जलमालिन्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
नालेषु मलिनता

जलमालिन्यं (Water pollution) प्रमुखेषु परिसरमालिन्येषु अन्यतमं विद्यते । सरोवराः, नद्यः, समुद्राः इत्यादिषु अनपेक्षितानां वस्तूनां संयोगेन जलमालिन्यं भविष्यति ।

परिसरसंरक्षणस्य आवश्यकता[सम्पादयतु]

अस्मिन् दशके अस्माकं भूमण्डलस्य परिसरस्य प्रदूषणं विषयीकृत्य सर्वेषु राष्ट्रेषु बहुभिः नेतृभिः प्राज्ञैः वैज्ञानिकैः पौरजनैः विशेषेण चर्चा प्रचालिता । परिसरस्य प्रदूषणं विविच्य विविधया दृष्ट्या एते प्रविभागाः प्रवृत्ताः - जलमालिन्यं, वायुमालिन्यं, शब्दमालिन्यं, भूमालिन्यम्, आम्लवर्षणम् इत्यादयः । सर्वस्यापि भूमण्डलस्य परिसरस्तावत् एक एव । सः पुनः निर्मातुं न शक्यते । अतः परिसररक्षणे एव यत्नः सर्वैः विधेयः ।

जलस्य महत्त्वम्[सम्पादयतु]

वैज्ञानिकानाम् अभिप्रायेण जलम् इति द्रवरूपः पदार्थः आम्लजनक-जलजनकयोः संयोगेन सम्भवति ।

मालिन्यवर्धकानि कतिचन वस्तूनि

भूतलस्य प्रायः प्रतिशतं सप्ततिभागः जलेनैव आवृतः । भूतले विद्यमानस्य जलस्य प्रतिशतं नवतिभागः समुद्रेषु एव दृश्यते । मानवशरीरेऽपि प्रतिशतं षष्टिभागः जलेनैव पूरितः । जलेन विना मानवानां जीवनम् अतीव दुष्करं भवति ।

पृथिव्यां विद्यमानस्य जलस्य मूलानि वर्षा, हिमः, नद्यः, सरितः, पल्वलानि, भूमावन्तर्गतं जलम् इत्येतानि भवन्ति ।

पृथिव्यामुपलभ्यमानस्य जलस्य द्विप्रतिशतभागस्य अपेक्षया न्यूनमेव प्राणिनां मनुष्याणां च जीवनोपयोगाय योग्यं भवति ।

जलस्य मालिन्यम्[सम्पादयतु]

जले यदा अनपेक्षितानि हानिकारकाणि विषयुक्तानि रासायनिकवस्तूनि, आम्लानि, तैलादीनि विलीयन्ते, तदा तादृशं जलं जीविनां प्राणधारणाय योग्यं न भवति । इदं जलमालिन्यम् इत्युच्यते ।

जलमालिन्यस्य एतानि प्रमुखानि कारणानि -पेट्रोलियम् तैलम्, डि.डि.टि इत्यादयः कीटनाशकाः, पि.सि.बि (पालि क्लोरिनेटड् बैफीनैल्) रासायनिकाः कीटनाशकाः, पारदः, क्याङ्मियम् आर्सैनिक् इत्यादिलोहाः, अणुशक्तिकारागारेभ्यः निसृतानि अनुपयोगीनि वस्तूनि नगरेभ्यः बहिः निष्कासितानि फेनकानि, तत्र प्रमुखानि । एवं विविधानि रासायनिकानि जलमालिन्यं कुर्वन्ति । जलजन्तूनां प्राणधरणाय जले वीलीनः आम्लजनकः अत्यावश्यकः । एतानि लवणानि जले विलीनं भूय आम्लजनकानिलं दुर्बलं कुर्वन्ति । एवं तस्मिन् मलिने जले जलजन्तवः जीवितुम् अशक्ताः भवन्ति म्रियन्ते च ।

जलं बहूनां लवणानां द्रावकम् । यदा जले विषयुक्तानि लवणानि विलीनानि, ताद्दशं जलं मनुष्यैः उपयुज्यते, तदा एते विषाः मनुष्याणां शरीरं प्रविशन्ति तेन च अश्रुता अज्ञातपूर्वाः रोगाः भवन्ति ।

भारतदेशे पूज्यायां गङ्गानद्यां यमुनायां च नगरीयैः कार्यागारैः निःसृतेभ्यः दूषणेभ्यः प्रतिदिनं जलमालिन्यं प्रभूतं सञ्जायते । अनेन नदीजलम् उपयोगाय अनर्हं भवति ।

समुद्रजलस्य मालिन्यात् मीनाः अन्ये समुद्रजीविनः नितरां क्लिश्यन्ति, म्रियन्ते च । अन्तर्जलस्य प्रदूषणात् भूमेः उष्णतायाः जलस्थित्याः व्यत्ययः भवति येन वर्षाचक्रे व्यत्ययाः भवन्ति ।

जलमालिन्यं रोद्धुं बहवः प्रयत्नाः प्रशासनेन विद्येयकद्वारा योजिताः । ‘जलमालिन्यनियन्त्रणार्थं, तत्कृते प्रशासनस्यैकः विभागः तत्परः अपि च वर्तते ।

मलिनजलस्य स्रावेन नानाविधाः रोगाः जायन्ते । ताम्रम्, क्याड्मियम्, कोबाल्ट् लवणैः दूषितस्य जलस्य उपयोगेन क्यान्सर्, नररोगाः हृदयरोगाः जायन्ते । प्रदूषितजले स्नानकरणात् चर्मरोगाः प्रजायन्ते । पारद-लोहेन तत्संयुक्तलवणैश्च प्रदूषितस्य जलस्य सेवनात् "मिनिमा" इति नूतनः रोगः जायते । पारदेन प्रदूषितस्य जलस्य सेवनेन जपान् देशे क्रिस्ताब्दे १९५६ वर्षे मिनिमाट इति ग्रामे केचन जनाः नेत्रहीनाः बभूवुः । केचन उन्मत्ताः जाताः । केचन शरीरभागानां निश्चेष्टतां प्रापुः । एताद्दशरोगस्य हेतुपरिशीलनात्-पारदप्रदूषितस्य जलस्य सेवनेन एवं भवतीति ज्ञातम् । तदारभ्य एतादृशरोगस्य मिनिमाट -इत्येव निर्देशः कृतः ।

सर्वे स्वास्थ्यहेतोः शुद्धं जलमेव पिबेयुः । जलमालिन्यस्य नियन्त्रणाय सततं प्रयत्नः करणीयः।

संस्कृतभाषायां जल्स्य जीवनमिति पर्यायपदं भवति । एवं जलमालिन्यं नाम जीवनमालिन्यमित्येव ।

जलमालिन्यस्य कारणानि[सम्पादयतु]

जल-प्रदूषणस्य बहूनि कारणानि भवन्ति, परं मुख्यतया मानवाः एवास्य कारणीभूतः अस्ति । जनाः अस्योपयोगः समुचितरुपेण न कुर्वन्ति, अप्राकृतिकं कृत्यं कुर्वन्ति, जनसंख्या- वृध्दयाऽपि, प्रदूषणं भवति, औद्योगिकविस्तारेणापि प्रदूषणं भवति । सम्प्रति क्रमशः अस्य कारणानि प्रस्तूयन्ते ।

  1. मनुष्याणां दैनिककृत्यम् – वयं प्रतिदिनं स्नानं कुर्मः, वस्त्रं प्रच्छालयामः पाकं कुर्मः, शोचादिकञ्च कुर्मः । एतानि सर्वाणि कार्याणि जलेनैव भवति । परमितः परं तज्जलं प्रदूषितं भवति । तेन जलेन न किमपि कर्तुं शक्यते अस्माभिः । इदं प्रदूषितं जलं यदि समीचीनतया न विसृज्यते तर्हि इदं मुख्यजलस्त्रोतेन सह मिलित्वा तं प्रदूषयति । अर्थात् यस्य जलस्य उपयोगः वयं कुर्मः तेषां समीचीनं विसर्जनं न भवति । यथा कूपं, नलकूपं पार्श्वे एव वयं स्नानं कुर्मः अथवा तत्रैव तस्य जलस्य बहिर्गमनाय नलिकां (सीवर) कुर्मः, उच्छिष्ट –जलकुण्डं कुर्मः । एतेन नलकूपस्य, कूपस्य च जलं प्रदूषितं भवति । इदं कारणं सर्वप्रमुखं कारणमस्ति ।
  2. औद्योगिकम् अपशिष्टम्- औद्योगिकप्रतिष्ठानेषु यस्य जलस्य उपयोगः भवति उपयोगानन्तरं तस्मिन् अपशिष्टे जले लवणं, क्षारम्, आम्लं, विविधं गैसं च मिश्रितं भवति । अपि च तस्य औद्योगिक-अवशिष्टमिश्रितजलस्य विसर्जनं जलस्त्रोतेषु, नदिषु, तडागेषु, सरोवरेषु च भवति, येषां जलस्रोतस्थानां जलस्य उपयोगः मानवाः, पशवः, वनस्पतयः कुर्वन्ति । परं जलमिदं प्रदूषितं भवति अनया प्रक्रियया ।
  3. अपमार्जकस्योपयोगः- औद्योगीकरणस्य प्रतिफलं भवति यत् स्वच्छतायै विविधानामपमार्जकानां आविष्कारः जगति संजातः । एतेषामुपयोगः दिनामुदिनं वृध्दिं प्राप्नोति । अनेन कार्यद्वयं भवति । अपमार्जकयुक्तं जलं साक्षात् मुख्यजलस्रोतेषु मिलति अथवा पार्श्वविसर्जनेन परोक्षरुपेण जलस्रोतेषु मिलति । फलतः जलस्य उपरिभागे कश्चन आवरणस्वरुपम् आवरणिकायाः निर्माणं भवति । अर्थात् जलस्रोतानां जलमपमार्जकस्यावरणेन आवृतं भवति । तेन सूर्यस्य प्रकाशः जले प्रवेष्टुं नार्हति । परिणामतः जले पूर्णरुपेण आक्सीजनस्य मिश्रणं भवितुं नार्हति । जलं च प्रदूषितं भवति । आक्सीजनस्याभावे # कृषिरसायनम्- जनसंख्यावृध्द्या जगति खाद्यान्नस्य अभावः संजातः । खाद्यान्नस्य आपूर्यते जनाः कॄषिकार्येषु उर्वरकस्य उपयोगः अधिकतया कुर्वन्ति । ते उर्वरकाः शस्यानां कृते तु लाभदायकाः भवन्ति, परम् अस्माकं कृते हानिकराः भवन्ति । कृषिक्षेत्रेषु तेषामुर्वरकानाम् अवशिष्टाः, अपशिष्टाः वर्षामाध्यमेन विविधेषु जलस्रोतेषु मिलति । फलतः तत्र कार्यद्वयं भवति । प्रथमं तु जलस्रोतानां जलम् आवृतं भवति येन जलेषु आक्सीजनस्याभावः भवति अपि च द्वितीयः जले जलीय वनस्पतीन् उर्वराशक्तिं प्रदाय तान् वर्धयति, येन जलस्थस्य आक्सीजनस्य क्षयः भवति । फलतः जलं प्रदूषितं भवति ।
  4. कीटनाशकरसायनम्- प्रायः सर्वत्र कृषिक्षेत्रेषु कीटेभ्यः शस्यानां संरक्षणार्थं विविधकीटनाशकरसायनानामुपयोगः भवति । शस्यानां रक्षा तु भवति । परम् इदं रसायनोपशिष्टं वर्षामाध्यनेन विविधेषु जलस्रोतेषु मिलति । अनेन जलस्रोतानां जलं प्रदूषितं भवति । यतः इदं रसायनं जीवाय हानिकरं भवति ।
  5. औद्योगिकतापीय – प्रदूषणम् – कानिचन औद्योगिकप्रतिष्ठानानि एवं भवन्ति यत्र उपकरणानां शितलीकरणाय जलस्यावश्यकता भवति । परमुपयोगानन्तरम् इदं जलं महदुष्णं भवति । अपि च इदमूष्णतमं जलं साक्षात् जलस्रोतेषु मिलति । फलतः जलस्रोतानां जले तापवृध्दिः भवति । अतस्तेन जलीय-जीवानां मृत्युः भवति । अपि च जलं प्रदूषितं भवति ।
  6. खनिजतैलम् –खनिजतैलमाध्यमेन त्रिप्रकारकं जल प्रदूषणं भवति । प्रथमं जलमार्गेण खनिजतैलस्य आयातं निर्यातं वा भवति । तत्र कदाचित् दुर्घटनया जलयानेन जले तैलस्य मिश्रणं भवति । द्वितीयं पृथ्व्यामपि कदाचित् तैलं पतति । तत्तैलमपि वर्षादि विभिन्न- माध्यमेन जलस्रोतेषु मिलति । तृतीयं पृथिव्यां बहुत्र खनिजतैलस्य लघुभण्डारः वर्तते। सर्वत्र तैलनिष्काषणं सम्भवं नास्ति । तैलनिष्काषणे यत् परिमाणं व्ययाधिक्यं भवति तत्परिमाणं तैलं न प्राप्यते । फलतः सः भण्डारः तत्रैव स्थित्वा पार्श्वे स्थितानि जलस्रोतांसि प्रदूषयति ।
  7. शवप्रवाहः –अस्योदाहरणं वाराणस्यां द्रष्टुं शक्यते यत् गंगायां कश्चन शवः सम्पूर्णः प्रवहति, कश्चन अर्ध्दद्ग्धः, अपि च कश्चन दग्धः । वस्तुतः अस्माकं धार्मिकमान्यतानुसारेण शवप्रवाहः क्रियतेऽस्माभिः । तत्र दीनाः काष्ठाभावत् साक्षात् शवं प्रवाहयति, अर्ध्ददग्धं शवं प्रवाहयति तथा सक्षमाः शवदाहोपशिष्टं प्रवाहयति नद्याम् । एवं प्रकारेण जलं प्रदूषितं भवति ।

एतदतिरिक्तमपि बहूनि कारणानि सन्ति येन जलं प्रदूषितं भवति । येषां कारणानामुल्लेखः अत्र न क्रियते । यतोहि दिनानुदिनं नूतनं कारणं विकसति । सम्प्रति विचार्यते यत् कानि तत्वानि जले तिलन्ति येन जलं प्रदूषितं भवतीति ।

शुध्दीकरणोपायाः –(Ways to Reclaim Pure Water.)[सम्पादयतु]

प्राचीनोपाया – Traditional Methods.[सम्पादयतु]

क. वस्त्रेण शुद्धीकरणम्
ख. काष्ठकोयलामाध्यमेन शुद्धीकरणम्
ग. ताम्रपात्रे स्थापनम्
घ. पाचनम्
ङ. सूर्यप्रकाशेन शुद्धीकरणम्

आधुनिकोपायाः(Modern Methods)[सम्पादयतु]

क. कूपेषु पोटैशियम् परमेङनेटं,. फिटकिरिं वा समये- समये प्रदाय शुद्धीकरणम् । कूपानां पुनरुद्धारः । स्वच्छकरणम् । कूपान् आवरणेन आच्छादनम् ।
ख. बहिर्तः आगतानां जलानामवरोधनम् ।
ग. अवशिष्टजलनलिकाः (शीवर) जलस्रोतस्य पार्श्वे न स्युः ।
घ. तडागेभ्यः नियमितरूपेण मृत्तिकाकर्तनम् ।
ङ. आधुनिक फिल्टर पद्धतिमाध्यमेन शुद्धीकरणम् ।

मुख्यरुपेण जलशुद्धीकरणस्य त्रयः वैज्ञानिक विधयः संक्रियादृष्ट्या अङ्गीक्रियन्ते । ते सन्ति भौतिकविधयः, रसायनिकविधयः, यान्त्रिकविधयश्च । परम् एतत् सर्वं तु प्रदूषणात्परं भवति । सर्वश्रेष्ठं तु भवति प्रदूषणनियन्त्रणम् । अर्थात् प्रदूषणस्य एव यदि नियन्त्रणं भवेत्, तर्हि इयं समस्या नागमिष्यति । अतोऽत्र केचन जलप्रदूषणस्य नियन्त्रोपायाः प्रसूयन्ते । यस्मिन् क्रमे प्रदूषणस्य कारणानि उल्लिखितानि वर्तन्ते अध्यायेस्मिन् तस्मिन्नेव क्रमेण नियन्त्रणोपायाः अपि लिख्यन्ते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  • "Troubled Waters"-video from "Strange Days on Planet Earth" by National Geographic & PBS
  • "Issues: Water" – Guides, news and reports from US Natural Resources Defense Council

Analytical Tools and Other Specialized Resources

"http://sa.wikipedia.org/w/index.php?title=जलमालिन्यम्&oldid=247439" इत्यस्माद् पुनः प्राप्तिः