ज्योतिषशास्त्रम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(ज्योतिष इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

यथा शिखा मयूराणां नागानां मणयो यथा । तद्वद्वेदाङ्गशास्त्राणां ज्योतिषं मूर्ध्नि संस्थितम् ॥

आकाशमानचित्रम्

इदं कालविज्ञापकं शास्त्रम् । मुहूर्त्तं शोधयित्वा क्रियमाणा यज्ञादिक्रियाविशेषाः फलाय कल्पन्ते, नान्यथा, तन्मुहूर्त्तज्ञानञ्च ज्यौतिषायत्तमतोऽस्य ज्यौतिषशास्रस्य वेदाङ्गत्वं स्वीकृतम् । उक्तञ्चायमर्थ आर्चज्योतिषे, यथा –

वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्वा विहिताश्च यज्ञाः ।
तस्मादिदं कालविधानशास्त्रं यो ज्यौतिषं वेद स वेद यज्ञान् ॥ (आर्चज्यौतिषम् ३६)

चतुर्णामपि वेदानां पृथक् पृथक् ज्यौतिषशास्त्रमासीत्, तेषु सामवेदस्य ज्यौतिषशास्त्रं नोपलभ्यते, त्रयाणामितरेषां वेदानां ज्यौतिषाण्यवाप्यन्ते । (१) ऋग्वेदस्य ज्यौतिषम्- आर्चज्यौतिषम्, षट्त्रिशत्पद्यात्मकम् । (२) यजुर्वेदस्य ज्यौतिषम् –याजुषज्यौतिषम्, ऊनचत्वारिशत्पद्यात्मकम् । (३) अथर्ववेदस्य ज्यौतिषम्- आथर्वणज्यौतिषम्, द्विषष्ट्युत्तरशतपद्यात्मकम् । एतेषां त्रयाणामपि ज्यौतिषाणां प्रणेता लगधो नामाचार्यः । तत्र याजुषज्यौतिषस्य प्रामाणिकं भाष्यद्वयमपि प्राप्यते, एकं सोमाकरविरचितं प्राचीनम्, द्वितीयं सुघाकरद्विवेदिकृतं नवीनम् । एतस्य ज्यौतिषशास्त्रस्य त्रीणि वर्त्मानि, तदिदं शास्त्रं त्रिस्कन्धमुच्यते । तदुक्तम् –

सिध्दान्तसंहिताहोरारुपं स्कन्धत्रयात्मकम् ।
वेदस्य निर्मलं चक्षुर्ज्योतिश्शास्त्रमनुत्तमम् ॥

एतत्प्रवर्त्तका अष्टादश महर्षयः, ते च-

सूर्यः पितामहो व्यासो वसिष्ठोऽत्रिः पराशरः ।
कश्यपो नारदो गर्गो मरीचिर्मनुरङ्गिराः ॥
लोमशः पुलिशश्चैव च्यवनो यवनो भृगुः ।
शौनकोऽष्टादशश्चैते ज्योतिः शास्रप्रवर्त्तकाः ॥
नामानि कालाः ग्रन्थाः
आर्यभटः ५०० ई. आर्यभटीयम्
वराहमिहिरः ६०० ई. पञ्चसिध्दान्तिका, बृहज्जातकं ल्घुजातकञ्ज ।
ब्रह्मगुप्तः ७०० ई. ब्रह्मस्फुटसिध्दान्तः, खण्डखाद्यं, ध्यानग्रहश्च ।
लल्लः ७०० ई. रत्नकोशः, धीवृध्दियन्त्रञ्च ।
उत्पलाचार्यः १००० ई. वाराहमिहिरग्रन्थानां टीकाः ।
श्रीपतिः ११०० ई. सिध्दान्तशेखर –धीकोटिकरण- रत्नमाला जातकपध्दतयः
भोजदेवः ११०० ई. राजमृगाङ्ककरणम्
भास्कराचार्यः १११४ ई. सिध्दान्तशिरोमणिः, करणकुतूहलञ्च ।
केशवः १५०० ई. ग्रहकौतुक –महूर्त्ततत्त्व –जातकपध्दतयः ।
गणेशः १५५० ई. ग्रहलाघवम् ।
कमलाकरः १६५० ई. सिध्दान्ततत्त्वविवेकः ।

एतदतिरिक्ता अपि – लघुपाराशरी, बृहत्पाराशरी, जैमिनिसूत्रम् , भृगुसंहिता, मीनराजजातकप्रभृतय आर्षग्रन्थाः, लघुजातकम्, बृहज्जातकम्, सारावलिः, जातकाभरणम् जातकपध्दतिः , जातकसारः, जातकालङ्कारः, पदमजातकम्, होरारत्नम्, होराकौस्तुभम् इत्यादयः पुरुषप्रणीतग्रन्थाश्च शास्त्रमिदं समृध्दं कुर्वन्ति । केरलमतप्रतिपादका ग्रन्थाः, प्रश्नग्रन्थान्तराणि, रमलग्रन्थाः ताजिकग्रन्थाश्च अस्य शास्त्रस्य पोषका एव ।

असंख्याः ग्रहाः सन्ति, अन्यसौरमण्डलानि अपि भवितुम् अर्हन्ति इत्यादयः विचाराः भारतीये ज्योतिश्शास्त्रे रुढमूलाः सन्ति । ग्रहाणां स्थितिः, परस्पराकर्षणं, ग्रहणस्वरूपम् इत्यादयः अत्र विस्तरेण उक्ताः । कुजग्रहस्य स्वरूपं "चपलः सरक्तगौरः मज्जासारश्च माहेयः" इत्येवम् उक्तवान् अस्ति आचार्यः वराहमिहिरः । आधुनिकशास्त्रकाराः वदन्ति - "कुजस्य उपरि उग्रतुषारावरणम् अस्ति इत्यतः रक्तवर्णयुक्तधवलवर्णः तत्र दृश्यते" इति कुजः (भूमिपुत्रः) इति शब्दः एव तदग्रहे जीवसम्भाव्यतां प्रकाशयति । आधुनिकाः अपि एतत् एव वदन्ति खलु ? "सूर्यादीनां सञ्चातः भ्रममूलः", "ग्रहाणां स्वप्रर्काशता नास्ति" इत्यादयः बहवः वैज्ञानिकाः अंशाः आर्यभटेन प्रतिपादिताः ।

ज्योतिश्शास्त्रग्रन्थाः[सम्पादयतु]

वाह्यसूत्राणि[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=ज्योतिषशास्त्रम्&oldid=281290" इत्यस्माद् पुनः प्राप्तिः