जयपुरम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(जयपुर इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
जयपुरम्
जयपुरम्
पाटलनगरम्
—  Metropolitan City  —
Clockwise from top: Jal Mahal, Lakshmi-Narayan Temple, Albert Hall, Hawa Mahal, Jantar Mantar
उपनाम(नि): पाटलनगरम्
जयपुरम् is located in Rajasthan
जयपुरम्
Coordinates: 26°55′34″N 75°49′25″E / 26.9260°N 75.8235°E / 26.9260; 75.8235
Country  भारतम्
State राजस्थानम्
District जयपुरम्
Settled November 18, 1727
संस्थापकः Maharaja Ram Seo Master II
Named for Maharaja Swai Jai Singh II
सर्वकारः
 • प्रकारः Democratic
 • Mayor Jyoti Khandelwal (INC)
 • Police commissioner B.l soni
विस्तीर्णम्
 • Metropolitan City ११,११७.८ Square km (४,२९२.६ Square mile)
औन्नत्यम्
जयपुरम्
जनसङ्ख्या (2011)
 • Metropolitan City
 • नगरप्रदेशः ३४
 • ग्रामीणप्रदेशः ३१
 • Metro rank [[
IST (UTC+5:30)
ZIP code(s) 302 0xx
Area code(s) 91141-XXXX XXXX
वाहनपञ्जीकरणम् RJ-14
Spoken languages Hindi, Rajasthani, English
Primary Airport Jaipur International Airport (Major/International)
जालस्थानम् www.jaipur.nic.in

जयपुरं (हिन्दी: जयपुर, आङ्ग्ल: Jaipur) भारतस्‍य राजस्थानराज्यस्य राजधानी अस्‍ति । इदं नगरं राजस्थानराज्ये स्थितस्य जयपुरमण्डलस्य केन्द्रमपि । 'गुलाबीनगर' इति प्रसिद्धम् एतन्नगरम् । ऐतिहासिकम् आमेरनामकं नगरम् अस्य समीपे अस्ति । इदं विश्वस्य सुन्दरतमनगरेषु अन्यतमम् । जयपुरं भारतवर्षस्य एकं सुनियोजितं नगरम् अस्ति । महाराज: जयसिंह: एतत् नगरं १९७२ तमे वर्षे संस्थापितवान् ।

जयपुरं – सुन्दरनगरम्[सम्पादयतु]

राजस्थानराज्यस्य राजधानी अस्ति जयपुरनगरम् । क्रिस्ताब्दात् १८ शतकादपि एतत् नगरम् अतीव समृद्धम् अस्ति । एतत् नगरं पाटलनगरम् ('पिङ्कसिटी') इत्यपि कथयन्ति । महाराजः सवाई जयसिंहः क्रिस्ताब्दस्य १७२७-२८ तमे वर्षे अस्य नगरस्य निर्माणं कृतवान् । नगरस्य विन्यासः चतुर्भुजाकारे अस्ति । नगरप्रवेशाय सप्त द्वाराणि सन्ति । चान्दपोल, सङ्गनेरी, अजमेरी च मुख्यद्वाराणि सन्ति । जयपुरनगरे उष्ट्रवाहनानि दृश्यन्ते । सर्वत्र पाटलवर्णयुक्तानि भवनानि सन्ति । राजगृहाणां नगरमिदम् । राजगृहाणि राजस्थानी तथा 'मुघल' संयुक्तशैल्या निर्मितानि सन्ति । अनेकानि सुन्दराणि उद्यानानि नगरे सन्ति । नगरस्य त्रिदिशासु पर्वतावल्यः सन्ति । नगरस्य मध्यभागे राजगृहम् अस्ति । नगरे विस्तृताः राजमार्गाः निर्मिताः सन्ति । अनेकत्र वृत्तानि ('चौपड') निर्मितानि सन्ति । उत्तरतः दक्षिणं, पूर्वतः पश्चिमं सुव्यवस्थिततया मार्गाः निर्मिताः सन्ति । नगरस्य भवनानि रक्तानि अथवा पाटलवर्णयुक्तानि सन्ति । सूर्यास्तसमये एतानि सुन्दरतया प्रकाशन्ते । प्रतिवर्षं लक्षाधिकजनाः अस्य नगरस्य दर्शनाय गच्छन्ति । जयपुरस्य आभूषणानि न केवलं भारते, अपि तु समग्रे विश्वे सुप्रसिद्धानि सन्ति ।

जयपुरे दर्शनीयानि स्थलानि[सम्पादयतु]

सिटीप्यालेस्[सम्पादयतु]

नगरे स्थितं राजगृहम् एतत् । एतत् 'राजमहल्' इत्यपि कथयन्ति । सप्तस्तरीयं राजगृहमेतत् । 'चन्द्रमहल्' इति अस्य अपरं नाम । राजगृहे एकत्र युद्धसामग्र्यः सङ्गृहीताः सन्ति । अन्यत्र वस्तुसङ्ग्रहालये कलावस्तूनि, मुघलचित्राणि, वस्त्रोद्यमसम्बद्धानि वस्तूनि, आभूषणानि, राजपुत्राणां शस्त्रास्त्राणि च सङ्गृहीतानि सन्ति । राजगृहे 'दिवान् –ए-खास्' नामकं सार्वजनिकसभाङ्गणं रमणीयम् अस्ति । अस्य भवनस्य विविधभागेषु भित्तिचित्राणि, लताः, पुष्पाणि, दर्पणविशिष्टालङ्करणानि, घटीयन्त्राणि, घटीयन्त्रगोपुरं, 'मुबारकमहल्' च आकर्षणीयानि । अत्र जलपानपात्राणि रजतनिर्मितानि सुन्दराणि सन्ति । राजगृहं परितः तृणावृतस्थलं, लघुसरोवराः, मकरालयसरः, शिलानिर्मितखाताः, 'वेनिस्'-देशस्य St Marks वृत्तस्य स्मरणं कारयन्ति । जलोत्सांसि जलपाताः कृतकतया निर्मितानि सन्ति । एतानि सायङ्काले अतीव मनमोहकानि भवन्ति ।

जन्तर-मन्तर[सम्पादयतु]

जयपुरनगरे अत्यन्तं प्रसिद्धं जन्तर-मन्तर भवनं (ज्यौतिषसम्बन्धी यन्त्रालयः, खगोलवीक्षणालयः च) महाराजः जयसिंहः निर्मितवान् । जयसिंहः स्वयं गणितज्योतिषविद्वान् आसीत् । अत्र ग्रहाणां चलनं, ग्रहणदर्शनं, सूर्यप्रकाशेन समयज्ञानम् इत्यादिकं ज्ञानं प्राप्तुं शक्यते । एतादृशानि खगोलवीक्षणभवनानि देहली, वाराणसी, उज्जयिनी इत्येषु नगरेषु अपि सन्ति ।

रामविलासोद्यानम्[सम्पादयतु]

'आल्बर्ट् हाल् म्यूसियम्' इति अस्य अपरं नाम अस्ति । जयपुरे दक्षिणभागे रामविलास-उद्यानवनमस्ति । अत्र 'आल्बर्टहाल्' नामकः सुन्दरः वस्तुसङ्ग्रहालयः क्रिस्ताब्दे १८३३ तमे वर्षे स्थापितः अस्ति । अत्र आभरणानि, काष्ठशिल्पानि, लोहशिल्पानि, मृन्निर्मितानि वस्तूनि, वेषभूषणानि च सन्ति । एकः मृगालयः अपि अत्र अस्ति । समीपे एव आधुनिकः वस्तुसङ्ग्रहालयः अपि अस्ति । अत्र राजस्थानस्य संस्कृतिदर्शकानि नाणकानि, लोहपात्राणि, हस्तिदन्तेन निर्मितानि वस्तूनि, शिलामूर्तयः, काष्ठदन्तयुक्तानि शिल्पानि सन्ति ।

अम्बरदुर्गः[सम्पादयतु]

एषः दुर्गः प्राचीनराजधानी आसीत् । जयपुर-तः ११ कि मी दूरे पर्वतप्रदेशे अम्बरदुर्गः अस्ति । प्राचीनकाले एतत् स्थलं महाराजानां राजधानी आसीत् । पर्वतारोहणाय अनेकानि द्वाराणि प्रविश्य पर्वतारोहणं करणीयं भवति । राजा सवाई मानसिंहः क्रिस्ताब्दे १५९२ तमे वर्षे एतं दुर्गं निर्मितवान् । एषः अक्बरनामकमुघलराज्ञः सेनायां सेनापतिः आसीत् । अत्र पर्वतप्रदेशे हरितरक्तशिलाभिः निर्मितानि भवनानि सन्ति । विविधवर्णैः निर्मितः कदलीवृक्षः अतीवसुन्दरः अस्ति । 'दिवान् ए खास्' (अन्तर्भवनं), 'शीशमहल्' इत्यादीनि अपूर्वाणि सन्ति । शिलादेवीमन्दिरम् अपि अतीवसुन्दरम् अस्ति । एतेषां प्रतिबिम्बानि पुरतः स्थिते सरोवरेऽपि दृष्टुं शक्यन्ते । सरोवरमध्ये 'जलमहल्' अस्ति । अम्बरपर्वते गजारोहणपूर्वकं वा पादचारणेन वा पर्वतारोहणं कर्तुं शक्यते । पर्वते स्थितं कनकवृन्दावनं मथुरावृन्दावनमिवास्ति । मन्दिरस्य द्वाराणि, अट्टः च वास्तुशिल्पयुक्तानि सन्ति । समीपे 'गयटोर्', 'जलमहल्', विद्याधरवाटिका इत्यादीनि आकर्षकस्थानानि सन्ति । जयपुरे सर्वत्र राजपुत्राणां, महाराजानां च शिलाप्रतिमाः स्थापिताः सन्ति ।

गोपालमन्दिरम्[सम्पादयतु]

'शीशमहल्' समीपे महाकालीमन्दिरमस्ति । कृष्णशिलामूर्तिः आकर्षणीयास्ति । अम्बरपर्वतस्य पश्चात् भागे अधः गिरिधरगोपालमन्दिरमस्ति । परमभक्ता मीराबाई अत्रैव गिरिधरगोपालरूपस्य श्रीकृष्णस्याराधनां कृतवती । देवालये नर्तनशीलाः बालिकाः, अश्वपङ्क्तिः, गजपङ्क्तिः इत्यादिकं सुन्दरम् अस्ति । गर्भगृहे विष्णोरवतारस्य कृष्णस्य, तस्य परमभक्तायाः मीरायाः च विग्रहः अतीवसुन्दरः अस्ति ।

जयपुरे जैनमन्दिराणि अपि सन्ति । महावीरमन्दिरं सुन्दरं, प्राचीनं च मन्दिरम् अस्ति ।

नाहरगढ[सम्पादयतु]

जयपुर-तः अष्ट कि. मी. दूरे पर्वतप्रदेशे सुन्दरः दुर्गः अस्ति । ५०० पादोन्नतप्रदेशे स्थितः एषः दुर्गः ‘जयपुरस्य स्वर्णकिरीटम्’ इति कथ्यते । विशेषसमये अत्र दीपालङ्कारं कुर्वन्ति । द्विस्तरे राजगृहेऽस्मिन् नव अन्तःपुराणि सन्ति । तेषां नामानि 'ललितप्रकाश', 'चन्द्रप्रकाश', 'सूर्यप्रकाश' इत्येवं काव्यमयानि सन्ति । नाहरगढ-समीपे सिसोदियाराज्ञी-उद्यानं, जयगढदुर्गः च अस्ति ।

मार्गाः[सम्पादयतु]

विमानमार्गः[सम्पादयतु]

जयपुराय देहली, मुम्बई, अहमदाबाद, कोलकता, औरङ्गाबाद् (महाराष्ट्रम्) इत्यादिनगरेभ्यः विमानसम्पर्कः अस्ति ।

धूमशकटमार्गः[सम्पादयतु]

देहली-तः 'पिङ्कसिटी एक्स्प्रेस्' यानम् अस्ति । मुम्बई-तः 'चेतकएक्स्प्रेस्' धूमशकटयानमस्ति । चेन्नै, अजमेर इत्यादिनगरेभ्यः साक्षात्सम्पर्कः अस्ति ।

वाहनमार्गः[सम्पादयतु]

'पिङ्कलैन्', 'सिल्वर्लैन' वाहनानि अहोरात्रं राजस्थानराज्ये, राजस्थानतः देहली, आग्रा इत्यादीनां नगराणां दर्शनाय च सञ्चरन्ति । जयपुरनगरे उत्तमवसतिभोजनादिव्यवस्था अस्ति । मुम्बई-तः ११७६ कि.मी, देहली-तः ३०६ कि.मी, आग्रा-तः २३६ कि.मी, अहमदाबाद-तः ७०७ कि.मी दूरे अस्ति इदं नगरम् । प्रवासव्यवस्थापि अस्ति अत्र ।

"http://sa.wikipedia.org/w/index.php?title=जयपुरम्&oldid=256622" इत्यस्माद् पुनः प्राप्तिः