जगजीत सिंहः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
जगजीत सिंहः
Jagjit Singh (Ghazal Maestro).jpg
भुवनेश्वरे जयदेवसभाङ्गणे जगजीतस्य गानम् ।
व्यैक्तिकतथ्यानि
मूलतः भारतीयः ।
सङ्गीतविद्या गझल् गायकः, हिन्दुस्तानीशास्त्रीयगायकः, भक्तिगीतगयकः, जानपदगीतगायकः
वृत्तिः स्वरसंयोजकः, गायकः, सङ्गीतनिदेशकः
सक्रियवर्षाणि क्रि.श. १९६५ तः २०११ ।
स्तरः EMI, HMV, Saregama, Universal Music, Sony BMG Music Entertainment, Polydor, TIPS, Venus, T-Series, Magna Sound, Big Music, Times Music





जगजीत सिंहः (Jagjit Singh) - (पञ्जाबीभाषा-ਜਗਜੀਤ ਸਿੰਘ , جگجیت سنگھ - उर्दूभाषा) (जीवितकालः - फेब्रवरी - ८ क्रि.श. १९४१ तः अक्टोबर् १०, क्रि.श. २०११ पर्यन्तम्) जगजीत सिंहः भारतीयः प्रमुखः गझल् गायकः, रागसंयोजकः, सङ्गीतनिदेशकः, सामाजिककर्यकर्ता, उद्यमी च । क्रि.श. १९७० दशके चित्रा सिंहः काचित् श्रेष्टा गझल गायिका आसीत् । जगजीतः समानकलाकुशलां चित्रां परिणीतवान् । एतयोः दम्पत्योः गझल गानानां ध्वनिमुद्रणं भारतीयसङ्गीतेतिहासे एव अतिप्रसिद्धम् । अधुनिकगझल्गानस्य प्रवर्तकौ इमौ दम्पतीति परिगणितम् । भारतीयचलच्चित्रगीतानि अतिरिच्य अपि अधिकगीतानां ध्वनिमुद्रणं सम्पादितवन्तौ इति परिगण्येते । पञ्जाबी, हिन्दी,उर्दू,बङ्गाली, गुजरती, सिन्धी, नेपली भाषाभिः एतौ गीतवन्तौ ।

गझल्गानस्य पुनरुज्जीवनम्[सम्पादयतु]

भारतस्य शास्त्रीयकलाप्रकारेषु अन्यतमस्य गझल्गीतस्य जन्प्रियतां वर्धयितुं महान्तं प्रयत्नं कृतवान् । "प्रेमगीत् "(क्रि.श. १९८१), " अर्थ्, " " सात् साथ् "(क्रि.श. १९८२), " मिर्जा गालिब् "(क्रि.श. १९८८.दू.द.धारावाही), " कहकाशन् " (क्रि.श. १९९१) एतेषां गझल्गीतरूपेण स्वरसंयोजनेन साधितवान् । एषः सार्वकालिकः गझल् गायकः गीतानां स्वरसंयोजकः इति लोकप्रियः अभवत् । ४दशकवर्षाणां कालं ५०गीतगुच्छानां सहितं कृतिसञ्चयेन अस्य सङ्गीतस्य व्याप्तिं विस्तारं च प्रकारस्य लक्षणं निरूपयति इति परिगणितम् । विमर्शात्मकरीत्या श्लाघ्यः कविः अटलबिहारी वाजपेयी इति ख्यातस्य गीतानां रागसंयोजनं कृत्वा गीतवान् । एतानि "नयी दिशा "(क्रि.श. १९९९), " संवेदना "(क्रि.श. २००२) इति गीतगुच्छेषु संयोजितवान् ।

संसद्भवने कार्यक्रमः[सम्पादयतु]

भारतस्य संसद्भवनस्य ऐतिहासिके केन्द्रे क्रि.श.२००७ तमवर्षस्य मे मासस्य दशमे दिने प्रचलिते संयुक्ताधिवेशने जगजीत सिंहः मुघलराजस्य बहादुर् शाह जफर् इत्यस्य " लग्ता नहिं है दिल् मेरा " इति रचनं गीतवान् । एतद्गीतं प्रथमस्वातन्त्र्यसङ्ग्रामस्य १५० तमसंस्मरणोत्सवनिमित्तं गीतवान् । भारतस्य तदानीन्तनः राष्ट्रपतिः ए.पि.जे.अब्दुल् कलामः, भारतस्य प्रधानमन्त्री मनमोहन सिंहः, उपराष्ट्रपतिः भैरोन् सिंह शेखावत्, लोकसभासदस्यः सोमनथचटर्जी, काङ्ग्रेस् अध्यक्षा सोनिया गान्धिः, भूतपूर्वप्रधानमन्त्रिणः, संसत्सदस्याः, विदेशीयाः राजदूताः, विशेषाधिकारिणः च अस्मिन् सङ्गीतके उपस्थिताः।

गीतगुच्छानि ध्वनिमुद्रिकाः च[सम्पादयतु]

डिज़िटल् तन्त्रज्ञानेन गीतानां ध्वनिमुद्रणं प्रथमवारं जगजीतसिंहेन एव कृतम् । एषः स्वपत्न्या चित्रया सह " बियाण्ड् टैम् " इति गीतगुच्छं डिज़िटल् माधमेन रेखामार्गवैविध्येन कृतवान् । भारतस्य प्रभावी कलाकारेषु अग्रगण्यः । सितारमान्त्रिकः पण्डितरविशङ्करेण अन्यभारतीयशास्त्रीयसङ्गीतकोविदैः च सह मिलित्वा जगजीतः भारते कलायाः संस्कृतेः विषये च राजनीतिप्रवेशं विरुद्ध्य आन्दोलनम् अकरोत् । बाम्बे हास्पिटल्, सि.आर्.वै. मुम्बैग्रन्थालयः, सेव् दि चिल्ड्रन्, अल्मा इत्यादीनाम् अनेकासां सामाजिकसंस्थानां समाजोत्थानस्य योजनानां प्रोत्साहनार्थं सङ्गीतकानि आयोजितवान् ।

बाल्यं शिक्षा वृत्तिः च[सम्पादयतु]

जगजीतसिंहः भारतदेशस्य राजस्थानरज्यस्य श्रीगङ्गानगरस्य [१]अमर सिंह दिमान् इत्यस्य पुत्रत्वेन अजायत । अमरसिंहः सर्वकारीयोद्योगी पञ्जाबराज्यस्य दल्लाग्रामस्य निवासी च । जगजीतस्य चतस्रः सहोदर्यः, द्वौ सहोदरौ । अस्य कुटुम्बे सर्वे एतं जीत् इत्येव सम्बोधयन्ति स्म । कुटुम्बिनः सर्वे सिख्खमतस्य अनुयायिनः । श्रीगङ्गानगरस्य खाल्सा प्रौढशालायाम्, सर्वकारीयमहाविद्यालये च जगजीतस्य विद्यार्जनम् अभवत् । जलन्धरस्य डे.ए.वि.महाविद्यालये कलापदवीं प्राप्तवान् । हरियाणस्य कुरुक्षेत्रविश्वविद्यालयतः इतिहासविषये स्नातकोत्तरपदवीं सम्पादितवान् । जगजीतसिंहः बल्यादारभ्य सङ्गीतासक्तः आसीत् । आरम्भे श्रीगङ्गानगरे एव पण्डितस्य चगन्लाल् शर्मणः गुरुत्वेन वर्षद्वयं सङ्गीताभ्यासं कृतवान् । तत्पश्चात् एषः खयाल्, ठुम्री, द्रुपद् स्वरूपाणां भारतीयशास्त्रीयसङ्गीतं साय्निघराणाशालायाः "उस्ताद् जमाल खान्" इत्यस्मात् षड्वर्षाणि अधीतवान् ।

आरम्भिकं वृत्तिजीवनम्[सम्पादयतु]

पञ्जाबराज्यस्य विश्वविद्यालयस्य कुरुक्षेत्रविश्वविद्यालयस्य च कुलपतिः प्राध्यापकः सूरज् बन् इत्याख्यः जगजीतस्य सङ्गीताध्ययने प्रोत्साहनं कृतवान् । क्रि.श. १९२६तमे वर्षे सङ्गीतकारः गायकः च भूत्वा उत्तमावकाशम् अन्विषन् मुम्बैनगरम् आगतवान् । सङ्गीतस्य उद्यमे आन्दोलनं तादृशं कष्टदायकं नास्ति चेदपि विषमस्थितिः क्लेशाः तु सन्ति एव इति अस्य विवरणम् । मुम्बै नगरे धन्देयातिथिरूपेण कस्यचित् गृहे वासं कृतवान् । अस्य आरम्भिककार्याणि नाम वाणिज्ये विज्ञापिकानां गानम्, विवाहोत्सवेषु सङ्गीतकं च ।


यशसः सोपानानि[सम्पादयतु]

क्रि.श. १९७० तमदशके नूर् जेहान्, मलिका पुकराज्, गेगम् अख्तर्, तलत् महमूद्, मेहदि हसन्, इत्यादीनि गझल्गानस्य कलायां प्रसिद्धानि नामानि । अथापि जगजीतसिंहः अस्मिन् क्षेत्रे स्वस्य पादाङ्कितम् अकरोत् । स्वस्य स्थानं च निर्मितवान् । क्रि.श. १९७६ तमे वर्षे अस्य एच्.एम्.वि.सङ्गीतसमवायेन गीतगुच्छं " दि अन् फर्गेटेबल्स् " सङ्गीतापणेषु अतिप्रसिद्धम् अभवत् । क्रि.श. १९६७ तमे वर्शे गायिकायाः चित्रायाः दर्शनम् अभवत् । वर्षद्वयस्य स्नेहः विवाहबन्धने अनुवर्तितम् । देशे पतिपत्न्योः प्रथमः सङ्गीतगणः इति प्रसिद्धः अभवत् । जगजीतसिंहचित्रायोः भारतस्य गझलगानक्षेत्रे योगदानम् अग्रगण्यम् अस्ति । एतयोः प्रसिद्धे गीतगुच्छे " ए सौण्ड् अफेर् " , " फ्याषन्स् " इति । पुत्रस्य अकालमरणेन दुःखितौ दम्पती कञ्चित्कालं कार्यविरतौ । पश्चात् "सम्वेर् सम्वेर् " इति युगलगीतानाम् गझल् गीतगुच्छम् लोकार्पितम् । अस्मिन् गीतगुच्छे अध्यात्मविषयेषु विहारः अस्ति । एतदनन्तरं चित्रा सिंहः गानकार्यम् एव त्यक्तवती । किन्तु जगजीतः इतःपरम् अपि गीतानि गायन् आसीत् । जगजीतस्य तदनन्तरदिनानां "होप् ","इन् सर्च् "," इन्सैट् ", " मिरेज़् ", " मि़षन्स् ", " विषन्स् ", " कहक्षन्स्", " लव् ईस् ब्लैण्ड् ", "चिराग् ", " साज्डा ", इत्यादीनि गीतगुच्छानि जनप्रियाणि अभवन् । अस्य गीतगुच्छानां प्रसिद्ध्या जनप्रियतायाः कारणेन एव एषः भारतस्य श्रेष्ठं गायकम् अकरोत् । सङ्गीतरसिकाः अपि अनेन इतोऽप्यधिकं वाच्छितवन्तः । पश्चात् पञ्जाबीभाषायाः गीतगुच्छानि कृतवान् । अत्युत्साहदायकानि, उल्लासस्य गीतानि सङ्गीतासक्तानां मनांसि अतर्पयन् । मिर्जा गालिब्, फिर्क् गोरख्पुरि, खतील् शिफायी, शाहिद् कबीर्, अमीर् मीणाय्, कफील् अजर्, सुदर्शन् फकीर्, निदा फ्ज्लि, जाका सिद्धिखि, नज़ीर् बक्रि, फाइज् रत्मामि, राजेश रेड्डी इत्यादीनां प्रसिद्धकवीनां गीतानां स्वरप्रस्तारं कृत्वा गीत्वा मनमोहकानि अकरोत् ।

चलच्चित्रगीतरङ्गस्य प्रवेशः[सम्पादयतु]

कालक्रमेण जगजीतसिंहः चलच्चित्रे पादर्पणं कृतवान् । आरम्भे गुजराती चलच्चित्रे गातुम् आह्वानम् अगतम् । गुजरातीभाषायाः " धरती ना चोरु " इति चलच्चित्रं सुरेश अमीन् इति उद्यमी निर्मितवान् । सुरेश अमीनः जगजीतसिंहेन " जोलिवाले बाबा " इत्येव ख्यातः आसीत् । यतो हि यत्रकुत्रापि सः गच्छति चेत् रक्तवर्णस्य दोलास्यूतं नयति स्म । सुरेश अमीनः गुजरास्य बरोडामूलनिवासी आसीत् । क्रि.श. १९९८ तमे वर्षे यदा सुरेशः दिवङ्गतः तदा बरोडस्य स्काड् कन्सल्टेण्ट् संस्था अस्य श्रद्धाञ्जलिकार्यक्रमे जगजीतस्य गानगोष्ठीम् आयोजयत् । तत्र विशेषतः सुरेश अमीनस्य जीवनानुरूपं " चिट्टि न कोयी सन्देश् " इति गीतं गीतवान् । जगजीतस्य अधिकाधिकगितगुच्चानां नामानि आङ्ग्ले सन्ति । सहर्, मुन्तजिर्, मरसिम्, सोज़्, इत्यादीनि क्रमेण हिन्दी उर्दू भाषयोः अपि नामानि श्रुतानि । गझल्गितानि अतिरिच्य हिन्दुसिख् भक्तिगीतानि अपि गीतवान् । अनेन एषः मुखेश्, हरि ओं शरण्, येसुदास्, अनुपजलोटा इत्यादीनां पङ्क्तौ आगतः । मानवशरीरस्य दुर्बस्नायूनां चिकित्सायां "मनोभारहरणार्थं" च जगजीतस्य गीतानि उपयोगाय भवन्ति इति वैद्यानाम् अभिप्रायः ।

प्रभावः[सम्पादयतु]

जगजीतस्य एषा गरिमा अस्ति यत् धनिकानां मनोरञ्जकानि गझल्गीतानि सामान्यजनानां निकटम् आनीतवान् । तबला, डोलक्, बोङ्गोरो, सितार्, वंशी, हार्मोनियम् इत्यादिभिः साम्प्रदायिकवाद्यैः सह आवश्यकतानुगुणं पाश्चात्यवाद्यानि अपि योजयित्वा ध्वनिविन्यासं परिवर्तितवान् । एतादृशपरिवर्नस्य आद्यप्रवर्तकः इति कीर्तिः अपि जगजीतस्य एव अस्ति । तदन्तरकाले प्रकाशमागतः कुमारसानु अपि अनेन गानक्षेत्रे आनीता प्रतिभा । पाकिस्तानदेशः भारतीयगायकानाम् अवकाशं निराकरोत् तदा पाकिस्तानगायकानां भारतदेशे गानावकाशं विरोधितवान् । यशस्विवृत्तिजीवनं निर्वहन् जगजीतः अभिजित् तलत अजीज्, घनश्याम वासवानी, अशोक खोस्ला, सिजा राय, विक्रम सिंहः, विनोद सहगल् इत्यादीनां नूतनगायकानां सङ्गीतक्षेत्रे मार्गदर्शनं कृतवान् ।

वैयक्तिकं जीवनम्[सम्पादयतु]

जगजीतः जनप्रियः गायकः । एषः क्रि.श. १९६९ तमे वर्षे चित्रा सिंहः इति जनप्रियां गयिकाम् एव परिणीतवान् । क्रि.श. १९९० तमदशकस्य आदिभागे अद्वीतीयः पुत्रः विवेकः मार्गापघाते मृतः । जगजीत सिंहः मुम्बैनगरे पुत्रस्य नाम्नः मार्गे एव निवसति । क्रि.श. १९९८ तमे वर्षे जगजीतसिंहस्य हृदयाघातः अभवत् । अतः एषः धूमपानव्यसनं त्यक्तवान् । क्रि.श. २००७ तेमे वर्षे अक्टोबरमासे अस्य देहस्य रक्तपरिचलनस्य समस्यायाः करणेन चिक्तित्सालयं प्रवेशितः । एव मानसिकतया शरीरेण च जर्जरितः ७०वर्षीयः जगजीतसिंहः क्रि.श २०११ तमवर्षस्य अक्टोबरमासस्य दशमे दिने मुम्बैनगरस्य लीलावतीचिकित्सालये विधिवशः अभवत् ।.

प्रशस्तिपुरस्काराः[सम्पादयतु]

प्रसिद्धानि गझल्गीतानि[सम्पादयतु]

  • यारियन् रब् कर् के.......
  • उम्र जल्वो में बसर् हो.......
  • देर् लगि आने मे तुमको.......
  • अपनी आङ्खो के समुन्दर में उतर् जाने दे.......
  • कोयी पास् आया सवेरे सवेरे.......
  • अपने हो तो पर् सजाना चाहता हूं.......
  • मेरी जिन्दती किसि और् कि मेरे नाम् का कोयी और् है.......
  • अपने हातों की लकीरो में.......
  • सद्मा तु हाय् मझे भी के तुजसे जुदा हूं मै.......
  • आद्मि आद्मी को क्या देगा.......
  • हात् चूते भी तु.......
  • गराज् बरस प्यासी धर्ती पर फिर पानि दे मौला.......
  • अप्नि मर्जि से कहां अप्ने सफर् के हम् है.......
  • एक् ब्राह्मण् ने कहा है.......
  • मै न हिन्दू न मुसल्मान् मुझे जीने दो.......
  • कैसे कैसे हद् से सहते रहे.......
  • वो जो हमे तुमे करार् था.......
  • पत्त पत्ता बूटा बूटा हाल् हमारा जाने है.......
  • चक् जिगर् के से लेते है.......
  • मैं भूल् जावूं तुम्हे अब् याही मुनासिब् है.......
  • जाते जाते वो मुझे अच्चि निशानी दे गया.......
  • शाम् से आङ्ख् में नमी सी है.......
  • तेरे बारे में जब् सोचा नही था .......
  • तेरे आने की जब् खबर् महके.......
  • तमन्न् फिर् मुच्चल् जाये अगर् तुं मिलने आजावो .......
  • अब् मैं रतियों की कतारों में नज़र् आताहूं.......
  • तुझ्से मिलने कि सजा देंगे तेरे शहर् के लोग्.......
  • पत्तर् के खुदा पत्तर् के सनम् .......
  • हुजूर् अप्का भी अहतरां कर्ता चलूं.......
  • दिन् आगये सभाब् के आन्चल् सम्भालिए.......
  • गुल्शन् कि फकत् पूलों से नहिं काटों से भी जन्नत् अहोती है.......
  • बात् साकि कि न ताली जायेगी..........
  • चुप्के चुप्के रात् दिन् आंसू बहान् याद् है..........
  • रोशन् जमाल् ए यार् से हैं अञ्जुमन् तमाम् ..........
  • तेरा चेह्रा कित्ना सुहान लगता है..........
  • तुं हि नहि गम् नही शराब् नही..........
  • सरस्क्ति जाये है रुख् से नकाब् आहिस्ता आहिस्ता..........
  • हय खुदा रेत् के सहर को समुन्दर् कर् दे..........
  • हय दौलत् भी लेलो, यह शोहरत् भी लेलो..........
  • होश्वलो को खबर्..........
  • होटों से चू लो तु..........
  • कोयी हह कैसे बताये...........
  • तेरे खत्...........
  • बहुत् खूब् सूरत् है...........
  • किस्का चहरा...........
  • कल् चौदवीं की रात् थी...........
  • बात् निक्लेगी तो.............
  • देर् लगि आने मे तुमको.............
  • मैं नशे में हूं.............
  • प्यार् मुझसे जो किया तुम्ने.............
  • तेरा चहरा है आइने जैसा.............
  • चिट्टि न कोई सन्देश्.............
  • तुम् इतना जो मुस्कुरा रहे हो.............
  • जब् से करीब् हो के चले जिन्दगी से हूं.............
  • कोयी फरियाद्.............
  • कही दूर् जब् दिन्.............
  • कहत हाय् बाबुल्.............
  • झुकी झुकी सी नज़र्.............
  • तुमको देखा तो यह खयाल्.............
  • सेह्म सेहम्.............
  • याद् किया दिल् ने कहा तो तुम्.............
  • आप् को देख्कर्.............
  • जब् सामने तुम्.............
  • हज़ारो कायिषे ऐसी.............
  • या तो मिट्जाये या मिटादीजिए.............
  • तेरे आने कि जब् खबर् महके.............
  • वोह् खात् के पुर्ले जला राहा था.............
  • तुम् ये कैसे खफा गो गये.............
  • हुं तु हाय् पर्देसे में देश् में.............
  • जीवन् मरण् चे एक्.............
  • वोह् कागज् कि कश्ती.............
  • बदि नाजुक् है ये मंज़िल् मोहब्बत् का सफर्.............

अस्य चलच्चित्रगीतानि[सम्पादयतु]

चलच्चित्रस्य नाम कालः विवरणम्
प्यर् करे दस् २००७ [३]
उमर् २००६ नेपथ्यगायकः, गीतम् - खुमारि चद् के उतर् गयी ।
बाबुल् २००६ नेपथ्यगायकः, गीतम् - कहता है बाबुल्
कसक् २००५ सहित्यम्
मीर् झरा २००४ तुम् पास् आरहे हो सहित्यम्
दूप् २००३ नेपथ्यगायकः, गीतम् -बेनाम् सा यह दर्द्, हर् एक् घर् मे दिया, तेरि आङ्खो से ही साहित्यम्
जोगर्स् पार्क् २००३ बारि नाजुक् है साहित्यम्
आप्को पेह्ले भी कही देखा है । २००३ ऐसि आङ्ख्ये नही देखी ।
लीला २००२ दुवा है उट है । जाग् के कटि । जब्से खरीब् हो के चले । तेरे खयाल् कि ।
वध् २००२ बहुत खूबसूरत् ।
देहम् २००१ यूँ तो गुज़र् रहा है ।
तुम् बिन् २००१ कोयि फरियाद् ।
तकरीब् २००० किस्का चेहरा अब मै देखो... तेरा चहरा देखकर् ।
शाहीद् उडम् सिंहः २०००
भोपाल् एक्सप्रेस् । १९९९ इस् दुनिया मे रखा क्या है ।
सर्फरोश् । १९९९ होश् वालोङ्को ।
दुश्मन् । १९९८ चिट्ति न कोयी सन्देश् ।
खुडाय् १९९४ दिन् आ गये शबाब् के । उल्फत् का जब् किसीसे लिया नाम् । ये शिशे ये रिश्ते ।
माम्मो १९९४ हज़ार् बार् रुके हम् हज़ार् बार् चले । गुलज़ार् इत्यस्य रचनम् ।
खल् नायक् १९९३ ओ माँ तुझे सलाम् ।
नर्गीस् १९९२ दोनों के दिल् है मजबूर् प्यार् से । मैं कैसे कहूं जनेमन् ।
बिल्लू बादशा १९८९
आखरी कहानी १९८९
दूसरा कानून् १९८९ दूरदर्शनवाहिनी ।
कानून् की आवज़् १९८९
मिर्जा गलीब् । १९८८ गुल्जार् निदेशनस्य दूरदर्शनवाहिनीधारावाही ।
राही १९८७
आशियाना १९८६ हम्सफर् बन् के हम्
लाङ्ग् डा लिश्कारा १९८६ इश्क् है लोको
मैं कण्ड्याली थोर् वे ।
सारे पिन्दच् पुरे पाये
फिर् आयी बर्सात् १९८५ न मोहबत् न दोस्ती के लिए ।
रावण् १९८४ हम् तो यूं अप्नी जिन्दगि से मिले
मै गर् में चुनरिया
बहुरूपि १९६६
भावना १९८४ मेरा दिल् में तु हि तु है
कल का १९८३
तुम् लौट् आवो १९८३
जुल्फ् के साये साये १९८३ नशीलि रात् में ।
अर्थ् १९८२ झुकि झुकि सी नज़र्
कोई यह् कैसे बताये
तेरे खष्बू में बसे खत्
तू नही तो जिन्दनी मे और् क्या रह जएगा
तुम् इतना जो मुस्कुरा रहे हो ।
साथ् साथ् १९८२ प्यार् मुज़से जो किए तुम्ने
तुम् को दिखा तो एक् खयाल् आया
यह बत् दे मुझे जिन्दगी
यह बत् दे मुझे जिन्दगी
यह् तेरा यह मेरा घर
यूं जिन्दगी तह में .. गायिका - चित्रासिंहः"
सितम् १९८२
प्रेम् गीत् १९८१ होण्टो से चू होंटो से चू लो तुम्
एक् बार् कहो १९८० कोयी गेसु आञ्चर् हमे आवाज़् न दे (सङ्गीतसंयोजनम् - बप्पि लहरी)
गृह् प्रवेश् १९७९
आविष्कार् १९७३
हीना १९९९ दूरदर्शनस्य धारावाही ।
नीम् का पेड् १९९४ दूरदर्शनस्य धारावाहीमुखगीतम् । (मुह् कि बात् सुने हर् कोयी )
हलो ज़िन्दगी दूरदर्शनस्य धारावाहीमुखगीतम् । (मुख्यशीर्षिकगीतम् )

गझल्गीतगुच्छानि[सम्पादयतु]

  • दि अन्फर्गटेबल्स् (क्रि.श. १९७६)
  • बिर्ह डा सुल्तान् (शिवकुमार् बतल्वि ) जगजित सिंहः(क्रि.श. १९७८)
  • लैव् इन् पाकिस्तान् (क्रि.श. १९७९)
  • ए मैल्स्टोन् (क्रि.श. १९८०)
  • मैं और् मेरी तनहायी (क्रि.श. १९७१)
  • दि लेटेस्ट् (क्रि.श. १९८२)
  • यह् मेरे दिल् (क्रि.शा. १९८२)
  • लैव् एट् रोयल् आल्बर्ट् हाल् (क्रि.श. १९८२)
  • एक्स्ट् सीस् (क्रि.श. १९८४)
  • ए सौण्ड् अफेर् (क्रि.श. १९८५)
  • एकोस् (क्रि.श. १९८५-८६)
  • बेयाण्ड् टैम् (क्रि.श. १९८७)
  • मिर्जा गालिब् (सम्पुटद्वयम् (क्रि.श. १९८८),दूरदर्शनधारावाही - गुल्जार् निदेशिता ।
  • फ्याशन् / ब्ल्याक् म्याजिक् (क्रि.श. १९८८)
  • गझल्स् फ्रम् फिल्म्स्(क्रि.श. १९८९)
  • एमोषन्स्
  • मन् जीते जगजीत्(क्रि.श. १९९०)
  • मेमोरेबल् गझल्स् आफ् जगजीत् एण्ड् चित्रा(क्रि.श. १९९०)
  • सम् वन् सम्वेर् (१९९०)
  • H O P E (क्रि.श. १९९१)
  • सज्दा(लता मङ्गेश्कर् इति गायिकया सह) (क्रि.श. १९९१)
  • कहकशन् (सम्पुटद्वयम्) (क्रि.श.१९९१-९२),जलाल् अगा निदेशनस्य दूरदर्शनधारावाही ।
  • विषन्स्(सम्पुटद्वयम्) (क्रि.श. १९९२)
  • इन् सर्च्(क्रि.श. १९९२)
  • रेर् जेम्स्(क्रि.श. १९९२)
  • फेस् टु पेस् (क्रि.श. १९९२)
  • युवर् छाय्स्(क्रि.श. १९९२)
  • चिराग् (क्रि.श.१९९३)
  • डिसैर्स्(क्रि.श.१९९४)
  • इन् सैट् (क्रि.आ. १९९४)
  • क्रै फार् क्रै(क्रि.श. १९९५)
  • मिरेज़्
  • यूनिक् (क्रि.श.१९९६)
  • कम् अलैव् इन् ए कन्सर्ट् - सान्द्रमुद्रिका (क्रि.श.१९९८)
  • लैव् एट् दि बेम्ब्ली
  • लव् ईस् ब्लैण्ड्(क्रि.श. १९९८९)
  • सिल् सिले(क्रि.शा.१९९८) (साहित्यम् - जावेद् अक्तर्)
  • मुरासिम्(क्रि.शा.१९९९) (साहित्यम् - गुल्ज़ार्)
  • जाम् उठा(क्रि.श.१९९९)
  • सह्र् (क्रि.श. २०००)
  • संवेदना २००२ (अटलबिहारी वाजपेयीवर्यस्य कविताः)
  • सोज़् (क्रि.श. २००२) (साहित्यम् - जावेद् अक्तर्)
  • फर्गेट् मि नाट् (क्रि.श. २००२)
  • मुन्तजिर् (क्रि.श. २००४)
  • जीवन् क्या है (क्रि.श. २००५)
  • तुम् तो नही तो (साहित्यम् - बषीर् बद्र्) (क्रि.श. २००५)
  • लैफ् स्टोरी(क्रि.श. २००६)
  • बेस्ट् आप् जगजीत् - चित्रा
  • कोई बात् चले (साहित्यम् - गुल्ज़ार्)
  • जाज् बात् (क्रि.श. २००८)
  • इम्तिहाँ (क्रि.श. २००९) (बानू में तेरी दुल्हन् इति चित्रितम् )

उल्लेखाः[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=जगजीत_सिंहः&oldid=236341" इत्यस्माद् पुनः प्राप्तिः