्वपरिवारेण सह तम् अटवीप्रान्तं प्राप्तवान् । प्रतापदुर्गस्य अधोभागे एकं शिबिरं निरमात् । अफजलखानस्य शिवराजस्य च मध्ये सन्धिरचनाय निर्णयः जातः । शिवराजः अत्यधिकं भीतः इति कारणतः अफजलखानः शिवराजम् एकान्ते मिलेदिति, तयोः अङ्गरक्षकद्वयं द्वारे तिष्ठेदिति च निर्णीतम् । सूर्योदयानन्तरं समावेशः भविष्यति । पूर्वदिने रात्रौ शिवराजस्य मित्राणां नेत्राणि न निमीलितानि । नेताजि:, तानाजि:, कन्होजि: इत्यादयः शिवराजस्य अत्यन्तविधेयाः सेनानायकाः स्वस्वसैन्यानि स्वीक्रुत्य दुर्गस्य अधोभागे अरण्ये निः शब्दं स्थितवन्तः । दुर्गात् यदा शतध्नीनां शब्दः श्रूयते तदा खानसैन्यं आक्रान्तव्यम् इति पूर्वमेव सूचना तेभ्यो दत्ता । रात्रिः अतीता । सूर्योदयः जातः । शिवराजः ईश्वरपूजां क्रुत्वा शिरसि शिरस्त्राणं, शरीरे अयः कवचं धृत्वा, भवानीप्रसादितं खड्गं स्वीकृत्य, हस्तयोः व्याघ्रनखानि धृत्वा भवानीमातरं स्मरन् दुर्गस्य अधोभागे स्थितम् अफजलं मेलितुं प्रस्थितः । समावेशस्थानम् अरण्यमध्ये निश्चितम् । अफजलखानशिबिरतः तत् स्थलं न दृश्यते । शिवराजस्य आगमनं अफजलखानः समावेशस्थानतः दृष्टवान् । यदा शिवराजः प्रविष्टवान् तदा खानः उत्थितवान् । एकक्षणं द्वयो: नेत्रचतुष्टयो: सङ्गम: अभवत् । खानः स्वदीर्घबाहुद्वयं प्रसारितवान् । शिवराजः तस्य बाह्वोः मध्ये गतवान् । खानः शिवराजं हस्तद्वयेन आलिङ्ग्य बद्धवान् । तत् साक्षात् मृत्योः आलिङ्गनम् इव भासते स्म । किन्तु कस्य मृत्युः ? तदैव शिवराजः स्वव्याघ्रनखैः खानस्य उदरम् अच्छिन्त् । तस्य आन्त्राणि बहिरागतानि । खानः प्रतिप्रहरणं कृतवान्, किन्तु तत् प्रहरणं शिवराजस्य शिरस्त्राणेन निरुद्धम् । शिवराजः सपदि उड्डीय स्वखड्गेन खानस्य शिरः कर्तयित्वा भूमौ पातितवान् । खङ्गस्योपरि अफजलखानस्य शिरः लम्बयित्वा शिवराजः दुर्गं आरोहति स्म । तत्क्षणे आकाशं मुखरयन् शतध्नीनां नादः आरब्धः । खानस्य सैन्यं मदिरापरवशम् आसीत् । तत्र जायमानां स्थितिं ते न जानन्ति स्म। प्रायः शिवराजं खानः अबध्नात् इत्येव ते चिन्तयन्ति स्म । शिवराजस्य सैन्येन अकस्मात् तेषामुपरि आक्रमणं कृतम् ।तुलजाभवान्याः कृते जातस्य अपमानस्य सम्पूर्णं प्रतीकारं कृतवन्तः सैनिकाः । खानस्य सैन्यं सम्पूर्णतया ध्वस्तम् । पुनः शिवराजमेव विजयलक्ष्मीः वृतवती । शिवराजः स्वमातुः सकाशे एकं पुरस्कारं प्रेषितवान् । तत् किम् ?...अफजलखानस्य शिरः तत् । शिवराजस्य कीर्तिः देशे विदेशेषु च व्याप्ता आसीत् । अफजलस्य वधोदन्तं श्रुत्वा सर्वे तं प्रशंसन्ति स्म । बीजपुरसुलतानन्तु दुःखमेघाः आवृण्वन् । एतैः विजयैः शिवराजः न तृप्तः । तप्तम् अयः आवश्यकतानुसारं यथा परिवर्तयामः तथा परितः स्थितानि अनेकानि दुर्गाणि आक्रान्तुं प्रस्थितवान् । बीजपुरसुलतानः अन्यं सेनापतिं सप्ततिसहस्रपदातिसैन्येन सह शिवराजं निग्रहीतुं प्रैषयत् । सेनापतिः सिद्दीजोहरः शिवराजम् आक्रान्तुं गतवान् । तदा शिवराजः पन्हालदुर्गं प्राप्तवान् । सुलतानस्य साहाय्यार्थम् आङ्ग्लेयाः स्वगोलकास्स्त्रदलम् अपि प्रेषितवन्तः । तेषां साहाय्येन सिद्दीजोहरः पन्हालदुर्गं परिक्रान्तवान् । शनैः, शनैः तदाक्रमणं बलहीनं भवतीति शिवराजः अचिन्तयत् । किन्तु तथा नाभवत् । सुलतानः आदिलशाहः देहलीमहाराजस्य औरङ्गजेबस्य अपि साहाय्यं प्रार्त्थितवान् । औरङ्गजेबः स्वमातुलं षयिस्तेखानम् एकलक्षमितेन सैन्येन सह सिद्दीजोहरस्य साहाय्यार्थं प्रैषयत् । एतादृशसङ्कटस्थितौ जीजाबाई समर्थतया पालनव्यवहारादिकं निर्वहति स्म । यथाकथञ्चित् दुर्गात् बहिः गन्तव्यम् इति शिवराजः प्रणालीं रचयन् आसीत् । किन्तु कथं सम्भवति ? सिद्दीजोहरस्य सैन्यं तु यथाकथञ्चित् परिक्रान्तव्यमेवेति दृढसंकल्पः आसीत् । तदा शिवराजः एकम् उपायम् आलोच्य एकस्य दूतस्य द्वारा सिद्दीजोहराय एकं सन्देशं प्रेषितवान् ।--‘अहं मम पराजयम् अङ्गीकर्तुं सिद्धः अस्मि । यदि भवान् अङ्गीकरोति तर्हि श्वः एव मम दुर्गं भवदधीनं करोमि । कृपया भवान् मम अपराधान् क्षाम्यतु ।’इति शिवराजः वशीभविष्यतीति वार्तां प्राप्य सिद्दीजोहरस्य सेना तस्यां रात्रौ आनन्दे मग्ना । केवलं तान् वञ्चयितुमेव तत्पत्रं लिखितम् इति ते न ज्ञातवन्तः । तस्यां रात्रौ मेघाः गर्जन्ति स्म । विद्युतः विद्योतन्ते स्म । धारापात इव वृष्टिः भवति स्म । तस्मिन्नेव समये शिवराजः स्वकीयेन अष्टशतसंख्याकेन सेनानिवहेन सह गूढं पन्हालगढतः विशालगढदुर्गं प्रति प्रयातः । सिद्दीजोहरस्य सेनारक्षकाः स्वशिबिरेषु उपविश्य शिवराजः वशीभूत इत्यानन्दे आसन् । तेषां मनसि लेशोऽपि सन्देहः भवति चेत् शिवराजस्य प्रणाली भग्ना भविष्यति । शिवराजः तैः गृहीतो भविष्यति । अतः शिवराजस्य सेना प्रतिपदम् अत्यन्तजागरुकतया पदानि निक्षिपन्ती पुरतो गच्छति स्म । भवानीमातुः कृपाकारणतः शिवराजस्य लघुसेना कस्यापि शत्रोः दृष्टौ न पतिता तस्मात् सेनानिवेशात् बहिरागता च । शिवराजेन सह स्थिताः मावलीसैनिकाः स्वमहाराजं शिबिकायाम् उपवेश्य वहन्तः सवेगं धावन्ति स्म । तदा एका विद्युत् लसिता। सर्वोपि प्रदेशः कान्तिमान् जातः । तस्मिन् प्रकाशे सिद्दीजोहरस्य गूढचरः कश्चन धावतः सैनिकान् अपश्यत् । तत्क्षणं धावन् सिद्दीजोहरं प्राप्य 'शिवराजः पलायितवान्" इति वार्ताम् अश्रावयत् । वार्ताश्रवणेन सिद्दीजोहरस्य शिरसि वज्राघात जात: इव । तथापि सः न भीतः । स्वस्य जामातरं सिद्दीमसूदम् अधिकसंख्याकेन आश्विकदलेन सह प्रेषयन् वेगेन शिवराजम् अनुधाव्य बन्धुम् आदिशत् । तेभ्यः पलायनं कष्टमिति शिवराजः ज्ञातवान् । एकम् उपायम् अचिन्तयत् । तत्क्षणं शिबिकां परिवर्तितवान् । सा शिबिका अन्यमार्गेण गता । शिवराजस्य सेनायां शिवराजसदृशः अन्य कश्च्न सैनिकः आसीत् । सः शिवराजस्य वेषं धृत्वा प्रथमशिबिकायाम् आसीनः अभवत् । सिद्दीमसूदः तां शिबिकां, तां सेनां च बद्धवा सिद्दिजोहरस्य समीपम् अनयत् । किन्तु तत्र ज्ञातं यत् तस्य सैनिकस्य नाम् शिवराज एव, किन्तु सः प्रतापदुर्गनिवासी कश्चन क्षौरिक: इति । तत् श्रुत्वा सिद्दीजोहरस्य सेना लज्जया विवर्णा जाता । क्रोधावेशैः सिद्दीमसूदः पुनः शिवराजम् अन्वधावत् । तदैव शिवराजः स्वसैनया सह पञ्चविंशतिमीलदूरं गतवान् । गाजापुर -उपत्यकां प्राप्तवान् च । ततः किञ्चिद् दूरे एव विशालदुर्गम् आसीत् । सिद्दीमसूदः दन्तान् घट्टयन पञ्चसहस्रसङ्खाकैः सैनिकैः सह तान् अन्वगच्छत् । शिवराजस्य सेनायां बाजीप्रभुदेशपाण्डे इति पराक्रमी सेनानी आसीत् । सः भीमसदृश-बलशाली । सः शिवराजं प्रार्थितवान् -‘महाराज ! भवान सेनार्धेन सह विशालगढं सुरक्षितं प्राप्नोतु । शिष्टेन सेनार्धेन अस्मिन् प्रदेशे अहं शत्रुसेनां निरुणध्मि । एकं पदमपि ते पुरतः यथा नागच्छेयुः तथा करोमि’ इति । हस्तद्वयेन खङ्ग्द्वयं स्वीकृत्य स्थितस्य बाजीप्रभोः रणावेशः दर्शनीयः आसीत् । सागरोर्मिवत् पततः आदिलशाहस्य सैनिकान् बाजीप्रभुः गृञ्जनकानीव कर्तयति स्म । घोरः सङ्ग्रामः जातः तस्य ग्रात्रं सर्वमपि व्रणैः रक्तसिक्तम् अभवत् । स्वव्रणान् अगणयित्वा सायं पर्यन्तं सः युद्ध्यन्नेव आसीत् । बाजीप्रभुसैनिकाः बहवः मृताः । अन्ते बाजीप्रभोः प्राणोत्क्रमणं यथा भवेत् तथा शत्रुः कश्चन खड्गेन मारितवान् । बाजीप्रभुः खड्गप्रहारपीडया मृत्युवेदनाम् अनुभवन्न्पि मृत्युं प्रार्थितवान् -‘हे मृत्यो ! मम कर्तव्यसमाप्तिपर्यन्तं किञ्चित् तिष्ठतु ।’ इति । तदा एव विशालदुर्गतः पञ्चवारं शतध्नीनां शब्देन सूचना श्रुता । तस्यार्थः शिवराजः सुरक्षितं विशालदुर्गं प्राप्तवानिति । बाजीप्रभुः अत्यानन्दम् अनुभूतवान् । खड्गं त्यक्त्वा दिवङ्गतः । तस्य मुखे कर्तव्यसमापनतृप्तिः दृश्यते स्म । आत्मार्पणं कृतवतां तेषां वीराणां बलिदानेन सः प्रदेशः पवित्रः जातः । तदारभ्य जनाः तं प्रदेशं पवित्रस्थानम् इति वदन्ति । शिवराजः पन्हालदुर्गत: पलायितः इति वार्ता बीजपुरसुलतानः ज्ञातवान् । तस्य शिरसि सहस्त्रशः वज्राघाताः जाताः इव । तस्य धैर्यं क्षीणं जातम् । शिवराजं पुनः आक्रान्तुं तस्य साहसं नासीत् । किन्तु शिवराजस्य राज्ये षयिस्तेखानरुपेण अन्या आपद् आगता । तामापदं निवारयितुम् अत्यावश्यकतया चिन्तनीयः अवसरः संप्राप्तः । एषा विपत्करस्थितिः कथं सम्मुखीकरणीया....? शिवराजः साहसोपेतम् उपायमचिन्तयत् । तदानीं रम्जान्-मास: । षायिस्तेखानसेनायां सैनिकाः उपवासनियमं पालयन्ति स्म । दिवा निराहारिणः रात्रौ अधिकं खादित्वा अतिनिद्रावशं गच्छन्ति स्म ते । तावता औरङ्गजेबस्य सिंहासनमधिष्ठाय एकवर्षं जातम् आसीत् । अतः रात्रौ मृष्टान्नभोजनं भविष्यति । एतत् ज्ञात्वा द्विसहस्त्रं सैनिकान् चित्वा शिवराजः रायदुर्गतः रात्रौ प्रस्थितः । पुण्यपत्तनतः क्रोशदूरे शिबिरं कृतवान् । पुण्यपत्तनस्य् रक्तभवने (लालमहल्) यत्र शिवराजेन बाल्यं यापितम् आसीत् तस्मिन् एव षायिस्तेखानः निवेशं कृतवान् । पुण्यपत्तने, तत्परिसरप्रान्तेषु एकलक्षं मुघलसैनिकाः निविष्टाः । शिवराजस्य बाल्यमित्रं बाबाजी कैश्चित् सैनिकैः सह मुघलसेनायाः वलयं प्रति प्रस्थितः । तमं शिवराजः अल्पसङख्याकैः सैनिकैः सह अनुसृतवान् । परस्परं भाषामाणाः साधारणसैनिका इव ते मुघलसैन्यवलयं प्रविष्टवन्तः । परिरक्षकाः यदा न्य्रुन्धन् तदा " वयं पर्यटन्तः रक्षकभटाः । अस्माकं रक्षणसमयः समाप्तः, अतः इदानीम् अस्माकं निवासं प्रति गच्छामः । " इति विश्वासितवन्तः । परिरक्षकाः विश्वासं प्राप्तवन्तः । सर्वे सेनानिवेशस्य अन्तः प्रविष्टाः । शिवराजः साक्षात् भवनस्य पश्चादभागं प्राविशत् । ततः पाकगृहं प्राप्तवान् । तत्रत्यान् सर्वान् संहृत्य, शनैः षायिस्तेखानस्य शयनगृहं प्राविशत् । तत्र गमनसमये एकं कुड्यं भेत्तव्यम् आपतितम् । तदा लघुशब्दः अभवत् । तं श्रृत्वा कश्चन कर्मकरः सूचनां दातुं खानस्य समीपं गतवान् । निद्रापरवशः खानः 'पाकगृहे मूषिकाः शब्दं कुर्वन्ति, गच्छ्तु 'इति कुपितः । एतदन्तरे शिवराजस्य सेनापि भवनान्तर्भागं प्रविष्टा । लालमहले सर्वत्र शत्रवः प्रविष्टाः इति वार्ता दावानलज्वाला इव प्रसृता । षायिस्तेखानस्य पत्न्यः स्वपतिं यवनिकानां पृष्ठत: गोपितवन्तः । शिवराजः पुरतः आगत्य स्वखङ्गं क्षिप्तवान् षयिस्तेखानस्य हस्ताङ्गुलित्रयं छिन्नम् । खानः वातायनतः कूर्दनं कृत्वा पलायितः । तदैव मुघलसेना जागरिता । रक्तभवनं परितः यथेच्छं अत्यन्तवेगेन सर्वे धावन्ति स्म । शिवराजसैनिकाः अपि तैः सह मिलित्वा गृह्णन्तु, बध्नन्तु, छिन्दतु इति क्रोशन्ति स्म । तथा क्रोशन्तः एव भवनद्वाराणि उदघाट्य बहिरागत्य, पूर्वनिर्णीते स्थले सिद्धान् अश्वान् आरुह्य सिंहदुर्गं प्राप्तवन्तः । एतेन संघटनेन शिवराजस्य शत्रूणां भीतिरवर्धत । एतावत्पर्यन्तं सः एकः पर्वतीयमूषक इत्येव चिन्तयन्तः आसन् ते । इदानीं तु तस्य समीपे मन्त्रतन्त्रादिकम् अस्तीति, सः भूतो वा पिशाचो वा भवेदिति भावयन्ति स्म-। एतां सम्पूर्णां वार्तां श्रुत्वा औरङ्गजेबः लज्जया स्तम्भीभूतः । षयिस्तेखानं दण्डयित्वा वङ्गप्रदेशं प्रेषितवान् । स्वराज्यनिर्माणार्थं, पदातिदल-नौकादलनिर्माणार्थं, राज्ये उत्तम-परिपालनरचनाय, विशिष्य शत्रुनिग्रहणार्थं धनम अत्यन्तमावश्यकम् । अतः अन्यमार्गो नास्तीति शत्रुभ्य एव धनं सम्पादनीयम् इति निश्चितवान् शिवराजः । औरङ्गजेबस्य कोशागारम् अपहर्तुं निश्चयः जातः । तेषु दिनेषु सूरतनगरं कुबेरनिवासः इति, धनिकानां निलयः इति च प्रवादः आसीत् । ततः एव शिवराजः आगण्यं धनम् आर्जितवान् ।

मुघलचक्रवर्तिनः जालः[सम्पादयतु]

शिवराजस्य चेष्टाः औरङ्गजेबस्य शिरोवेदना इव जाताः कोपेन तप्तः सः । शिवराजं नाशयितुम् अत्यधिकेन सैन्येन दक्षिणप्रान्तमगन्तुमैच्छत् । किन्तु तस्य पर्वतमूषकस्य नखतीक्ष्णताम् पूर्वमेव आस्वादयत् सः । अतः किञ्चिदालोच्य् 'सिंहं प्रतियोद्धुं सिंह एव आवश्यक’इति निश्चितवान् । एतस्य कार्यस्य कृते मीरजामहाराजं जयसिहं चितवान् । राजा जयसिंहः न केवलं महान् पराक्रमी, विवेकी सेनापतिश्च । एतादृशः योग्यः पुरुषः परधर्मीयाणां सेवायां ध्न्यो भवामीति चिन्तयतीति ल्ज्जास्पदः विषयः अस्माकम् । अधिकसेनया जयसिंहः दक्षिणापथमागतः बीजपुरसुलतानेन सन्धिं विरचितवान् । सर्वाभ्यः दिग्भ्यः शिवराजं परितः सेनां निवेशितवान् । शिवराजः एकेन लेखेन सन्घिं प्रस्तुतवान् । तथैव जयसिंहेन मिलित्वा संभाषणं कृत्वा औरङ्गजेबेन सह संभाषणार्थमपि अङ्गीकृतवान् । सह्याद्रिगिरिशिखरेषु स्वेच्छया विहरन् मृगराजः शिवराजः किमर्थम् एवं हठात् चक्रवर्तिनः वशीभूतः ? इति सर्वे आश्चर्यचकिताः जाताः ।अग्रे कोऽपि गूढार्थः भवतीति सर्वे भावयन्ति स्म । सेवां करोमीति व्याजेन गत्वा औरंगजेबं ह्न्यात् इत्यपि चिन्तयन्ति स्म केचन । एतेन शिवराजस्य धैर्यसाहसादिविषये, समयस्फूर्तिविषये, समयं दृष्ट्वा शत्रुनाशनाय युक्तिप्रयोगविषये च जनाः कथं विश्वासं प्राप्तवन्त: आसन्निति अस्माभिः ज्ञायते । चिन्तनानुसारं शिवराजः स्वपुत्रेण सम्भाजिराजेन सह औरङ्गजेबेन मेलितुं प्रस्थितः । राजकुटुम्बिनः, पौराः च किं भविष्यति इति उत्कण्ठया आसन् । मार्गमध्ये अनेके हिन्दवः सादरं स्वागतं कृतवन्तः । शिवराजः आगरां प्राप्तवान् । तस्य कुटिलोपायविषये औरङ्गजेबः अपि अल्पचिन्तनं न कृतवान् । अत एव शिवराजं कदापि स्वसमीपमागन्तुं नाङ्गीकृतवान् । राजसभायामपि शिवराजस्य स्थानं दूरे एव अस्थापयत् । एतेन शिवराजः स्वचिन्तनाग्नौ दैवेन शीतोदकं सिञ्चितमिति भावितवान् । 'शिवराजं सगौरवं पश्यामि इति’ जयसिंहाय वचनं द्त्तवान् औरङ्गजेबः स्ववचोव्याघातं कुर्वन् शिवराजम् अपमानितवान् । शिवराजः परं क्रोधाग्निना ज्वलितः । औरङ्ग्जेबस्य यथा अपमाननं भवेत् तथा राजसभां त्यक्त्वा गतवान् । किन्तु शिवराजः महत्याम् आपदि पतितवान् । हस्तगतं शत्रुं त्यक्तुं मूर्खः न चक्रवर्ती । शिवराजं बद्धवा तस्य शिरश्छेदं कर्तुम् आज्ञप्तवान् । एतादृशस्थितावपि शिवराजः स्वधैर्यं न त्यक्तवान् । विपदि स्थितौ शिवराजस्य बुद्धिः, धैर्यं च वेगेन कार्यं करोति स्म । हठात् शिवराजः रुग्णः । तस्य स्वास्थ्यं दिने दिने क्षीयमाणम् अभवत् । 'स्वेन सहागताः महाराष्ट्रसैनिकाः प्रतिगन्तुम् अनुमन्यन्ताम्’ इति सः औरङ्गजेबं प्रार्थितवान् । चक्रवर्ती अनुमतवान् । स्वस्थ्यप्राप्तये साधुभ्यः, सन्यासिभ्यः च मधुरवितरणमारब्धवान् । नगराधिकारिभ्यः अनेकपुरस्कृतीः प्रेषयति स्म । एतेभ्यः सर्वेभ्यः औरङ्गजेबस्य अनुमतिः लब्धा । औरङ्गजेबसदृशस्याऽपि सन्देहः ईषदपि न जातः । मरणदण्डनाय निर्णीतं दिनम् आगतम् । पूर्वदिने शिवराजस्य अस्वास्थ्यम् इतोऽपि प्रवृद्धम् । तस्य शरीरस्मृतिरपि नासीत् । प्रतिदिनम् इव मधुराणां करण्डा: अन्तः आगता: । तावत्पर्यन्तं स्मृतिरहितः शिवराजः हठात् उत्थाय मधुराणां करण्डे उपविष्टवान्, स्वपुत्रं सम्भाजिराजमपि उपवेशितवान् । सेवकाः तत्क्षणं मधुराणां करण्डं शरावेगेण बद्धवा बहिः अनयन् । यथापूर्वं मधुराणां करण्डा एव गच्छन्तीति रक्षकभटाः चिन्तितवन्तः तेषां नायकः फौलादखानः कांश्चन् करण्डान् परीक्षितवान् च । तत्र केवलं मधुराण्येव आसन् । दैववशात शिवराज;, सम्भाजिराज:च यत्र आस्ताम् तत्र तस्य हस्तः न आगत: । भवानीमातु: कृपा, शिवराजस्य युक्तिः, फौलादखानस्य गर्वं इति सर्वम् अनुकूलितम् । भगवतः आशयः शिवराजः सजीवो भवेदिति । फौलादखानः? 'त्यजतु’ इत्याज्ञप्तवान् । कारावासे शिवराजस्य शय्यायां तस्य मित्रं हीरोजि: शिवराजवत् सुप्तः । शरीरं सर्वं राङ्कवेनाच्छाद्य शिवराजस्य राजमुद्रिकासहितं हस्तं बहिः दृश्यमानं कृत्वा सः निद्राम् अभिनयति स्म अमायक इव मदारिमेहतरनामक: बालकः तस्य पादौ संवहति स्म । फौलादखानः मध्ये मध्ये अन्तः चक्षुः प्रसार्य शिवराजस्य अनामयं पृष्ट्वा गच्छति स्म । द्वितीयदिने सायङ्काले हीरोजि: उत्थितः । प्रायः चतुर्विंशतिघण्टापर्यन्तं सः निद्रितवान् । शय्यायां शय्यावस्त्राणि निद्रायमाणमानववत् विरचय्य स्वस्य साधारणवस्त्राणि धृत्वा शनैः बहिरागत्य हस्तद्वयं मुकुलीकृत्य रक्षकभटान् उदिदश्य "शनैः भाषणं कुर्वन्तु । महाराजस्य अस्वास्थ्यं तीव्रम् अस्ति । इदमिदानीं निद्रां प्राप्तवान् सः । अहम् औषधमानेतुं गच्छन्नस्मि ।" इति उक्तवा हीरोजि: अपि बहिरागतवान् । किञ्चित्कालानन्तरं एवमेव वञ्चयित्वा मदारिः अपि पलायितः । शय्यायां शिवराजः निद्रायमाण एव दृश्यते । बहिः रक्षकभटाः खड्गधारिणः सन्तः दृढं रक्षन्त्येव । प्रातः अभवत् । शिवराजस्य शिरश्छेदनं तस्मिन्नेव दिने । फौलदखानः अन्तः आगतवान् । तत्र निः शब्दवातावरणं प्रसृतमस्ति । तस्य कश्चन सन्देहः जातः । पुरतः गत्वा शिवराजं निद्रामग्नं दृष्ट्वान् । सर्वं सम्यगस्ति इति चिन्तितवान् । तत्र कोऽपि कोलाहलः नास्तीति ज्ञातवान् । शिवराज: मृतो वा इति सन्देहः आगतः । कम्बलम् अपावृत्य अपश्यत् । तत्र केवलं शय्या, उपधानं च स्तः । सः स्तम्भीभूतः । खङ्गप्रहारेणापि चलनरहित इव सम्भूतः । शिवराजः पलायितः । फौलदखानस्य स्थितिरेव एतादृशी चेत् औरङ्गजेबस्य स्थितिः कीदृशी इति ऊहितुं शक्नुमः । सः सहस्रवृश्चिकैः दष्ट इव आसीत् । तत्क्षणं शिवराजं बन्धुं सेनामाज्ञप्तवान् । सेनया चतुर्दिशः प्रसृत्य अन्वेषणम् आरब्धम् । पूर्वनिर्दिष्टप्रणाल्यनुसारं शिवराज- शाम्भराजयोः कृते अश्वौ सिद्धौ आस्ताम् । करण्डकेभ्यः बहिरागत्य तौ दक्षिणादिशं प्रस्थितौ । अतिवेगेन प्रयातौ तौ । मध्येमार्गं रामदासस्य मठाः तेषाम् अपयोगाय अभवन् । संन्यासिवेषे शिवराजः रायदुर्गं प्राप्तवान् । एकक्षणं जीजामाता शिवराजं न ज्ञातवती । अभिज्ञानानन्तरं पुत्रम् आलिङ्ग्य अनन्दाश्रूणि सारितवती । मातापुत्रयोः समागमः सर्वानन्दकरः अभवत् । दक्षिणादेशस्थाः तस्य शत्रवः 'सः आगरातः पलायितः’ इति ज्ञात्वा भीतिम् अनुभूतवन्तः । तेषां वाक् न निस्सरति स्म् । इदानीं किं भविष्यतीति कम्पितवन्तः । एतया घतनया शिवराजस्य कीर्तिः देशे दशदिशः व्याप्ता । अत्यन्तं कपटः आसीत् औरङ्गजेबः । तस्य अक्षणोः धूलिं प्रक्षिप्य, तस्य अधीनतः, राजधानीतः, प्रतिदिनं रक्षद्भ्यः रक्षकभटेभ्यः सकाशात् आत्मानं गोपायित्वा सः पलायितवान् । सर्वाभ्यः दिग्भ्यः अनुधावतां सहस्रसङ्ख्याकानां मुघलसैनिकानाम् अक्षीणि निमेल्य सः सहस्रमीलदूरं प्रययौ । एतादृशं पराक्रमोपेतं, युक्तिमन्तम् अपूर्वं पुरुषं लोके पूर्वं कदापि , कुत्रापि ,को?ऽपि न दृष्टवान् ।

धर्मपरिरक्षकः[सम्पादयतु]

हिन्दुजातेः प्रेरणा यथा भवेत् तथा हिन्दुसाम्राज्यं निर्मितवान् शिवराजः । किन्तु शास्त्रोक्तविधानेन तावत्पर्यन्तं पट्टाभिषिक्तः नाऽभवत् । अत एव केचन शिवराजं महाराजत्वेन नाङ्गीकृतवन्तः । शिवराजस्य एतं लोपं पूरयितुं काशीपण्डितः कश्चन सिदध: अभवत् । तस्य नाम् गागाभट्टः । सः शास्त्रोक्तविधिना शिवराजस्य राज्याभिषेकं कारितवान् । १६७४तमे वर्षे एतादृश-द्विव्यसङ्घटनसमये शिवराजस्य वयः चत्वारिंशत् वर्षाणि । सर्वदुर्गेषु श्रेष्ठतमं रायदुर्गं शिवराजः स्वराज्यस्य राजधानीं कृतवान् । परमपवित्रौ मातुः चरणौ स्पृष्ट्वा, आशिषः प्राप्य रत्नखचितस्वर्णसिंहासने आसीनः । गागाभट्टः शिवराजस्य शिरसि स्वर्णच्छत्रं धारयित्वा 'छत्रपतिः’ इति घोषितवान् । सुवासिन्यः नीराजनं समर्पितवत्यः । साधवः सन्यासिनश्च आशिषो दत्तवन्तः । अस्मिन् महोत्स्वे भागं ग्रहीतुं दूरप्रदेशेभ्यः सहस्रशो जनाः समागतवन्तः । ते सर्वे आनन्दोत्साहेन 'छत्रपतिः श्रीशिवमहाराजः जयतु ’ इति मुक्तकण्ठं जयकारं कृतवन्तः । रायदुर्गे सर्वत्र जयघोषाय शतघ्निध्वनयः श्रुताः । बीजपुरसुलतानः, आंग्लेयाः शिवराजं स्वतन्त्रराजरूपेण सम्मान्य पुरस्कृतीः प्रेषितवन्तः । एतस्य अद्भुतस्य दृश्यस्य समर्थरामदासः अत्यानन्देन काव्यरूपं कल्पितवान् । "एषा भूमिः, धर्मश्च उद्धृतौ, रक्षितौ च । भव्यः स्वराज्यभानुः समुदितः ।" इति सः लिखितवान् । शत्रून् पराजित्य, राज्यसथापनमात्रेण शिवराजः न तृप्तः । प्रजानां सुखसन्तोषाद्यर्थम् अनेकविधं प्रयत्नं सः व्यदधात् । प्रजाः भगवत्स्वरुपाः इति भावितवान् । प्रजानां पीडा भवति चेत् न सहते स्म । प्रजाश्रेयसे स्वसैन्यम् अत्यन्तदूरमपि प्रेषयति स्म ।"मध्येमार्गं कुत्रापि प्रजानां किञ्चिदपि कष्टं न भवेत् । सस्यक्षेत्रेषु पर्णानि अपि सैनिकगमनकारण्तः न चलेयुः " इति आज्ञां ददाति स्म । कृषकाणां शिवराजः प्रेमस्वरूपः । धनिकाः भूस्वामिनः यदि निर्धनकर्षकान् पीडयन्ति तर्हि तेषां क्षेत्राणि स्वायत्तीकृत्य निर्धनकर्षकाणां कृते वितरति स्म सः । तदानीं समाजे अस्पृश्यतादुराचारः अधिकतया आसीत् । तदानीन्तनसमाजः स्वसोदरानेव अस्पृश्याः इति व्याजेन दूरे स्थापयति स्म । शिवराजः तान् सर्वान् प्रेम्णा दृष्टवान्, तेभ्यः स्वसैन्ये स्थानं दत्त्वा, तेषामर्हतामनुसृत्य उन्नतपदवीः अपि दत्तवान् । ते सर्वेऽपि शिवराजविषये अत्यन्तभक्तिश्रद्धादिभि:स्वविहितकार्यम् अनुतिष्ठन्ति स्म । स्वराज्यस्थापनविषये अत्यन्त -क्लिष्टसमस्याः अपि सम्मुखीकृतवान् शिवराजः । अस्मिन् महति कार्ये बहवः आत्मसमर्पणं क्रृतवन्तः । एकधर्मावलम्बिनः हिन्दवः परस्परं ईर्ष्या-द्वेषग्रस्ताः न भवेयुरिति आदर्शं शिवराजः अस्माकं पुरतः स्थापितवान् । सर्वे जनाः विद्यावन्तः भवेयुरिति शिवराजस्य अभिलाषः आसीत् । तस्य पालनस्मये संस्कृतभाषया सर्वोन्नतस्थानं नष्टम् आसीत्। पार्शीभाषा विशेषप्राचारे आसीत् । पार्शीस्थाने शिवराजः संस्कृतभाषायाः व्याप्तिं कारितवान् । तेषु दिनेषु बहवः बलात्कारेण महम्म्दीयधर्मे परिवर्त्यन्ते स्म । तेषां तु पुनः हिन्दुधर्मे परिवर्तने आकाङ्क्षा आसीत् । किन्तु हिन्दुसमाजः एतान् स्वधर्मे पुनरागमनाय न अनुमनुते स्म । शिवराजाय एतत् नारोचत । शुद्धिकार्यक्रमेण तान् पुनः हिन्दुधर्मे आहूतवान् । समुद्रप्रयाणं तेषु दिनेषु निषिद्धम् आसीत् । एतं मूर्खवादं शिवराजः व्यतिरिच्य स्वयं स्मुद्रयुद्धानि क्रुतवान्, नैकासेनामपि निर्मितवान् ।अविनीतिपरेभ्यः जनेभ्यः शिवराजः क्रुध्द्यति स्म । मातृदेशद्रोहपरान् न क्षम्यति स्म । स्वपुत्रमपि दण्डयति स्म सः । शिवराजः धर्ममूर्तिः । बन्धुवर्गीयजनेषु अपि पक्षपातबुद्धिं न प्रदर्शयति स्म ।बुद्धिमतः, दायित्वज्ञानिनः जनान् सदा प्रोत्साहयते स्म सः, तेभ्यः उन्न्तपदवीः अपि कल्पयति स्म । एतस्य फलमासीत् शिवराजस्य राज्ये गुणवतां संख्या प्रवृद्धा । स्वार्थपराणां तद्राज्ये स्थानं नासीत् । एवं शिवराजः सर्वविषयेषु अभ्दुतपरिणामान् साधितवान् । शिवराजस्य स्वराज्यनिर्माणविषयिका एषा कथा अस्माकं देहं पुलकितं करोति । एतस्य ग्रन्थस्य पठनेन शिवराजः आदर्शरुपेण अनुसरणीयः पदे पदे सम्भावनीयश्च् । अस्माकं मनस्सु एषा भावना कुतः आयाति ? यतः शिवराजः देशार्थं, धर्मार्थं च अनेककष्टनष्टानि असहत । स्वप्राणानपि न गणितवान्, बहुवारं मृत्युमुखं प्रविष्टोऽपि । अन्तिमक्षणपर्यन्तं देशार्थं, धर्मार्थमेव चिन्तितवान् । ३०० वर्षेभ्यः अनन्तरम् अद्यापि तं क्षणमात्रं स्मरामः चेदपि अस्मासु नूतनोत्तेजनं जायते ।

भारतीय सम्राटः।

"

"http://sa.wikipedia.org/w/index.php?title=छत्रपति_शिवाजी&oldid=276084" इत्यस्माद् पुनः प्राप्तिः