जेम्स् डि व्याट्सन्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
James Dewey Watson

James Dewey Watson
जननम् अप्रैल ६, १९२८ (1928-04-06) (वयः ८६)
Chicago, United States
देशीयता American
कार्यक्षेत्राणि Genetics
संस्थाः Cold Spring Harbor Laboratory
Harvard University
University of Cambridge
National Institutes of Health
मातृसंस्थाः University of Chicago
Indiana University
संशोधनमार्गदर्शी Salvador Luria
विषयेषु प्रसिद्धः DNA structure
Molecular biology
प्रमुखाः प्रशस्तयः Nobel Prize for Physiology or Medicine (1962)
Copley Medal (1993)[१]
पतिः/पत्नी Elizabeth Watson (née Lewis)
हस्ताक्षरम्

(कालः - ०६. ०४. १९२८)

अयं जेम्स् डि. व्याट्सन् (James D. Watson) सुप्रसिद्धः वंशशास्त्रस्य (आनुवंशिक) विज्ञानी । अयं जेम्स् डि. व्याट्सन् "द्विचक्रकस्य रचनायाः” संशोधकेषु अन्यतमः । अयम् इलियान्–संस्थानस्य शिकागोप्रदेशे १९२८ तमे वर्षे एप्रिल्मासस्य ६ दिनाङ्के जन्म प्राप्नोत् । एषः बाल्यात् आरभ्य अपि अत्यन्तं बुद्धिमान् आसीत् । १५ वयसि एव शिकागोविश्वविद्यालयं प्राविशत् । १९४७ तमे वर्षे पदवीं, १९५० तमे वर्षे इण्डियानविश्वविद्यालयतः "डाक्टरेट्”–पदवीं च प्राप्नोत् । अस्य जेम्स् डि. व्याट्सनस्य आसक्तिः आसीत् पक्षिविज्ञाने । किन्तु तस्मिन् एव विश्वविद्यालये विद्यमानस्य प्रतिभावतः विज्ञानिनः हेच्. जे. मुल्लरस्य प्रभावेण जीवरसायनशास्त्रस्य, वंशविज्ञानस्य च अध्ययनम् अकरोत् । वर्षं यावत् कोपन्हेगन्–विश्वविद्यालये कार्यं कृत्वा १९५१ तमे वर्षे केम्ब्रिड्ज्–विश्वविद्यालयं प्राविशत् ।


एषः जेम्स् डि. व्याट्सन् केम्ब्रिड्ज्–विश्वविद्यालये फ्रान्सिस् एच् सि क्रिक् इत्यनेन सह "डी एन् ए"-अणोः रचनायाः विषये दीर्घकालं संशोधनम् अकरोत् । तयोः संशोधनस्य निमित्तम् अपेक्षितं साहाय्यम् आचरितवान् मारीस् एच् विल्किन्स् नामकः भौतविज्ञानी । तदनन्तरम् अमेरिकादेशं प्रतिनिवृत्तः जेम्स् डि. व्याट्सन् वर्षद्वयं यावत् क्यालिफोर्नियातन्त्रज्ञानसंस्थायां (Caliphornia Institute of Tecnology) कार्यम् अकरोत् । ततः १९५५ तमे वर्षे प्राध्यापकरूपेण हार्वर्ड्–विश्वविद्यालयं प्राविशत् । अयं जेम्स् डि. व्याट्सन् १९६२ तमे वर्षे वैद्यकीयं तथा शरीरक्रियाविज्ञानस्य विभागे सहोद्योगिना फ्रान्सिस् हेच्. सि. क्रिकेन, तथा मार्गदर्शकेण मारीस् हेच्. विल्किन्सेन च सह "नोबेल्”–पुरस्कारं प्राप्नोत् । अयं जेम्स् डि. व्याट्सन् यदा केम्ब्रिड्ज्–विश्वविद्यालयं प्रति संशोधकरूपेण गतवान् तदा अस्य प्रतिभाम् अभिज्ञातवान् फ्रान्सिस् हेच्. क्रिक् एतं स्वेन सह संशोधनार्थम् अचिनोत् । वस्तुतः तयोः विलक्षणः स्नेहः । जेम्स् डि. व्याट्सन् अत्यन्तं मितभाषी, फ्रान्सिस् हेच्. सि. क्रिक् तु अतिभाषी । फ्रान्सिस् हेच्. सि. क्रिक् भौतविज्ञानी, जेम्स् डि. व्याट्सन् वंशशास्त्रस्य विज्ञानी । ताभ्यां द्वाभ्यां मिलित्वा कृतस्य कार्यस्य फलम् एव "व्याट्सन्–क्रिक्–चक्रकयुग्मम्” ।

वंशविज्ञानस्य आधारं कल्पितवान् ग्रिगोर् जान् मेण्डेल् नामकः विज्ञानी ’गुणलक्षणानि वंशश्रेणीतः वंशश्रेणीं प्रति निर्दिष्टानां नियमानाम् अनुसारम् एव गच्छन्ति’ इति उक्तवान् आसीत् । तदनन्तरं तद्विषये संशोधनं कृतवन्तः विज्ञानिनः वर्णतन्तवः (क्रोमोजोन्स्) कोशकेन्द्रेषु (न्यूक्लियस्) भवन्ति । निर्दिष्टसंख्यानां वर्णतन्तवः निर्दिष्टे प्रभेदे एव भवन्ति । कस्यापि जीविनः वर्णतन्तुषु अर्धभागः पितृपक्षतः, अर्धभागः मातृपक्षतः आगताः भवन्ति । सर्वस्मिन् अपि वर्णतन्तौ निर्दिष्टगुणस्य कारणीभूतः गुणाणुः (जीन्) भवति इत्यादीन् विषयान् संशोधितवन्तः । एते त्रयः (जेम्स् डि. व्याट्सन्, फ्रान्सिस् हेच्. सि. क्रिक्, मारीस् हेच्. विल्किन्स् च) तान् एव विषयान् आधारीकृत्य संशोधनस्य अनुवर्तनम् अकुर्वन् । तादृशेषु गुणाणुषु निहितं प्रकृतेः रहस्यं ज्ञातव्यं चेत् गुणाणोः रचना ज्ञातव्या आसीत् । यदा अयं जेम्स् डि. व्याट्सन् अमेरिकातः नेपल्स् प्रति मारीस् हेच्. विल्किन्सस्य सूचनां, विवरणं च प्रष्टुम् आगतः आसीत् तदा "डि एन् ए" अणोः क्ष-किरणचित्राणि अपश्यत् । तस्मिन् चित्रे तत्र तत्र छाया दृष्टा । तदा तन्मध्ये किम् अस्ति इति संशोधितं चेत् "डि एन् ए" अणोः रचना ज्ञायेत इति अभासत अस्य जेम्स् डि. व्याट्सनस्य ।


अयं जेम्स् डि. व्याट्सन् मूलतः जीवविज्ञानी । तस्मात् कारणात् तस्य क्ष-किरणानां विषये तावत् ज्ञानं न आसीत् । अतः सः तद्विषये अधिकं नैपुण्यं प्राप्तुं ब्रिट्न् नगरे स्थितं केम्ब्रिड्ज्–विश्वविद्यालयं प्राविशत् । तत्रैव फ्रान्सिस् हेच्. सि. क्रिकस्य मेलनं जातम् । तत्र तौ द्वौ अपि अहर्निशं कार्यं कुर्वन्तौ सहस्रशः क्ष-किरणानां परीक्षां कृतवन्तौ । बहूनाम् अपयशानाम् अनन्तरं "डबल् हीलिक्स्” सदृशम् एकं चक्रकं सज्जीकृतं ताभ्याम् । एका क्रमानुगतिः (सीक्वेन्स्) एकस्य कस्यचित् विधस्य फ्रोटीनस्य उत्पादनार्थं जीवकोशम् आदिशति । अपरा क्रमानुगतिः अपरस्य कस्यचित् विधस्य फ्रोटीनस्य उत्पादनार्थम् आदिशति । अतः जीविनः क्रमानुगतिः जीवकोशस्य कार्यं निर्णेति । तस्मात् एव कारणात् जठरस्य जीवकोशः, पित्तकोशस्य जीवकोशात् भिन्नः भवति । विभिन्नेषु जनेषु नेत्रस्य वर्णः विभिन्नः भवति । इति विषयं संशोधितवन्तः । एतेषां त्रयाणाम् (जेम्स् डि. व्याट्सन्, फ्रान्सिस् हेच्. सि. क्रिक्, मारीस् हेच्. विल्किन्स् च) एतत् संशोधनम् अत्यन्तं महत्त्वयुतं चापि । अस्य संशोधनस्य कारणतः एव बहूनाम् आनुवंशिकाणां रोगाणां चिकित्सा संशोधिता । अपेक्षानुगुणं जीविनां सृष्टिः इति विषयस्य संशोधनम् अपि प्रोत्साहितम् अभवत् ।

  1. James Watson to receive Othmer gold medalफलकम्:Dead link retrieved 29 September 2009
"http://sa.wikipedia.org/w/index.php?title=जेम्स्_डि_व्याट्सन्&oldid=274894" इत्यस्माद् पुनः प्राप्तिः