जेर्टि थेरेसा कोरि

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Gerty Cori

Gerty Cori in 1947
जननम् Gerty Theresa Radnitz
15 August 1896(1896-08-15)
Prague, Austro-Hungarian Empire
मरणम् 26 October 1957(1957-10-26) (aged 61)
मरणस्य कारणम् Myelosclerosis
वासस्थलम् American
इतरनामानि Gerty Theresa Cori
शैक्षिकयोग्यता German Charles-Ferdinand University in Prague
वृत्तिः Biochemist
प्रख्यातिः Extensive research on carbohydrate metabolism; described the Cori cycle; identified Glucose 1-phosphate
पतिः/पत्नी Carl Ferdinand Cori (m. 1920–एक्स्प्रेशन त्रुटि: अनपेक्षित उद्गार चिन्ह "�"।)
प्रशस्तयः Many awards and recognitions, including Nobel Prize in Physiology or Medicine (1947)

(कालः – १८९६ तः १९५७)

एषा जेर्टि थेरेसा कोरि (Gerty T. Cori) जीवरसायनशास्त्रस्य विज्ञानिनी । एषा पुरातन–आस्ट्रो–हङ्ग्जेरियन् साम्राज्यस्य प्राग् इति प्रदेशे १९८६ तमे वर्षे जन्म प्राप्नोत् । १९२० तमे वर्षे एं.डि. पदवीं प्राप्नोत् । तस्मिन् एव वर्षे सहपाठिना कार्ल् एफ्.कोरि इत्यनेन सह तस्याः विवाहः अपि अभयत् । तौ दम्पती वर्षद्वयानन्तरम् अमेरिका–संयुक्त–संस्थानं प्रति गतवन्तौ । तत्र न्यूयार्क्-राज्ये "अपायकराणां रोगाणां नियन्त्रणसंस्था”यां १९२२ तमे वर्षे द्वौ अपि मिलित्वा एव कार्यम् आरब्धवन्तौ । अपायकराणां कन्दानां (ट्यूमर्) चयापचयक्रिया एव तयोः संशोधनस्य प्रमुखः विषयः आसीत् । तदवसरे तौ शर्करापिष्टादीनां चयापचयक्रियाम् अपि सम्यक् अभ्यस्तवन्तौ ।


अनन्तरं १९३१ तमे वर्षे मिस्सूरिया-सैण्ट्लूयीस् मध्ये स्थिते वाषिङ्ग्टन्-औषधविश्वविद्यालये (Washington University of Medicene) कार्यं प्राप्तवन्तौ । तत्रैव तौ किञ्चित् राष्ट्रियं केन्द्रं संस्थापितवन्तौ । तस्मिन् केन्द्रे एव शर्करापिष्टादीनां चयापचयक्रियां सविवरम् अभ्यस्य राष्ट्रस्तरे गौरवं प्राप्तवन्तौ । एतौ कोरिदम्पती १९३० दशके अस्माकं शरीरे विद्यमानं "ग्लैकोजेन्” नामकं पिष्टं शरीरस्य उपयोगकरीत्वेन शर्करात्वेन परिवर्त्यमानस्य "पास्फारिलेस्” नामकस्य किण्वस्य (एन्जैम्) संशोधनं कृतवन्तौ । १९३९ तमे वर्षे प्रचलिते विज्ञानिनां सम्मेलने "ग्लैकोजन्” नामकं पिष्टं प्रथमवारं परीक्षाप्रनाले सङ्गृह्य प्रदर्शयताम् । तं पिष्टं शरीरं यत् शर्करात्वेन परिवर्तयति, तस्याः क्रियायाः विवरणेन मधुमेहरोगस्य अवगमने, निवारणे च साहाय्यम् अभवत् । बालेषु "ग्लैकोजन्” इति पिष्टस्य सङ्ग्रहणेन जायमानानां व्याधीनां, तेषां रोगाणाम् अग्रिमां वंशश्रेणीं प्रति गमनम्, इति कार्यद्वयस्य अपि कारणीभूतस्य किण्वस्य (एन्जैम्) विषये अपि एषा जेर्टि थेरेसा कोरि विवृणोत् । अमेरिकादेशस्य अध्यक्षः ह्यारि एस्. ट्रुमन् तां जेर्टि थेरेसा कोरिं नूतनतया आरब्धस्य राष्ट्रियविज्ञानपौण्डेषनस्य विज्ञानसमितेः सदस्याम् अकरोत् । तस्याः जेर्टि थेरेसा कोर्याः संशोधनैः अनेकानि उपायनानि, पुरास्काराः, सम्माननानि च प्राप्तानि । १९४७ तमे वर्षे वैद्यकीये तथा शरीरक्रियाशास्त्रे च दीयमानः "नोबेल्”पुरस्कारः एताभ्यां कोरिदम्पतीभ्यां तथा बर्नार्ड् हौसिना च प्राप्तः । एषा जेर्टि थेरेसा कोरि १९५७ तमे वर्षे इहलोकम् अत्यजत् ।

"http://sa.wikipedia.org/w/index.php?title=जेर्टि_थेरेसा_कोरि&oldid=275009" इत्यस्माद् पुनः प्राप्तिः