जनतादलम्(संयुक्तम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जनतादलम्(संयुक्त)
अध्यक्षः शरद्-यादवः
निर्माणम् ३० अक्टोवर् ,२००३
निर्माणस्रोतः जनतादलम्
विचारधारा मनुष्यत्ववादः, धर्मनिरपेक्षतावादः, समाजतन्त्रम्
वर्णः हरितवर्णः
लोकसभासदस्यसंख्या
२० / ५४५
राज्यसभासदस्यसंख्या
८ / २४५
जालस्थानम्
Janatadalunited.org

जनतादलम्(संयुक्त)(JD(U) भारतीयराजनैतिकपक्षाणां समूहे अन्यतमपक्षः। जनतादलस्य उपस्थितिः मुख्यतः बिहार-झारखण्डराज्ययोः वर्तते। लोकसभायां जनतादलस्य २० सदस्याः सन्ति। जनतादलस्य मार्गदर्शकः अस्ति समाजसेवकः जार्ज फर्नान्दिस्। अस्य पक्षस्य स्थापना (३० अक्टोबर् ,२००३ वर्षे) शरद्-यादवमहोदयेन कृतासीत्। अधुनाऽपि पक्षस्य अध्यक्षरूपेण सः विराजमानः अस्ति। तथा बिहारराज्यस्यमुख्यमन्त्री नीतिशकुमारः प्रमुख-ज.द.(यु)कार्यकर्ता।

नीतिश-कुमारः
नीतिश-कुमारः

विवरणम्[सम्पादयतु]

ज.द.(यु) पक्षस्य उत्पत्तिविकासस्य च रूपरेखा वस्तुतः १९९९ लोकसभानिर्वाचनतः आरभ्यते। जनतादल-लोकशक्ति-समतापक्षाणां संयुक्तरूपस्य ज.द.(यु)पक्षस्य स्थापना २००३ तमस्य वर्षस्य अक्टोबर्मासस्य ३०त्तमे दिनाङ्के अभूत्। जनतादलस्य शरचिह्नम् एवं समतादलस्य हरितवर्णं च मेलयित्वा ज.द.(यु) पक्षस्य पताकायाः संरचना अभूत् । एवं शक्तेः एककेन्द्रीकरणं राष्ट्रियजनतादलस्य विपक्षे अभूत् । अपरपक्षे राष्ट्रियजनतादलमपि समतापक्षस्य विरोधिनं रघुनाथझामहोदयं स्वपक्षं प्रति आनयत्।

  • ज.द.(यु)पक्षः भ.ज.पा.पक्षस्य सङ्गी भूत्वा नवेम्बर्, २००५ तमे वर्षे बिहारराज्यस्य सिंहासनम् आरूढासीत्। राष्ट्रियजनतादलस्य दीर्घकालिक-सर्वकारस्य अधपतनम् अभूत्।
  • २०१३ जुन् मासस्य षोडशदिनाङ्के ज.द.(यु)पक्षः राष्ट्रियगणतान्त्रिकमैत्रीकुटात्(एन्, डि, ए) बहिरागतः। गुजरातराज्यस्य मुख्यमन्त्री-नरेन्द्र मोदीमहोदयस्य साकं विरोधत्वात् १७ वर्षपुरातनमैत्रीकुटस्य समापनम् अभवत्। अयं विषयः पक्षस्य अध्यक्षशरदयादवमहोदयेन सांवादिकसम्मेलने समुत्घोषितासीत्। भारतीयजनतापक्षस्य निर्वाचनप्रचारसमितेः अध्यक्षरूपेण नरेन्द्र मोदीमहोदयस्य नामघोषनायाः सप्ताहऽनन्तरमेव ज.द.(यु) सदस्यतात्यागं अकरोत्।

राज्यस्य आर्थिकविकासः (ज.द.(यु)काले)[सम्पादयतु]

२००२–०३: INR२,०२०,००० (US$38,000)
२००३–०४: INR२,६७०,०००(US$46,000)
२००४–०५: INR९,७२०,००० (US$170,000)
२००५–०६: INR६,४००,०००(US$110,000)
२००६–०७: INR१३,०००,०००(US$220,000)


"https://sa.wikipedia.org/w/index.php?title=जनतादलम्(संयुक्तम्)&oldid=289876" इत्यस्माद् प्रतिप्राप्तम्