जमदग्निः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

अयं कश्चन ऋषिः । अस्य पत्नी प्रसेनजितः पुत्री रेणुका । अयं मुनेः ऋचीकस्य पुत्रः । अस्य माता गाधिराजस्य पुत्री सत्यवती । जमदग्नेः रुमण्वन्तः, सुषेणः, वसुः, विश्वावसुः, परशुरामश्चेति पञ्च पुत्राः ।
रेणुका कदाचित् स्नानाय नदीतीरं गतवती आसीत् । तत्र स्वस्य पत्नीभिः सह जलक्रीडायां मग्नस्य गन्धर्वस्य चित्रतथस्य दर्शनेन मोहयुक्ता जाता । तत्रैव अधिकं समयं याप्य विलम्बेन आश्रमं प्रत्यागतवती । जमदग्निः पत्न्याः चारित्र्यविषये क्रुद्धः सन् चतुरः पुत्रान् उद्दिश्य मातरं मारयितुम् आदिष्टवान् । किन्तु ते चत्वारः अपि तूष्णीम् अतिष्ठन् । तदा जमदग्निः तान् उद्दिश्य 'जडाः भवन्तु’ इति शप्तवान् । ततः परशुरामम् आदिष्टवान् । भ्रातृभिः प्राप्तां दुर्गतिं दृष्ट्वा परशुरामः अचिरात् पितुः आदेशम् परिपाल्य आगत्य पितरं नमस्कृतवान् ।
तेन परमसन्तुष्टः जमदग्निः वरं पृच्छ्यताम् इति अवदत् । जननी पुनरुज्जीविता स्यात्, सा प्रवृत्तं न किमपि स्मरेत्, भ्रातरः पूर्वस्थितिं प्राप्नुयुः, जमदग्निः कोपं परित्यजेत् इत्येषा मम अपेक्षा इत् अवदत् पुत्रः परशुरामः । जमदग्निः स्वस्य सम्मतिम् असूचयत् ।
जमदग्निः कार्यवीर्यस्य पुत्रेण शूरसेनेन हतः जातः । अयम् इदानीं प्रवर्तमानस्य वैवस्वतमन्वन्तरस्य सप्तर्षिषु अन्यतमः । अयं गोत्रप्रवर्तकः अस्ति ।

जमदग्नि


प्रकार हिन्दू पुराणे, जमदग्नि सप्त महर्शयोहो एकम् अस्ति, प्रस्तुत मन्वन्तर:। ते विश्नुवस्य षट् अवतारे परशुरामस्य पित: । सृष्टि कर्ता ब्रह्मेण सृष्ट्य प्रजापत्याम् एकम् भ्रुगॊ: वम्शस्तह् आसीत्। जमद्ग्निम् पत्नि रॆणुकाभ्याम् स: पन्च शिशॊ: सन्ति, तॆभि: कनिष्ट: विश्णॊ: अवतारात् परशुराम:। जमदग्नि कॊपि शिक्षणम् लभ्यम् नास्ति परन्तु धर्मज्रन्थानि, शत्रास्त्राणि च ज्ञानम् उत्त्मम् अस्ति।

आरम्बिक जीवनम्

ऋषि भ्रुगॊ: सन्तति: जमदग्नि अक्षरस: ज्वालाम् खादितुम् इति अर्थम्, स: रिचिक: च गादी नाम क्षत्रियराजस्य पुत्री सत्यवति तस्या: जनित:। स: वर्धमान समये स्वप्रयत्नेन अथि कष्ट प्रयत्नम् क्रुत्वा फलात् पाण्दित्यम् साधितवान्। स: कॊपि शिक्षणम् लभ्यम् नास्ति परन्तु शत्रास्त्रात् विज्ञानम् ज्ञानम् सम्पादितवान्।

"https://sa.wikipedia.org/w/index.php?title=जमदग्निः&oldid=447550" इत्यस्माद् प्रतिप्राप्तम्