छत्रपतिशिवाजिमहाराजम्यूसियम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
छत्रपतिशिवाजिमहाराजम्यूसियम् (वस्तुसंग्रहालयः )

छत्रपतिशिवाजिमहाराजम्यूसियम् (मुम्बयी) छत्रपतिशिवाजिमहाराजम्यूसियम् (वस्तुसंग्रहालयः ) इति प्रख्यातः वस्तुसङ्ग्रहालयः २०तमशतकस्य आरम्भे प्रतिष्ठापितः । मुम्बयीनगरस्य प्रतिष्ठितव्यक्तिभिः मुम्बयीसर्वकारस्य साहाय्येन वेल्स् राजकुमारस्य (प्रिन्स् आफ वेल्स्), भविनः इङ्ग्लेण्डसाम्राज्यस्य राज्ञः किङ्ग् जार्ज्-५ वर्यस्य च स्मरणार्थं निर्मितः एषः वस्तुसङ्ग्रहालयः ।

जनाभिप्रायः[सम्पादयतु]

वस्तुसंग्रहालयं स्थपायितुं तस्य विन्यासम् समर्थयितुं, सूचनां दातुं सार्वजनिकानां विशेषसभा आयोजिता आसीत् । १९०४ तमे वर्षे जूनमासे २२दिनाङ्के अयोजितायाम् एतस्यां सभायाम् अधोलिखितनिर्णयाः अङ्गीकृताः । ते एवं सन्ति -

  • १ सौधस्य भव्यं मुख्यद्वारं भवेत् । सौधस्य निर्माणम् अत्यन्तसुन्दरं शैल्या भवेत् । यतः एतत् सौधं प्रमुखस्थले अर्धचन्द्राकृत्याकारकस्थाने भवति ।
  • २ स्थानीया शिल्पकला स्यात्। शिल्पकलायां काले काले जातं परिवर्तनम् अत्र प्रतिबिम्बितं भवेत् ।

अस्मिन् कार्ये समित्या विलम्बः न कृतः । १९०७ तमवर्षे मार्चमासे प्रथमदिनाङ्के मुम्बयीब्रिटिष् सर्वकारः वस्तुप्रदर्शनसमित्यै ‘अर्धचन्द्राकृति-आकारकं स्थलम् अयच्छत् । ‘क्रेसेण्ट् सैट्’ नाम्ना प्रसिद्धम् एतत् दक्षिणमुम्बयीप्रदेशस्य दक्षिणाग्रे ‘महात्मागान्धि’मार्गे विद्यते । सौधनिर्माणे नक्षारचनाकार्ये च अभिप्रायान् सूचयितुं स्थलीयनागरिकाणां कृते मुक्त- अवकाशः प्रदत्तः आसीत् । तस्मिन् काले सुप्रसिद्धाय ब्रिटिषसौधनिर्मापकाय जार्ज विटेट्महोदयाय १९०९ तमे वर्षे सौधनिर्माणकार्यदायित्वं दत्तवन्तः ।

जार्ज विटेट् कश्चन निष्ठावान् कुशलः सौधनिर्मापकः[सम्पादयतु]

एषः स्वस्यमित्रस्य उन्नताधिकारिणः च साकं ’जनरल् पोस्ट आफिस्’ भवनस्य शिल्पी आसीत् । एवम् एतेषां गणः ‘टाटा बाम्बे हौस्’ ‘कोर्ट आफ स्माल् कासेस् आफ़् इण्डिया’ इत्यादीनां प्रसिद्धभवनानां निर्माणकार्यम् अकरोत् । वस्तुसङ्ग्रहालये पुरातनचारित्रिकरचनानां गुप्तकालीयानां मौर्याणां च संग्रहः विद्यते । विदेशस्य संग्रहोऽपि वर्तते । इण्डस् व्यालि सिविलैझेषन् ‘कालस्य कुशलकलाः ‘भग्नावशेषाः (रेलिक्स्)’ पुरातनभारतस्य , गुप्तसाम्राज्यकालस्य, मौर्यसाम्राज्यकालस्य कलासंग्रहाः अत्र प्रदर्शिताः सन्ति ।

पञ्चम जार्जराज्ञः स्वप्नमन्दिरम्[सम्पादयतु]

सप्तमशतकीयः ऐहोळे प्रदेशस्थः उमामहेश्वरः

पूर्वं ‘प्रिन्स् आफ़् वेल्स् म्यूसियम् आफ़् वेस्टर्न् इण्डिया’ इति ख्यातस्य सौधस्य शिलान्यासं पञ्चमजार्जनृपः डिसेंबर् १९०५ तमे वर्षे कृतवान् आसीत् । शीघ्रं सौधस्य निर्माणकार्यम् आरब्धम् । मध्यकालस्य बोसाल्ट् शिलाभिः सौधः निर्मितः अस्ति । सौधस्य मध्यभागस्य गोलाकृतिः ‘बिजापुरस्य गोल् गुम्बज़ द्वारा प्रेरिता अस्ति । ‘गोल्कोण्डादुर्गस्य शैली’ अपि तत्र तत्र प्रयुक्ता दृश्यते । वस्तुसंग्रहालयाय अर्धचन्द्राकारस्य प्रदेशः प्रदत्तः । अत्र कलाविभागे विनूतनानि कलाप्रकाराणि, भारतस्य प्रसिद्धकलाकृतयः, कलाभेदाः, भारतीयवर्णचित्रकलायाः सिंहावलोकनं च प्रदर्शितम् अस्ति ।

नेपालदेशटिबेट्देशयोः सीमाभागे प्राप्ता नृत्यतः कृष्णस्य प्रतिमा

अत्र ११-१२ शतकस्य तालग्रन्थाः हस्तलिखितग्रन्थाः,१९ शतकात् पूर्वकालीनानि पहारि वर्णचित्राणि,मिनियेचर् वर्णचित्रकलायाः विविधाः प्रकाराः सन्ति। ‘राजकोट्’ ‘मोघल्’ तथा ‘पहारि’ ’दक्षिणभारतीय शैली’ एवं सर्वविधशैलीनां वर्णचित्राणि अपि अत्र पश्यामः । तयोर्मध्ये विद्यमानां विविधतां च अत्र द्रष्टुं शक्नुमः पश्यामः ।

सर् रतनटाटामहोदयेन समार्पिताः भत्यकलाकृतयः[सम्पादयतु]

सर् रतन् टाटा महोदयः स्व सङ्ग्रहे विद्यमानाः अमूल्य‘मुघल’‘राजस्थानि’’विदेशीय’ कलाकृतीः समर्प्य वस्तुसंग्रहालयस्य गौरवं अभिवर्धितवान् अस्ति ।१६शतकतः१९शतकं यावत् विद्यमानां वर्णचित्रपरम्पराम् अत्र द्रष्टुं शक्नुमः । पुरातनकलाशैल्याः प्रभावेन युक्तां स्थानीयभारतीयचित्रकला, पर्शियन् देशस्य कला, टर्किमध्यएषियाप्रदेशस्य च कलासंग्रहः अत्र दरीदृश्यते । वस्तुसङ्ग्रहालयस्य अन्तः प्रविश्य यदा पश्यामः तदा भव्यः अर्धगोलाकारस्य छदः दृश्यते । सङ्रग्रहालयस्य प्रवेशद्वारे एव बृहदाकारके घटीयन्त्रे कलारसिकान् मोदयतः । एते सर् रतनटाटामहोदयस्य योगदानानि । तयोः नादः अत्यन्तम् आकर्षणीयः अस्ति । तयोः बहिकवचे अतिपत्रवृक्षस्य(Teak) सूक्ष्मकला अत्यन्तम् आकर्षणीया अस्ति । ते घट्यौ चेन्नै(मद्रास् )तः रतनटाटामहोदयेन आनीतमासीत् । कलाविभागे भारतीय करकुशलकलानाम् अपारसङ्ग्रहः अस्ति । शासनानि, वस्त्राणि, चीनादेशस्य वैविध्यमय-उपकरणानि सन्ति । मध्यभागे ‘वीनस् कन्या’ याः अमृतशिलया निर्मिता नग्नप्रतिमा अस्ति । अस्याः सौन्दर्यम् अवर्णनीयम् । शिल्पशास्त्रविभागे भारतस्य तमिळ्नाडुप्रदेशादारभ्य काश्मीर्पर्यन्तं, पश्चिमभारतस्य सोमनाथादारभ्य पूर्वभारतस्य ओरिस्सापश्चिमबङ्गालराज्यपर्यन्तं प्रदेशे विद्यमानायाः करकुशलकलायाः प्रदर्शनम् अत्र वयं पश्यामः । तथैव नेपाल-भूटान्-उत्तरपूर्वराज्यानाम् भव्यकलाप्रकारान् दृष्ट्वा आनन्दम् अनुभवितुम् शक्नुमः । राजमहाराजाणां विविधानि आयुधानि, भारतीयानां तथा आङ्ग्लानां प्रमुखव्यक्तीनां, जनानां आङ्ग्ल-अधिकारिणां, मुम्बयीगवर्नरमहाशयानाम् अमृतशिलायाः अल्पाकृतेः प्रतिमाः तत्र तत्र पश्यामः ।

नैसर्गिक-इतिहासस्य विभागः[सम्पादयतु]

अत्र विविधानां चित्रपतङ्गानां , पक्षिणां, हरिणानाम्, उरगानां, व्याघ्राणां, सिंहानां , तिमिङ्गिलानाम्, अरण्यशुनकानां च शरीराणि कलात्मकतया प्रदर्शितानि सन्ति ।

पिक्चर् ग्यालरी विभागः[सम्पादयतु]

चित्रकलाजगति अत्यन्तं सुविख्यातः अस्ति राजा रविवर्मा । तस्य रविवर्मणः वर्णचित्राणि, रेखाचित्राणि, ‘सर् रतनटाटा’ महोदयस्य युरोपदेशस्य कलासंग्रहः अत्र प्रदर्शितः अस्ति । रोचकानि ‘मुराल’शैल्याः चित्राणि तथाव रतनटाटामहोदयेन प्रदत्ताः विशिष्टसङ्ग्रहाः अत्र सन्ति। प्रमुखतया वस्तुसंग्रहालयस्य उद्देशस्तु भारतीयचित्रकलायाः, संस्कृतेः च प्रदर्शनम् । संग्रहालयस्य शैक्षणिकक्षेत्रकरणे अत्र विशेषः प्रयत्नः दृश्यते।

मार्गः[सम्पादयतु]

वस्तुसंग्रहालयस्य मार्गः सि.एस्.टि.रैलस्थानकतः बस्यानेन, ट्याक्सीयानेन,अश्वशकटेन वा शक्यते। त्रिचक्रिका अत्र नास्ति । वस्तुसंग्रहालयः प्रमुखस्थाने वर्तते। तस्य अन्वेषणं तुं सरलम् । पुरतः डेविड् ससून्न् लैब्ररी,एल्फिन्स्टन् महाविद्यालयः, व्याट्सन् वसतिगृहं च सन्ति । वामतः रिदम् हौस्, जहाङ्गीर् आर्ट् ग्यालरी’ स्तः । दक्षिणतः ’ पोलिस् आयुक्तस्य कार्यालयः,रीगल चित्रमन्दिरं च स्तः । किञ्चित् अग्रे ’गेट्वे आफ् इण्डिया’भवनं , ‘ताजमहल् होटेल्’ च स्तः।