ज्ञानपीठप्रशस्तिः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्


एषा ज्ञानपीठप्रशस्ति: भारते कृतां साहित्यक्षेत्रीयाम् अपूर्वां सिद्धिम् अभिलक्ष्य दीयते प्रतिवर्षम् । ‘दि टैम्स् आफ् इण्डिया’-पत्रिकाया: प्रकाशकै: साहुजैनपरिवारीयै: ‘भारतीयज्ञानपीठ’नामक: न्यास: प्रतिष्ठापित: । श्री साहुशान्तिप्रसादजैन, श्रीमती रमा जैन च एतस्य प्रतिष्ठापकौ । एतेन न्यासेन दीयते एषा प्रशस्ति: । प्रशस्तिरेषा पञ्चलक्षरूप्यकात्मिका भवति इदानीम् । संविधानेन अनुमतया ययाकयाचिदपि भाषया कृता कृतिरचना एव एतां प्रशस्तिं प्राप्तुम् अर्हा भवति । भारतस्य लेखकानां कृते दीयमाना प्रतिष्ठिता प्रशस्तिः अस्ति। एषा प्रशस्तिः भारतस्य संविधानस्य अष्टमानुच्छेदे याः भाषाः उल्लिखिताः तासां भाषाणां अत्युत्तमभारतीयलेखकस्य कृते दीयते । एषा प्रशस्तिः १९६० तमवर्षस्य मेमासस्य २२ तमे दिनाङ्के स्थापिता । प्रथमतया एषा प्रशस्तिः १९६५ तमे वर्षे मलयालस्य लेखकाय श्रीमते जि.शङ्करकुरुपाय प्रदत्ता । विजेतारः प्रशस्तिफलकेन, पञ्चलक्षरूप्यकैः , वाग्देव्याः कांस्यप्रतिमया च सम्मानिताः भवन्ति ।

साहुशान्तिप्रसादजैन:[सम्पादयतु]

साहुशान्तिप्रसादजैनवर्य: क्रि.श.१९११ तमे वर्षे उत्तरप्रदेशे नजीबाबादनगरे जन्म प्राप्नोत् । बनारसहिन्दुविश्वविद्यालये आगराविश्वविद्यालये च तेन विज्ञानविषयिणी स्नातकपदवी प्राप्ता । वाराणस्याम् अखिलभारतीयं प्राच्यविद्यासम्मेलनं यत् प्रवृत्तं तत्र विद्वद्भि: सूचितं यत् साहित्यक्षेत्रस्य प्रोत्साहनाय राष्ट्रस्तरीया गौरववर्धिका काचित् विशिष्टा प्रशस्ति: प्रदातव्या, तदर्थं कश्चन न्यास: प्रतिष्ठापनीय: इति । तत: १९४४ तमे वर्षे फेब्रवरीमासस्य १८ दिनाङ्के ‘ज्ञानपीठप्रशस्ति’न्यास: प्रतिष्ठापित: जात: । शान्तिप्रसादजैनवर्य: अस्ति न्यासस्यास्य संस्थापकन्यासी । तस्य पत्नी रमाजैनवर्या न्यासाध्यक्षा जाता । २७.१०.१९७७ तमे वर्षे शान्तिप्रसादवर्य: दिवं गत: । क्रि.श.१९६५ तमात् वर्षात् ज्ञानपीठप्रशस्तिप्रदानप्रथा आरब्धा । आदौ प्रशस्तिमूल्यं सार्धैकलक्षरूप्यकात्मकम् आसीत् । इदानीं तु प्रशस्तिमूल्यम् अस्ति पञ्चलक्षरूप्यकात्मकम् । प्रशस्तिमेतां भारतसर्वकारः ददाति इति भ्रान्तिः अस्ति जनेषु । वस्तुतः टैंस् आफ् इण्डियास्वामिनः जैन्कुटुम्बसदस्याः एतस्याः प्रशस्त्याः स्थापकाः ।अधुनापि न्यासे सदस्येषु ते एव अधिकाः सन्ति । क्रि.श.१९८२ तः ,एतां प्रशस्तिं भारतीयसाहित्यस्य कृते यः समग्रं योगदानं करोति तादृशाय लेखकाय दीयते । एतावत् पर्यन्तम् कन्नडभाषायाः अष्टौ लेखकाः एतां प्रशस्तिं प्राप्तवन्तः ।कन्नडभाषा अधिकज्ञानपीठप्रशस्त्या पुरस्कृता अस्ति ।.हिन्दी भाषायां षट् जनाः एतां प्राशस्तिं प्राप्तवन्तः । एषा भाषा द्वितीये स्थाने अस्ति ।

प्रशस्तिभूषिताः विविधभाषाः[सम्पादयतु]

मलयाळभाषीय: जि. शङ्करकुरुपवर्य: प्रथमां ज्ञानपीठप्रशस्तिं प्राप्तवान् क्रि.श.१९६८ तमे वर्षे । क्रि.श.१९८२ तमवर्षपर्यन्तम् अपि विशिष्टसेवां कृतवत: कृतिकारस्य विशिष्टायै कृत्यै एषा प्रशस्ति: प्रदीयते स्म । किन्तु अनन्तरकाले निर्णीतं यत् समग्रां सिद्धिम् अभिलक्ष्य एव एषा प्रदातव्या इति । अद्यापि सा एव परम्परा अनुवर्तते । हिन्दीभाषया कन्नडभाषया च सप्तवारं, वङ्गभाषया पञ्चवारं, मलयाळभाषया मराठीभाषया च चतुर्वारम्, उर्दुगुजरातिभाषाभ्यां त्रिवारम्, असामिया-ओरिया-पञ्जाबी-तळिलु-तेलुगुभाषाभि: द्विवारं च एषा प्रशस्ति: प्राप्ता । ज्ञानपीठप्रशस्तिं प्राप्तवती पञ्चदशी भाषा संस्कतम् । ११.११.०८ दिनाङ्के २००५, २००६ वर्षयो: ज्ञानपीठप्रशस्ति: घोषिता ज्ञानपीठप्रशस्तिभाज: डा सीताकान्तमहापात्रस्य आध्यक्ष्येण युक्तया समित्या । २००५ तमवर्षीया प्रशस्ति: हिन्दीकविना कुन्वरनारायणवर्येण सम्प्राप्ता ।

संस्कृतभाषया प्राप्तम्[सम्पादयतु]

क्रि.श.२००६ तमवर्षीया प्रशस्ति: संस्कृतीयेन सत्यव्रतशास्त्रिवर्येण, कोङ्कणीभाषीयेण रवीन्द्रकेळकरवर्येण च सम्प्राप्ता । ४२ तमी प्रशस्ति: एषा । संस्कृतेन एषा प्रशस्ति: प्राप्ता अस्ति ऐदम्प्राथम्येन ।

ज्ञानपीठप्रशस्त्या पुरस्कृताः[सम्पादयतु]

वर्षम् नाम ग्रन्थः भाषा
१९६५ जि शङ्कर कुरूप् ओडकुझल् (वंशी) मलयालम् G.shankarakurup.jpg
१९६६ ताराशङ्कर वन्द्योपाध्यायः गणदेवता बेङ्गाली
१९६७ कुप्पळ्ळि वेङ्कटप्प पुट्टप्प (कुवेम्पु) श्री रामायणदर्शनम् कन्नड
१९६७ उमाशङ्कर जोशि निशीथ गुजराती
१९६८ सुमित्रानन्दन् पन्त् चिदम्बर हिन्दि
१९६९ फिरक् गोरख्पुरि जुल्-ए-नग्मा उर्दु
१९७० विश्वनाथ सत्यनारायण रामायण कल्पवृक्षमु तेलुगु
१९७१ बिष्णु डे स्मृति सत्ता भविष्यत् बेङ्गाली
१९७२ रामधारी सिङ्ग् दिनकर ऊर्वशी हिन्दी
१९७३ द.रा.बेन्द्रे नाकुतन्ति कन्नड
१९७३ गोपिनाथ मोहान्ति परज ओरिया
१९७४ विष्णु सखाराम खण्डेकर ययाति मराठी
१९७५ पि वि अखिलन् चित्रप्पवै तमिळ्
१९७६ आशापूर्णा देवी प्रथम प्रतिश्रुति बेङ्गाली
१९७७ शिवराम कारन्तः मूकज्जिय कनसुगळु कन्नड
१९७८ सच्चिदानन्द हीरानन्द वात्स्यायन अज्ञेय कितनी नावों में कितनी बार हिन्दी
१९७९ बीरेन्द्रकुमार् भट्टाचार्य मृत्युञ्जय अस्सामी
१९८० एस् के पोट्टेकट् ओरु देशथिन्ते कथा मलयालम्
१९८१ अमृताप्रीतम् कगज् ते केन्वास् पञ्जाबी Amrita Pritam (1919 – 2005) , in 1948.jpg
१९८२ महादेवी वर्मा यम हिन्दी
१९८३ मास्ति वेङ्कटेश ऐय्यङ्गार्यः चिक्कवीरराजेन्द्र कन्नड
१९८४ तकाझि शिवशङ्कर पिल्लै कायर् मलयालम्
१९८५ पन्नालाल् पटेल् मानवि नि भवाय् गुजराती
१९८६ सच्चिदानन्द राउत राय ओरिया
१९८७ विष्णु वामन शिर्वाड्कर् (कुसुमाग्रज्) नट्सम्राट् मराठी
१९८८ डा.नारायणरेड्डि सि विश्वम्भर तेलुगु
१९८९ कुर्रतुलैन् हैदर् अखिरे शाब् के हम्साफर् उर्दु Qurratulain Hyder.jpg
१९९० वि.कृ.गोकाकः भारत सिन्धु रष्मि कन्नड
१९९१ सुभाष मुख्योपाध्यायः पदाति बेङ्गाली
१९९२ नरेश मेह्ता हिन्दी
१९९३ सीताकान्त महापात्र "भारतीयसाहित्यस्य अभिवर्धनाय तेन कृतम् अपूर्वं योगदानं निमित्तीकृत्य १९७३-९२" ओरिया
१९९४ यु आर् अनन्तमूर्तिः कन्नडसाहित्याय तदीयं योगदानं निमित्तीकृत्य कन्नड യു.ആർ. അനന്തമൂർത്തി.jpg
१९९५ एम् टि वासुदेवन् नैयर् रण्डमूझम् मलयालम्
१९९६ महाश्वेता देवी हाजार चुराशीर मा बेङ्गाली
१९९७ अलि सर्दार् जफ्रि उर्दु
१९९८ गिरीश कार्नाडः "कन्नडसाहित्याय कन्नडरङ्गभूमये (ययातिः) तेन कृतं योगदानं निमित्तीकृत्य"[१] कन्नड
१९९९ निर्मल वर्मा हिन्दि
१९९९ गुर्डियल् सिङ्ग् पञ्जाबी
२००० इन्दिरा गोस्वामी अस्सामी
२००१ राजेन्द्र केशवलाल् षा गुजराती
२००२ जयकान्तन् डि तमिळ्
२००३ विन्दा कराण्डिकर् अष्टदर्शन (काव्यम्) मराठी
२००४ रह्मन् रहि सुबुक् सोड, कलमि रहि, सैयद् रोडे जरेन् मन्ज्झ् च काश्मीरि
२००५ कुन्वर् नारायण् हिन्दी
२००६ रवीन्द्र केलेकर् कोड्कणी
२००६ सत्यव्रतशास्त्री संस्कृतम्
२००७ ओ एन् वि कुरूप् मलयालम्[२] Onv.JPG
२००८ अक्लाख् मोहम्मद् खान् 'षाह्रयार्' उर्दु
२००९ अमर कान्त तथा श्रीलाल शुक्ल हिन्दी
२०१० डा.चन्द्रशेखर कम्बार समग्रं साहित्यम् कन्नड

उल्लेखाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=ज्ञानपीठप्रशस्तिः&oldid=271099" इत्यस्माद् पुनः प्राप्तिः