छायाग्राहिका

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
एका चित्रग्राहिका

छायाग्राहिका[सम्पादयतु]

मनवैरनेकैः छायाग्राहिका (Camera कैमरा) दृष्टा स्यात् , चित्रे सा प्रदर्शिता । अत्र निम्नलिखिताः भागाः भवन्ति ।

प्रकाशरोधकपिटकम् (Light Tight Box)[सम्पादयतु]

इदन्तु कृष्णचर्मणा, स्थूलपटेन , कर्गदेन वा निर्मीयते । यत्रानेकानि बलितानि भवन्ति । बलितानां कारणाद् इदम् आकृष्य बृहद् सम्पीड्य च लघु कर्तुं शक्यते । तथाच लेन्सस्य तिरस्करिण्याश्च मध्यवर्त्यन्तरालं परिवर्तयितुं शक्यते । इदन्तु आभ्यन्तरे कृष्णं भवति यतः पिटककुड्यैः प्रकाशस्य परावर्तनं न स्यात् । एतत् सम्मुखे एको लघुलेन्सः तस्य पृष्ठभागे च एका तिरस्करिणी भवति ।

लेन्सः[सम्पादयतु]

प्रकाशरोधकफिटकस्य अग्रभागे एको लेन्सः संयुक्तो भवति यः छायाग्राहिकाया अभिदृश्यक (Objective) इति नाम्नाभिधीयते । एकस्याः समीचीनायाः छायाग्राहिण्याः लेन्से न्यूनातिन्यूनं चत्वारः कदाचिच्च षडपि लेन्साः भवन्ति । ईदृशः एको लेन्सः चित्रे प्रदर्शितः

छिद्रपटम् (Diaphragm)[सम्पादयतु]

चित्रग्रहिकायाः विविधांशाः

लेन्सस्य पृष्ठभागे एव संयुक्त एकं गोलाकारकं छिद्रपटं भवति यस्य मध्ये एकं गोलाकारकं छिद्रं भवति । सुपिरमिदं आवश्यकता नुसारेण सङ्कोच्यं वर्धनीयञ्च भवति । लेन्सतञ्च संक्रम्य छायाग्राहिकाभ्यन्तरे गच्छतः प्रकाशस्य मात्रा न्यूना अधिका वा कर्तुं शक्या भवति ।

आच्छादिका (Shutter)[सम्पादयतु]

बृहच्छाअयाग्राहिकासु लेन्ससम्मुखे आच्छादिकैका भवति लघुच्छाया ग्राहिकासु एका तिरस्करिणी भवति (Shutter) इति नाम्नामिधीयते । १/१० इत्यतः १/१९ इति सैकेण्डं यावद अस्य अपावरणात् तावत्कालपर्यन्तमेव प्रकाशो फोटोपटले फिल्मे वा प्रतिफलति रासायनिकी क्रिया च प्रवर्तते ।

घृष्ठशीशकस्य तिरस्करिणी[सम्पादयतु]

प्राअशरोधकोऽयं पिटके लेन्ससम्मुखे सन्निविष्टं घृष्टशीशकर्निर्मितञ्च भवति । छायाग्राहिकायां पटलस्य संयोजनात् पूर्वं लेन्सस्य तिरस्करिण्याश्च मध्यवर्ति अन्तरालं परिवर्त्य वस्तुनः स्पष्टं प्रतिबिम्बं तिरस्करिण्याः निर्वर्त्यते । तदनन्तरं तिरस्करिण्याः स्थाने छायाग्राहिपटलं निवेश्यते ।

अवसर्पिणी(Slide)[सम्पादयतु]

इयमेका चिपिटा प्रकाशरोधिका पिटका भवति यत्र अन्धकाराच्छन्ने प्रकोष्ठेऽथवा रत्कप्रकाशे पटलं संयुज्यते । यदि पटले प्रकाशक्षेपेऽपेक्ष्यते तर्हि अवसर्पिण्याः (Slide) तिरस्करिणी अपसार्यते ।

पटलम् (Plate)[सम्पादयतु]

इदन्तु शीशकमयं भवति यस्य एकस्मिन् तले सिल्वरक्लोराइडस्य, ब्रोमाइडस्य सरेसपदार्थस्य च मिश्रणम् उपलिप्तं भवति । एतेषु रासायनिकपदार्थेषु प्रकाशद्वारा रासायनिक्याः क्रियायाः निष्पत्याः पटले छायाचित्रं सम्पद्यते । पटलस्थाने सैल्यूलाइडस्य फिल्मेष्वपि छायाचित्राणि गृह्यन्ते ।

छायाचित्रग्रहणविधिः[सम्पादयतु]

यस्य वस्तुनः छायाचित्रग्रहणं अभिलष्यते तस्य सम्मुखे ततश्च कि~झ्चिददूरे छायाग्राहिकायाः लेन्सः निधीयते आचछादकञ्च अपसर्य वस्तुनः प्रतिबिम्बं घृष्टशीशकस्य तिरस्करिण्यामवलोक्यते । भूयश्च लेन्सस्य तिरस्करिण्याश्च मध्यवर्ति अन्तरालं परिवर्त्य वस्तुनः स्पष्टं प्रतिबिम्बं तिरस्करिण्यां निर्वर्त्यते । पुनश्च छिद्रपटस्य आकारो एतावद्बृहद् क्रियते यत् प्रतिबिम्बे प्रकाशो प्रतिफलेत् । इदानीं अन्धकारावृते प्रकोष्ठे पटलं स्लाइडे इत्थं सन्निवेश्यते यत् पटलस्य यस्मिन् तले रासायनिकः पदार्थः उपलिप्तः भवति स प्रकाशाभिमुखो स्यात् ।

पटलं स्लाइडे निधाय राटरोऽवरूध्यते स्लाइडसम्मुखाच्च तिरस्करिणी अपसार्यते । इदानीं छायाग्रहणार्थं वस्तु सर्वथा प्रस्तुतं क्रियते । तदनु “रेडी (Ready) इति शब्दोच्चारणां कृत्वा शटरोऽपसार्यते तथाच प्रकाशस्य तीव्रतायाः पटलस्य च गत्यनुसारेण १/१० इत्यतः १/१०० इति सैकेण्डं यावत् तदपावृत्य त्वरितमेव आरूध्यते । इप्थं पटले रासायनिकी क्रिया निप्पद्यते ।

पटलेन सह स्लाइडं अन्धकराच्छन्ने प्रकोष्ठे नीत्वा पटल एकस्मिन् रासायनिके मिश्रणे निक्षिप्यते । मिश्रणञ्चेदं डेवलपर् (Developer) इति नाम्नाभिधीयते । अस्य कार्यन्तु पटलस्य तेषु भागेषु यत्र भूयोऽग्रे रासायनिक क्रियायाः प्रवर्तनं भवति तथा च यत्र प्रकाशः प्रक्षिप्तो भवति । अवशिष्टे च भागे अस्य कोऽपि प्रभावो न भवति । डेवलपरस्य रासायनिकक्रियाद्वारा सिल्वरस्य लवणानि सिल्वररूपेण प्रिवर्त्यन्ते । चत्वारि पञ्च वा मिनटानि यावत् डेवलपरे निधानोत्तरं पटलं जलेन प्रक्षाल्य हाइपोपदार्थस्य (Hypo) विलयने निक्षिप्यते विलयनेऽस्मिन् निक्षेपणात् यस्मिन् रासायनिके पदार्थे प्रकाशस्य प्रभावो न भवति स प्रक्षालनेन शोध्यते । क्रिया चेयं फिस्मिङ्गेति (fixing) नाम्नाभिधीयते । फिक्सिङ्गोत्तरं पटलं जलेन अनेकवारं प्रक्षाल्य शुष्कीक्रियते । इथं पटले यत् प्रतिबिम्बं निर्वर्त्यते तद् निगेटिव (Negative) इति नाम्नाभिधीयते यतः तद् वस्तुनः विपरीतं भवति । वस्तुनः ये भागाः शुक्लाः भवन्ति ते निगेटिव कृष्णाः ये च भागाः कृष्णाः सन्ति ते शुक्ला भवन्ति । ऋजु प्रतिबिम्बम् उपलब्धुं निगेटिवं पटलसदृशे एकस्मिन् आलोकग्राहिणि (Light Sensitive) कर्गदे निधाय भूयश्च किञ्चिद् कालं यावत् प्रकाशक्षेपणं क्रियते कर्गदे च निगेटिववत् प्रतिबिम्बं संवर्ध्य स्थिरीकृत्य च ऋजु छायाचित्रं निर्वर्त्यते ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=छायाग्राहिका&oldid=409259" इत्यस्माद् प्रतिप्राप्तम्