जगदीश चन्द्र बसु

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(जगदीशचन्द्रबोसः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
जगदीशचन्द्रबोसः
Acharya Sir Jagadish Chandra Bose
জগদীশ চন্দ্র বসু

रायल् इन्स्टिटुट् लन्डन् नगरे जगदीशचन्द्रबोसः
जननम् 30 November 1858(1858-11-30)
बिक्रम्पुर्, बङ्गाल् प्रेसिडेन्सि, ब्रिटिष् इन्डिया (इदानीम् बिक्रम्पुर्, धाका, बङ्ग्लादेश्)
मरणम् 23 November 1937(1937-11-23) (aged 78)
गिरिदिह्, बङ्गाल् प्रेसिडेन्सि, ब्रिटिष् इन्डिया
वासस्थानम् कोलकाता, बङ्गाल् प्रेसिडेन्सि, ब्रिटिष् इन्डिया
देशीयता ब्रिटिष् इन्डियन्
कार्यक्षेत्राणि Physics, Biophysics, Biology, Botany, Archaeology, Bengali Literature, Bengali Science Fiction
संस्थाः कोलकाता विश्वविध्यालयः
केम्ब्रिज् विश्वविध्यालयः
लन्डन् विश्वविध्यालयः]
मातृसंस्थाः सन्त. क्सेवियर् कालॅज् , कोल्कत्ता
केम्ब्रिज् विश्वविध्यालयम्
Academic advisors John Strutt (Rayleigh)
Notable students सत्येन्द्रनाथ बसु, मेघनन्द् सहा
विषयेषु प्रसिद्धः Millimetre waves
Radio
Crescograph Plant science
प्रमुखाः प्रशस्तयः Companion of the Order of the Indian Empire (CIE) (1903)
Companion of the Order of the Star of India (CSI) (1911)
Knight Bachelor (1917)

अयं जगदीशचन्द्रबोसः (Jagadishchandra Bose, वङ्ग: জগদীশ চন্দ্র বসু; ३० नवेम्बर् १८५८- २३ नवेम्बर् १९३७) प्रसिद्धः भौतविज्ञानी, सस्यविज्ञानी च । अयं १८५८ तमे वर्षे नवेम्बर्-मासस्य ३० तमे दिनाङ्के भारतस्य मेमेन्सिङ्ग् इति प्रदेशे (इदानीं बाङ्ग्लादेशे अस्ति) जन्म प्राप्नोत् ।

प्राथमिकजीवनम्[सम्पादयतु]

अस्य पिता भार्गवचन्द्रः फरीदपुरम् इति मण्डले सहायकन्यायाधीशः आसीत् । अनेन जगदीशचन्द्रबोसेन आरम्भिकं शिक्षणं बङ्गालीभाषया एव प्राप्तम् । अनन्तरं सः भारतस्य कोल्कत्तानगरम् अगच्छत् शिक्षणार्थम् । तदवसरे तत्र ग्रामप्रदेशात् आगतम् एतं जगदीशचन्द्रबोसम् अन्ये छात्राः उपहसन्ति स्म । कदाचित् कुपितः सः जगदीशचन्द्रबोसः तेषु बलाढ्यं कञ्चित् सम्यक् प्रहृत्य उन्नीय अक्षिपत् । तदनन्तरं कोऽपि छात्रः अस्य उपहासं न अकरोत् । महाविद्यालयस्य शिक्षणं समाप्य जगदीशचन्द्रबोसेन अग्रिमस्य शिक्षणस्य निमित्तम् इङ्ग्लेण्ड्देशं प्रति गन्तव्यम् आसीत् । किन्तु गृहे आर्थिकी परिस्थितिः तावती उत्तमा न आसीत् । अनन्तरं तस्य माता आभरणानि विक्रीय तं वैद्यशिक्षणार्थं विदेशं प्रति प्रेषितवती । तत्र इङ्ग्लेण्ड्देशे लण्डन् तथा केम्ब्रिड्ज् विश्वविद्यालयेषु अयं जगदीशचन्द्रबोसः अध्ययनम् अकरोत् । तत्र भौतविज्ञानिना लार्ड् लेलिङ्गेन प्रभावितः सन् भौतशास्त्रे आसक्तः अभवत् । ततः सः भौतशास्त्रं, रसायनशास्त्रं, सस्यशास्त्रं च अपठत् ।

कर्मजीवनम्[सम्पादयतु]

इङ्ग्लेण्ड्देशतः पदवीं प्राप्य भारतं प्रत्यागतः जगदीशचन्द्रबोसः कोल्कत्तानगरस्य प्रेसिडेन्सिमहाविद्यालये १८८५ तः १९१५ पर्यन्तं भौतशास्त्रस्य अध्यापकरूपेण कार्यम् अकरोत् । तत्र तादृशं गौरवं प्राप्तवत्सु भारतीयेषु अयं जगदीशचन्द्रबोसः एव प्रथमः । तदवसरे भारते ब्रिटिश्जनानां शासनम् असीत् । प्रेसिडेन्सिमहाविद्यालये ब्रिट्श्–अध्यापकेभ्यः अधिकं वेतनं, भारतीयाय अस्मै जगदीशचन्द्रबोसाय च न्यूनं वेतनं दीयते स्म । तां पद्धतिं विरुध्य सः अहिंसात्मकं प्रतिभटनम् अपि अकरोत् । बहुकालं यावत् वेतनं विना कार्यं कुर्वन् न्यायार्थं प्रतिभटनम् अकरोत् । अन्ते ब्रिटिश्–सर्वकारः सर्वेषाम् अपि समानां व्यवस्थाम् अकल्पयत् । तदनन्तरं सः जगदीशचन्द्रबोसः "बोस् संशोधनसंस्थां” प्रतिष्ठाप्य १९१७ तः १९३७ पर्यन्तं तस्याः निदेशकत्वेन कार्यम् अकरोत् ।

शोधकर्माणि[सम्पादयतु]

जगदीशचन्द्रबोस्

प्रकाशस्य किरणान् स्फटिकद्वारा यदा प्रवाहयामः तदा ते किरणाः वक्राः सन्तः चलनगतिं परिवर्त्य प्रतिबिम्बन्ते । केषुचित् स्फटिकेषु ते किरणाः यदा प्रवाहिताः तदा तेषां प्रतिबिम्बद्वयं दृष्टम् । सः तद्विषये एव संशोधनम् अनुवर्तितवान् । तस्य जगदीशचन्द्रबोसस्य तद्विषयकः प्रथमः लेखः "द्विप्रतिबिम्बम्” बेङ्गालसङ्घस्य एष्या-सञ्चिकायां प्रकाशितः । मैक्रो–तरङ्गानाम् उत्पादकं "वेव्-गैड्”, आकाशवाण्याः तरङ्गानाम् अपेक्षया अधिकसंवेदनायुक्तं "कोहेरर्” नामकं साधनं चापि अनेन जगदीशचन्द्रबोसेन एव निर्मितम् । तस्मिन् काले संशोधनार्थम् अपेक्षितानि उपकरणानि, प्रयोगालयाः, आधारभूतानि पुस्तकानि वा न आसन् । तथापि तस्य मेधाशक्तिः तादृशी आसीत् । अस्य जगदीशचन्द्रबोसस्य प्रतिभाम् अभिज्ञातवन्तः बहवः आङ्ग्लेयाः तम् आदरेण पश्यन्ति स्म । लार्ड् केल्विन् तथा सर् ओलिवर् इत्याख्यौ जगदीशचन्द्रबोसं लण्डन्–नगरे एव वसतु इति आह्वानम् अपि दत्तवन्तौ आस्ताम् । परन्तु देशाभिमानी जगदीशचन्द्रबोसः भारते एव अवसत् ।

जीविनां निर्जीविनां च प्रतिक्रिया[सम्पादयतु]

अग्रे अयं जगदीशचन्द्रबोसः सस्यानां विषये संशोधनम् आरब्धवान् । विद्युत्–प्रेरणान्तर्गतेषु जीविषु निर्जीविषु च यत् साम्यम् आसीत् तदपि संशोधितवान् । प्राणिनाम् इव सस्यानाम् अपि जीवः अस्ति । तानि अपि व्रणितानि भवन्ति । तेषाम् अपि आघातः भवति । रासायनिकानां प्रयोगेण सस्यानि अपि प्रज्ञाहीनानि कर्तुं शक्यन्ते । इति १९०१ वर्षे लण्डन्–नगरस्थायाः रायल्–सोसैट्याः अन्ताराष्ट्रिय–विज्ञानसम्मेलने प्रत्यपादयत् । "ब्रोमेट्”युक्तं द्रवम् आचूषितस्य सस्यस्य प्रतिक्रियां प्रायोगिकरूपेण अपि अदर्शयत् । सस्यानां सूक्ष्मं संवेदनम् अपि अभिज्ञातुं "रेसोनेण्ट्” नामकम् उपकरणम् अपि निर्मितवान् । अयं जगदीशचन्द्रबोसः सस्यजीवनस्य विषये स्वेन कृतान् प्रयोगान्, तेषां प्रयोगाणां फलं चापि "जीविनां निर्जीविनां च प्रतिक्रिया” (The Reaction of Living & Nonliving) इति पुस्तके उल्लिखितवान् अस्ति । तत् पुस्तकं १९०२ वर्षे प्रकाशितम् ।

आप्टिकल् पल्स् रेकार्डर्[सम्पादयतु]

सस्यानां क्रियाणां, प्राणिनां शरीरे प्रचलन्तीनां क्रियाणां च साम्यम् अपि जगदीशचन्द्रबोसः प्रयोगाणां द्वारा एव प्रत्यपादयत् । सस्यानि श्वासकोशाणां साहाय्यं विना एव श्वासोच्छ्वासं कुर्वन्ति । जठरं विना एव आहारं जीर्णीकुर्वन्ति । स्नायुं विना, नाडीव्यूहं विना एव कार्याणि कुर्वन्ति । इत्यादीन् अंशान् अपि अयं जगदीशचन्द्रबोसः संशोधितवान् । "आप्टिकल् पल्स् रेकार्डर्” (Optical puls Recorder) नामकम् उपकरणं निर्माय सस्येषु प्रचलन्तीनां क्रियाणां संशोधनम् अकरोत् । तेन प्रयोगेण सस्यानि अपि विद्युत्–तरङ्गान् उत्पादयन्ति । तानि अपि श्रान्तानि भवन्ति । म्रियमाणं सस्यम् अत्यन्तम् अधिकप्रमाणेन प्रबलं विद्युत्–प्रवाहम् उत्पादयति । "इङ्गालस्य डै आक्सैड्” विना सस्यानि न जीवन्ति । किन्तु तस्य प्रमाणम् अधिकं भवति चेदपि म्रियन्ते । म्रियमाणं सस्यम् आम्लजनकस्य पूरणेन जीवयितुं शक्यते । इत्यादयः विषयाः ज्ञाताः अभवन् । मादकवस्तूनां सेवनेन सस्यानि अपि मदयुक्तानि समत्वहीनानि वा भवन्ति । तदवसरे निद्राय अनन्तरं जागरितानि भवन्ति च । जागरणस्य अनन्तरं तानि समस्थितिम् आप्नुवन्ति । सस्यानि अपि परिसरतः शक्तिं प्राप्य कार्याणि कुर्वन्ति । अवशिष्टां शक्तिं तथैव सङ्गृह्णन्ति इत्यपि सः जगदीशचन्द्रबोसः संशोधितवान् ।

क्रेस्कोग्राफ्[सम्पादयतु]

अयं जगदीशचन्द्रबोसः १९१८ वर्षे "क्रेस्कोग्राफ्” नामकम् उपकरणं निर्माय सस्यानां चलनं संशोधितवान् । एकनिमेषाभ्यन्तरे सस्यस्य शरीरे याः क्रियाः सम्भवन्ति ताः अपि अभिज्ञातुं समर्थम् आसीत् तत् यन्त्रम् । प्रख्यातः फ्रेञ्च् विज्ञानी अस्य जगदीशचन्द्रबोसस्य संशोधनानां फलितांशम् अवलोक्य “मूकान् अपि प्राणीन् अयं जगदीशचन्द्रबोसः वाक्चतुरान् अकरोत्” इति उक्तवान् आसीत् । सस्येषु जलस्य ऊर्ध्वचलनस्य सम्बद्धं "स्पन्दनसिद्धान्तं” (Pulsetion theory) १९२३ तमे वर्षे अमण्डयत् । सस्येषु जलं जीवकोशाणां द्वारा एव ऊर्ध्वमुखं गच्छति । तदवसरे सस्येषु प्राणिनां हृदये इव सङ्कुचनं विकसनं च जायते इत्यपि तस्य यन्त्रस्य द्वारा संशोधितवान् । तेषां सर्वेषां विषयाणां प्रचारार्थं पुनः पुनः बहून् देशान् अगच्छत् । १८९७ तम् वर्षे ६ मासान् यावत् इङ्ग्लेण्ड्देशे आसीत् । अयं जगदीशचन्द्रबोसः १९०० तमे वर्षे प्यारिस्–नगरे प्रचलिते "यूरोपस्य विज्ञानगोष्ठ्याम्” अपि भागम् अवहत् । तेन जापान्, अमेरिका, यूरोप् इत्यादिषु देशेषु अपि सस्यविज्ञानं प्रसृतम् । अयं जगदीशचन्द्रबोसः न केवलं विज्ञानक्षेत्रे कार्यम् अकरोत् अपि तु बङ्गालीसाहित्यक्षेत्रे अपि महत् कार्यं कृतवान् आसीत् । १९११ वर्षे प्रवृत्तस्य बङ्गालीसाहित्यसम्मेलनस्य अध्यक्षः अपि आसीत् । तदवसरे तेन जगदीशचन्द्रबोसेन “विज्ञानं तथा साहित्यम्” इति विषयम् अधिकृत्य भाषणं कृतम् आसीत् । अस्मै जगदीशचन्द्रबोसाय लण्डन्–नगरस्य रायल्-सोसैटी १९२० तमे वर्षे "फेलोशिप्” दत्त्वा सम्माननम् अकरोत् । ब्रिटिश्–जनाः अपि तस्मै "सर्” इति बिरुदम् अदास्यन् । अयं जगदीशचन्द्रबोसः १९३७ तमे वर्षे नवेम्बर्–मासस्य २३ तमे दिनाङ्के इहलोकम् अत्यजत् ।

"http://sa.wikipedia.org/w/index.php?title=जगदीश_चन्द्र_बसु&oldid=276123" इत्यस्माद् पुनः प्राप्तिः