झांसी लक्ष्मीबाई

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(झान्सीलक्ष्मीबायी इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
झांसी लक्ष्मीबाई
झान्सीराज्ञी

The Rani attired in war gear
जन्मनाम मणिकर्णिका
जन्म 19 November 1835(1835-11-19)[उद्धरणं वाञ्छितम्]
जन्मस्थलम् काशी, भारतम्
मरणम् 17 June 1858
मरणस्थलम् ग्वालियर्, भारतम्
पूर्वराजः राणी राम भायी
सङ्गी झान्सी नरेश महाराज गङ्गाधर राव् नेवाल्कर्
राजप्रासादः
सन्ततिः दामोदर् राव् ,आनन्द् राव्

झान्सीराणीलक्ष्मीबाय्याः जन्म १८३५तमे संवत्सरे नवेम्बरमासस्य १९ तमे दिनाङ्के अभवत् । सा १८५८ तमे वर्षे जूनमासस्य १७ दिनाङ्के दिवङ्गता। लक्ष्मीबायी वारणास्यां अजायत। सा झान्सी की राणी इति नाम्ना अवर्धत। भारतस्य प्रथमे स्वातन्त्र्यसङ्ग्रामे तस्याः प्रमुखं योगदानम् अस्ति। सा आङ्लविरोधनीते: प्रतीका आसीत्। लक्ष्मीबायी उत्तरभारतस्थितस्य झान्सीराज्यस्य राज्ञी आसीत्। सा आङ्लेयान् विरुद्ध्य भारतस्य स्वातन्त्र्यसङ्रामम् आरब्धवती।

महाराज्ञी लक्ष्मीः अस्याः वीरांगनायाः जन्म महाराष्ट्रे राज्ये कृष्णानद्यास्तटे एकस्मिन् ग्रामे पञ्चत्रिंशदधिके अष्टादशशततमे वर्षे (१८३५) समभूत् । शैशवे अस्याः नाम् 'मनुबाई' इति अभूत् । अस्याः जनकः मोरोपन्तः तदानीं पेशवा बाजीरावस्य सेवायामसीत् । अस्याः जननी 'भागीरथी बाई' साध्वई ईशभक्ता च नारी आसीत् । उभावपि तां प्रियां सुतां मनुदेवीं स्नेहेन अपालयताम् । तदा बाजीरावः कानपुर नगरस्य समीप्स्थिते बिठूरनामके स्थाने न्यवसत्, मनुदेव्याः शिक्षणं तत्र अभवत् । तत्र सा अचिरं शास्रविद्यां शस्त्रविद्यां च अलभत् । सा तत्र नैपुण्यम् अवाप्त्नोत् । अश्वारोशणेऽपु मनुवाई अतीव कुशला अभवत् । अनन्तरं झांसीजनपदस्य नरेशः गंगाधरः मनुदेव्याः पाणिग्रहणम् अकरोत् । ततः परं मनुबाई, 'रानी लक्ष्मीबाई' इति नाम्ना प्रसिद्धा अभवत् । उद्वाहाद् अनन्तरम् अपि सा अश्वारोहणं शस्त्राभ्यासञ्च नात्यजत् । एतस्मिन्नेव काले आंग्लजनाः भारते स्व प्रभुत्व्स्थापनाय यलशीलाः अभवन् । कूटनीतिप्रयोगेण दिने दिने तेषां प्रभुत्वम् अवर्धत । तदैव दैवयोगात् गंगाधरस्य एकलः पुत्रः स्वर्गं गतः । पुत्रवियोगसंतप्तो गंगाधरः दामोदरनामकं शिशुमेकं दत्तकपुत्ररूपेणा स्वीचकार । किंचितकालान्तरं गंगाधरोऽपि स्वयमेव् पञ्चत्वं गतः । अथ पतिपुत्रवियोगेन नितरां संतप्ताऽपि राज्ञी सधैर्यं राज्यस्य शासनसूत्रम् अधारयत् । अस्याः शासनकाले प्रजाः सर्वथा सुखम् अभजन्, किन्तु एतत् वैदेशिकानं कृते असहनीयम् जातम् । ते अस्याः राज्यम् उत्त्राधिकारहीनम् उदघोष्य हस्तगतम् अकुर्वन्, राज्ञ्यै लक्ष्म्यै च स्वल्पां मासिकवृत्तिं स्वीकृतवन्तः । आंगलजनाः न केव्लं राज्ञ्यां ;लक्षम्याम् अपितु अन्येष्वपि जनेषु अत्याचारान् अकुर्वन् । अतः सम्पूर्णे भारते यत्र तत्र स्वागन्त्र्यस्य अग्नेः स्फुलिंगाः प्रकटिताः

आग्रानगरे स्थिता लक्ष्मीबाय्याः प्रथिमा

पूर्वजीवनम्[सम्पादयतु]

जन्मसमये मणिकर्णिका (मनु इति उपनाम्ना) इति नाम्ना परिचिता लक्ष्मीबायी १८३५तमे संवत्सरे नवेम्बरमासस्य १९तमे दिनाङ्के वारणासीनगरे महाराष्ट्र्रजनपदमूलस्थे राजपुरोहितब्राह्मणकुटुम्बे अजायत। तस्याः मातापितरौ भागीरथीबायी मोरोपन्तताम्बे च इति। तस्याः उल्लसितसौन्दर्यात् चमेली इति नाम अपि आसीत्। यदा सा चतुर्वषीया आसीत् तदा तस्याः माता दिवङ्गता। तस्याः विद्याभ्यास: गृहे अभवत्। तस्याः पिता मोरोपन्तः बिर्तूरे पेश्वासभायां कार्यं करोति स्म। माता इव सा अपि अत्यन्तं सून्दरी । दीर्घाः कुन्तलाः विशालं नयनयुगलं मुखे राजवैभवं च दृश्यते स्म । यदा सा चतुर्वषीया आसीत् तदा तस्याः माता दिवङ्गता। अतः पुत्र्याः पालन- पोषणादिभारः सर्वोऽपि पितरि मोरोपन्ते एव पतितः। स: ताम् अन्यविषयैः सह खड्गचालनं, अश्वचालनं, गोलकास्त्रोपयोगादिसर्वविद्याः पाठितवान् । ईशवीये १८४२वर्षे झान्सीराजेन गङ्गाधररावेण सह मनूबाय्याः विवाहोऽभवत् । तेन विवाहेन न एका निर्धनब्राह्मणबालिका झान्सीराज्ञी लक्ष्मीबायी जाता।

तानि दिनानि[सम्पादयतु]

१९ तमशताब्दस्य आरम्भदिनानि तानि। ईस्टिण्डिया कम्पनी नाम्ना आङ्ग्लेयाः वाणिज्यमारब्धवन्तः आसन्। तेन सह भारतीयानाम् उपरि शासनमपि कुर्वन्तः आसन् । भारतदेशे राज्ञां मध्ये अन्तःकलहाः अधिकतया आसन् ।तस्य सदुपयोगं स्वीकुर्वन्त: आङ्ग्लेयाः स्वीयराज्यविस्तरणाय तान् उपयुक्तवन्तः। केचन अस्मद्देशीयराजाः अपि तेषां साहाय्यं कर्तुं परस्परं स्पर्धन्ते स्म।

सवातवृष्टेः पूर्वतनी प्रशान्तता[सम्पादयतु]

अन्तिमपेश्वामपि अधिकारात् च्युतं कृतवन्तः आङ्ग्लेयाः। तेन तेषामहङ्कारः अवर्धत । मुघलचक्रवर्तिनमपि ते न परिगणितवन्त:। एवम् एकत्र देशस्वातन्त्र्यविनाशाय कुतन्त्रे प्रचलति सति अन्यत्र दास्यात् विमुक्तयेऽपि प्रयत्नाः प्रचलन्ति स्म। स्वातन्त्र्यप्राप्त्यर्थं जायमाना आकाङ्क्षा अधिककालं निरोद्धुं न शक्यते। यावत् निरोद्धुं प्रयत्नः प्रचलति तावत् तस्याः बलं वर्धते एव । एकत्र राज्ञां सिंहासनानि कम्पन्ते स्म। आङ्ग्लेयैः कृताः अपमानकरनियमाः तैरवश्यं अङ्गीकरणीयाः भवन्ति स्म। तेषां स्वीयराज्यानि सामन्तराज्यानि इति उद्घोष्यन्ते स्म। अन्यतः आङ्ग्लसर्वकारं समूलम् उन्मूल्य देशस्य स्वातन्त्र्यं, गौरवं च रक्षणीयमिति आकाङ्क्षा जनेषु वर्धमाना आसीत् । बहिस्तु अत्यन्तप्रशान्तं वातावरणं दृश्यते स्म । सर्वं सहसा प्राचलत् । आग्निपर्वतस्य विस्फोटनात्पूर्वं दृश्यमानप्रशान्ततासदृशी प्रशान्तता सा।

महान् आघातः[सम्पादयतु]

ईशवीये १८५१ तमे वर्षे महाराज्ञ्याः लक्ष्मीबाय्याः एकः पुत्रः जातः । किन्तु दौर्भाग्यवशात् मासत्रये एव सः बालः मृतः | गङ्गाधररावस्य राज्यभवितव्यविषये चिन्ता जाता । सा चिन्ता मानसिकतया तं निर्वीर्यं कृतवती । तस्य मनोवेदनायाः अन्यदपि कारणमासीत् - तदानीन्तन: गवर्नर् जनरल् डल्हौसी इत्यस्य क्रूरपालनम् । तस्मिन् समये केचन राजानः आङ्ग्लेयानां साहाय्यं प्राप्तवन्तःआसन्। तदर्थं तेषां कृते कश्चन नियमः कल्पितःआसीत् । 'यदि सन्ततिं विना राजा मृतो भवति, तर्हि तस्य राज्यम् आङ्ग्लेयाः स्वायत्तीकुर्युः। यदि सः राजा यं कमपि बालकं दत्तकपुत्ररूपेण स्वीकृतवान् अस्ति तर्हि अपि तस्य बालकस्य परिपालनाधिकारो न भवेत् 'इति। तादृशऱाज्यकुटुम्बजनानां कृते प्रतिवर्षं भरणं देयम् । राज्यरक्षणं तु आङ्ग्लेयाः एव कुर्युः । एतत् डल्हौसीपालनविधानमासीत् । एतान् नियमान् आश्रित्य आङ्ग्लेयाः अनेकानि राज्यानि हस्तगतानि कृतवन्तः। अधुना झान्सीराज्ये तेषां दृष्टिः पतिता। गङ्गाधररावस्य वार्धाक्ये एषः महान् आघातः। सः चिन्ताग्रस्तः जातः। ईशवीये १८५३ तमे वर्षे लक्ष्मीबायी- गङ्गाधररावौ आनन्दराव् इति कञ्चन बालकं दत्तकरूपेण स्वीकुर्वः इति निश्चितवन्तौ । दत्ततास्वीकरणानन्तरं तस्य बालस्य दामोदरराव् इति नाम कृतवन्तौ।

आशा न नष्टा[सम्पादयतु]

दत्ततास्वीकरणानन्तरं गङ्गाधररावः आङ्ग्लेयानुद्दिश्य किञ्चन पत्रं लिखितवान् । दत्ततास्वीकारविधानस्य सर्वान् विषयान् सः तस्मिन् पत्रे विवृतवान् । स्वीयदत्तपुत्रं स्वस्य राज्यस्य उत्तराधिकारिरूपेण अङ्गीकुर्वन्तु । तं राज्यस्य प्रतिनिधिरूपेण अङ्गीकुर्वन्तु इत्यपि प्रार्थितवान् असीत् स: । आङ्ग्लेयानां, झान्सीराज्यस्य मध्ये विद्यमानं स्नेहसम्बन्धमपि सः तस्मिन् पत्रे स्मारितवान् असीत्। मेजर् एलिस् हस्ते एतत् पत्रं दत्त्वा लार्ड डाल्हौसी कृते एतत् प्रापणीयमिति प्रार्थितवान् ।

पत्रप्रदानसमये राज्ञः नेत्रयोः अश्रूणि उद्गतानि । कण्ठः अवरुध्दः । यवनिकायाः पृष्ठत: राज्ञ्याः रोदनस्वरः अपि श्रूयते स्म । "मेजर् महोदय ! अस्माकं महाराज्ञी अपि जात्या महिला एव। तथापि तस्याम् अनेके विशिष्टाः गुणाः सन्ति । विश्वे अतिश्रेष्ठजनेषु एव तादृशगुणाः भवन्ति।" इति पत्रं प्रयच्छन् उक्तवान् गङ्गाधररावः । एतानि वचनानि वदतः तस्य नयनयोः अश्रूणि प्रसृतानि । "मेजर् महोदय! कृपया झान्सीराज्यं कदाचिदपि अनाथं मा करोतु" इति सः प्रार्थितवान्। कतिपयदिनानामनन्तरं ईशवीये १८५३ तमे वर्षे नवम्बरमासे २१ दिनाङ्के गङ्गाधररावः दिवङ्गतः। १८ वर्षप्राया यौवनवती लक्ष्मीबायी विधवा जाता । तस्याः नियमनिबन्धनेषु मितिरेव न भवति स्म इत्यत्र अश्चर्यं किम् ? अपि च रक्षकरहितस्य राज्यस्य रक्षणभारः तस्यामासीत् । एकत्र लार्ड् ड्ल्हौसी तद्राज्यम् आक्रान्तुम् इच्छुक:आसीत्। अन्यत्र लक्ष्मीबाय्या: ह्स्ते प्रियबालकः दामोदररावः । एतादृश्यां दीनावस्थायाम् आसीत् लक्ष्मीबायी। तस्याः समस्यानां, कष्टानां च पारमेव नासीत् । महाराजस्य उत्तराधिकारत्वविषये लक्ष्मीबायी अनेकवारं लार्ड् डल्हौसीकृते वार्तां प्रेषितवती । मासत्रयानन्तरमपि किमपि प्रत्युत्तरं नागतम् | ईशवीये १८५४ तमे वर्षे मार्चमासे कस्मिंश्चित् दौर्भाग्यपूर्णे दिवसे डल्हौसीतः आदेशः आगतः। 'दत्तताद्वारा स्वस्य उत्तराधिकारिणः निर्णयाधिकारः गङ्गाधररावस्य नास्ति 'इति आङ्ग्लसर्वकारेण तस्य विज्ञप्तिः तिरस्कृता असीत् । झान्सीराज्यं आङ्ग्लसाम्राज्ये विलीनं करणीयमिति निश्चितञ्च।

राज्ञ्या दुर्गं त्यक्तवा पट्ट्णे अन्यस्मिन् भवने निवासः करणीयः इति आदिष्टम्। तस्यै प्रतिमासं पञ्चसहस्ररूप्यकाणां भरणं दीयते इत्यपि सर्वकारेण उद्घोषितम् । आरम्भे राज्ञी स्वकर्णयो: विश्वासं न कृतवती । कांश्चन क्षणान् निश्चेष्टं स्तब्धा स्थितवती। सपद्येव पुनः सामान्यस्थितिं प्राप्तवती। " नैव शक्यते । अहं मम झान्सीं न त्यजामि " इति दृढमुक्तवती । आङ्ग्लजनानां बलस्य, वञ्चनानां च प्रतिभटनं झान्सीसदृशस्य लघुराज्यस्य कष्टतमः विषयः इति ज्ञातुम् तस्याः अधिकसमयः नापेक्षितः आसीत् । तत्रापि पेश्वा आङ्ग्लेयानां दासत्वमङ्गीकृतवानेव। देहलीचक्रवर्ती अपि तेषां शरणे असीत् । आङ्ग्लेयाः झान्सीराज्यं हस्तगतं कृतवन्तः। ततः आरभ्य राज्ञ्याः दिनचर्यायाम् अधिकं परिवर्तनम् आगतम् । प्रतिदिनं प्रातः चतुर्वादनतः अष्टवादनपर्यन्तं स्नानं, ध्यानं, पूजा, प्रार्थना इत्यादिषु समयं यापयति स्म। अष्टवादनतः एकादशवादनपर्यन्तम् अश्वारोहणं, गोलकास्त्र- खड्ग भल्लादीनां प्रयोगस्य अभ्यासं च करोति स्म । तस्मिन् समयेऽपि अश्वम् अत्यन्तवेगेन चालयन्ती एव भवति स्म । क्षुधार्तेभ्यः, निर्धनेभ्यः आहारवितरणानन्तरं स्वयमपि भोजनं करोति स्म । भोजनानन्तरं किञ्चित्कालं यावत् विश्रान्तिः, अनन्तरं रामायणपठनं च करोति स्म। सायं लधुव्यायामं कृत्वा अनन्तरं पुनः कञ्चित्कालं यावत् धार्मिकग्रन्थानां पठनं, धार्मिकप्रवचनश्रवणम् , अन्ते इष्टदेवताप्रार्थनां च कृत्वा निद्रां करोति स्म । एतां दिनचर्यां सा नियमेन, समयपालनेन च अनुसरति स्म ।

सङ्घर्षणार्थं सज्जता[सम्पादयतु]

अत्याचारान्, अन्याय्यानि च ये सहन्ते ते मृतसमानाः। न्याय्यस्य आदरणमेव नीतिः। अन्याय्यस्य पुरतः शिरोनमनं भीरूता एव। अधिकपीडनेन गोलकास्त्रगोलम् अपि शकलीभवति। पशवः अपि क्रूरत्वं विरुध्द्य प्रतीकारार्थं सिध्दाः भवन्ति। तेन कीदृशपरिणामा भवन्तिति चिन्तयन्त: न तिष्ठन्ति । सन्तानराहित्यकारणतः राज्याधिकाराद् भ्रष्टाः राजानः, तेषां कुटुम्बानि, तेषाम् अनुचराः, इतस्ततो गता तेषां सेना, तेषां शुभाशंसकाः सर्वे असन्तृप्त्या ज्वलन्तः आसन् । तात्यातोपे, रघुनाथसिंहः , जवहरसिंहः इत्यादयः स्वातन्त्र्यप्रियाः रहसि लक्ष्मीबाय्या मिलन्ति स्म । ते स्वीयप्रजानाम् अभिप्रायम् , असन्तृप्तिं च तस्यै निवेदयन्ति स्म । राज्यस्य भौगोलिकस्थितेः , सामाजिकानां, प्रमुखाणां पवित्रक्षेत्राणां, आङ्ग्लेयान् विरुध्द्य योध्दुं पञ्जाबराज्ये सिध्दायाः सिक्खसेनायाः निर्माणविधेः च सा सूक्ष्मदृष्ट्या अध्ययनं कृतवती आसीत्। अश्वम् आरुह्य यदा सा बहिः गच्छति स्म तदा सा पुरुषवेषं धरति स्म । अयसा निर्मितं शिरस्त्राणं धृत्वा, तस्योपरि उष्णीषं वेष्टयति स्म । वक्षःस्थले अपि अयस: कवचं धरति स्म। तस्याः पार्श्वद्वये भुशुण्डिः, छुरिका च भवति स्म । एतैः सहैव सा खड्गमपि हस्ते गृह्णाति स्म। अश्वारोहणे निपुणायाः राज्ञ्याः लक्ष्मीबाय्या: कथियवालप्रान्तस्य श्वेताश्वाः प्रियतराः आसन्। राज्ञी काशीं गत्वा केशान् वापयित्वा तत्रस्थायाः राजनैतिकस्थितेः अध्ययनं करणीयमिति च चिन्तितवती। आङ्ग्लाधिकारिणः तस्याः यात्रायै अनुमतिं न दत्तवन्तः। तं विषयं ज्ञात्वा राज्ञी " देशस्य यदा स्वातन्त्र्यप्राप्तिः भविष्यति, तदा एव स्वकेशान् वापयिष्यामि। अथवा श्मशाने एव तत् भविष्यति " इति प्रतिज्ञां कृतवती। आङ्ग्लेयानां कृत्यैः असन्तुष्टाः नानासाहेबः, रावसाहेबः, देहलीचक्रवर्ती बहदुरशाहः, अयोध्याराजस्य (नवाबस्य) सहचराः च तदा तदा एकत्र समाविष्टा: भवाम: इति भावयन्तः आसन्। राज्ञ्याः मनसि अपि तादृशम् एव चिन्तनम् आसीत् । कोऽपि धार्मिककार्यक्रमः यदा भवति तदा ते मेलितुं शक्नुवन्ति स्म।

समैक्यम्[सम्पादयतु]

दत्तकपुत्रः दामोदररावः सप्तवर्षीयः जातः । तस्य उपनयनार्थं व्यवस्था प्रचलति स्म । राज्यस्य आङ्ग्लाधिकारिणे एकम् अभ्यर्थनापत्रं प्रेषितवन्तः। राज्यकोशे दामोदररावनाम्ना विद्यमानेषु षट्लक्षरूप्यकेषु उपनयनव्ययनिमित्तं एकलक्षरुप्यकाणि स्वीकर्तुं तस्मिन् पत्रे अनुमतिं प्रार्थितवन्तः। किन्तु 'दामोदररावः इतोऽपि बालः। केऽपि चत्वारः तस्य पक्षतः प्रतिश्रोष्यन्ति चेदेव तत् धनं दद्म:' इति निरुध्दवान् आङ्ग्लाधिकारी। राज्ञ्या तदापि अपमाननं समनुभूतम् । तान् नियमान् अङ्गीकृत्य, धनं स्वीकृतवती। एतस्य उपनयनस्य सन्दर्भे नायका सर्वे मिलितवन्तः। तेषां मध्ये रहसि चर्चाः जाताः, गोष्ठ्यः प्रचलिताः च। तस्मिन् समये यत्र चर्चाः भवन्ति स्म, तस्य भवनस्य चतसृषु दिक्षु महिलाः एव रक्षणं कृतवत्यः। तत्र नायकाः कांश्चन मुख्यान् विषयान् ज्ञातवन्तः। 'तिलकधारणाय अनुमतिं न दत्तवन्तः' इति आङ्ग्लसैन्ये स्थिताः हिन्दुसैनिकाः खिन्ना: आसन्। एवमेव 'वराहवसालेपितानि गोलकानि बलात्कारेण प्रयोजयन्ति' इति महम्म्दीयसैनिकाः कुपिताः आसन् । सेनायां तीव्रा असन्तृप्तिः प्रवृध्दा आसीत् । राज्ञी 'त्वरा खलु अविवेकिनां लक्षणम्। सेनायाम् अपि योग्यसज्जता नास्ति। एवमेव युध्दकारणेन प्रजानां कष्टं भवेत् । नोचेत् प्रजानां सहानुभूतिः नष्टा स्यात् 'इति स्वाभिप्रायं प्रकतितवती। एतम् अभिप्रायं सर्वे अङ्गीकृतवन्तः।

अग्निज्वाला[सम्पादयतु]

गीतैः, उत्सवैः, मनोरञ्जककार्यक्रमैः सैन्ये असन्तृप्तिः इतोऽपि ज्वालनीया इति महिलाः अपि कटिबद्धा:। या काऽपि प्रगतिः भवतु सा वार्ता राज्ञीं प्राप्नोति स्म । फेब्रवरीमासे पूर्णिमाया: अनन्तरम् एकस्मिन् दिने तात्यातोपे राज्ञ्या मेलितुमागतवान् । सः स्वेन सह एकं पत्रम् आनीतवान् । तस्मिन् पत्रे " इतोऽपि विलम्बः नोचित:। हृदये गाहितानि शूलानि इतोऽपि कियत्कालं सहामहे । उत्तिष्ठन्तु न्याय्यं प्राप्तुं आत्मसमर्पणाय सिध्दा: भवन्तु । केचन दुष्टाः पालकाः एतं देशं दास्यतागर्ते क्षिप्तवन्तः सन्ति । तान् बहिष्कुर्वन्तु । देशं स्वतन्त्रं कुर्वन्तु । स्वीयाधिकारान् रक्षन्तु " इत्यासीत् । समयः इदानीं नानु कूलः इति राज्ञ्याः अभिप्रायः आसीत् । किन्तु तात्या तु 'सेनायाम् असन्तृप्तिः तीव्रस्तरे अस्ति, आयुधानि, विस्फोटनसामग्री च सिध्दा अस्ति, धनसम्पादनञ्च आसाध्यं न भवति'इति तां विश्वासितवान् । मेमासस्य एकत्रिंशत् दिनाङ्के रविवासरे देशे सर्वत्र प्रजाभिः एककाले क्रान्तिः करणीया इति निश्चितम्। कमलं विद्यादेव्याः सरस्वत्याः, धनदेव्याः लक्ष्म्याः च प्रतीकम् । तदेव कमलं एतस्याः क्रान्ते: चिह्नम् अभवत् । किन्तु बारकपुरे निश्चितदिनात् पूर्वमेव क्रान्तिः आरब्धा। मेमासस्य दशमदिनाङ्के मीरठनगरे क्रान्त्याः ज्वालाः विजृम्भिताः। मीरठ तथा देहली एवं नगरद्वये सैनिकाः एकत्रिता:। देहलीसिंहासनं स्वायत्तीकृतवन्तः । बहदुरशाहं भारतदेशचक्रवर्तिनं घोषितवन्तः।

सैनिकानां क्रान्तिः[सम्पादयतु]

स्वानुकूलं लिखितेषु इतिहासग्रन्थेषु आङ्ग्लेयाः एतं विषयं सैनिकानाम् अतिक्रमणमिति वर्णितवन्तः । एतेन केवलं सैनिका: एव एतस्मिन् भागं स्वीकृतवन्त: इति, अन्यजना: न स्वीकृतवन्त इति भावः कल्पितः अभवत् । एतस्मिन् प्रजाविप्लवे सैनिकाः पुरोभूताः सन्ति इति तु सत्यम्, किन्तु क्रान्त्यां भागभाज: न केवलं सैनिका: अपि तु राजानः, महाराजाः, सरदाराः (सामन्ताः), पेश्वा, नवाबजनाः (महमम्दीयराजाः), देहली चक्रवर्ती, अपि च हिन्दवः, महम्म्दीयाः, मौल्वीजनाः, पुरोहिताः इत्यादयः सर्वविधजना: आसन् । महिलाः अपि प्रमुखं स्थानम् ऊढवत्यः । १९,२० मासपर्यन्तं सङ्ग्रामः प्रचलन् एव आसीत् । इतिहासे यथा उक्तं तथा भारतीयाः पराजिता इति तु सत्यमेव । किन्तु दास्ये तप्यमानः कश्चन देशः स्वातन्त्र्यार्थं युध्दं कृत्वा बहुवारं पराजयं प्राप्तवान् चेदपि स: लज्जास्पदः विषयो नास्ति । सजीवसमाजस्य लक्षणं सः युध्द्यन्नेव अवतिष्ठेदिति । एषः कश्चिद् गौरवप्रदो विषयः । ईशवीये १७५२ तमे वर्षे मुघलचक्रवर्तिनः पुरतः जानुभ्याम् अवन्म्य वाणिज्यार्थम् अनुमतिं यदा प्रार्थितवन्तः तदा आङ्ग्लेयानां केवलं त्रयः भाण्डाराः एव आसन्, २० चतुरस्रक्रोशमिता भूमिरेवासीत् । शतवर्षेषु लक्षयोजनानां भूमिः तेषां वशं गता । देशस्य आर्थिकराजनैतिकस्थानद्वयं स्ववशे कृत्वापि सन्तॄप्तिं न प्राप्तवन्तः आङ्ग्लेयाः । भारतदेशेन तेषां मतधर्मोऽपि स्वीकरणीय इति ते भावयन्ति स्म । क्रैस्तमतं देशे व्यापयितुं शतधा प्रयतन्ते स्म । एतदपि प्रजानां उद्वेजनाय एकं कारणं जातम् ।

वह्निः प्रासरत्[सम्पादयतु]

राज्ञ्याः दिनचर्यायां किमपि परिवर्तनं नासीत् । पूजा, प्रार्थना इत्यादि दैनन्दिनकार्याणि कुर्वती एव युध्दार्थं सन्नाहं करोति स्म । कस्मिंश्चित् दिने कोऽपि तां पृष्टवान् " राज्ञि ! इदानीं एतद् युध्दशिक्षणादिकं किमर्थम् ? इतोऽपि अधिकसमयं भगवतः सेवायै भवती दातुं प्रभवति खलु " इति । राज्ञ्याः उत्तरं किमिति जानन्ति वा ? " अहमेका क्षत्रियमहिला अस्मि । मम कर्तव्यमहं करोमि । देशस्य, न्यायस्य रक्षणं क्षत्रियाणां कर्तव्यमस्ति । युध्दार्थं सर्वदा अस्माभिः सिध्दैः भाव्यम् । शत्रोः पुरतः शिरोनमनं मे असह्यो विषयः । काचित् निस्सहाया विधवा इव रुदती मर्तुम् अहं न इच्छामि । मम लक्ष्यार्थम् अहं युद्धं करोमि । हसन्ती एव मरणम् आह्वयामि ।" इति । जून्मासे चतुर्थदिनाङ्के मीरठ्नगरे क्रान्तिः जाता । तस्मिन् एव दिने झान्सीमध्ये अपि हानिकारकाः काश्चन सूचनाः अदृश्यन्त । एकः हवाल्दार् (दलनायकः) कांश्चन सैनिकान् स्वीकृत्य आङ्ग्लेयैः नूतनतया निर्मितं स्टारफोर्ट् इति दुर्गं प्रविष्टवान् । तत्रत्ययुध्दसामाग्रीं, धनं सर्वं च स्वायत्तीकृतवान् । शिबिरेषु स्थितानां महिलानां बालानांच पुरातनदुर्गे व्यवस्था कृता । आङ्ग्लाधिकारिणः राज्ञ्या: साहाय्यं प्रार्थितवन्तः । "परिस्थितिं नियन्त्रणे आनेतुं शक्नुमः इति अस्माकं सम्पूर्णविश्वासः अस्ति । किन्तु आस्मिन् कष्टसमये भवती अपि अस्माकं साहाय्यं करोतु" इति ते प्रार्थितवन्तः । "मम समीपे सेना वा आयुधानि वा न सन्ति । भवताम् अङ्गीकारः अस्ति चेत् प्रजारक्षणार्थं सेनायाः समीकरणं कर्तुम् अहं सिध्दा अस्मि " इति सा तान् उक्तवती । आङ्ग्लेयाः अङ्गीकृतवन्तः । किन्तु अनन्तरदिने सैनिकाः कञ्चन् अधिकारिणं यदा गोलास्त्रेण मारितवन्तः तदा ते भयभ्रान्ताः अभवन् । कश्चन अधिकारी धावन् राज्ञ्याः समीपम् आगतवान् -"वयं पुरुषाः, अस्माकं विषये भीतिः नास्ति । न्यूनातिन्यूनम् अस्माकं महिलाभ्य:, बालेभ्य: च भवत्याः भवने आश्रयं ददातु" इति प्रार्थितवान् । 'तादृशवाग्दानं किमपि मा करोतु’ इति सहचराः राज्ञीं सूचितवन्तः । तथापि सा सदृढं उक्तवती- " अस्माकं युध्दं केवलम् आङ्ग्लपुरुषैः सहैव, नतु तेषां महिलाभिः, बालैश्च । अस्मिन् विषये अहं मम सैनिकान् न निरुन्धे चेत् तेषां नेत्री कथं भवामि । आङ्ग्लमहिलाभ्यः, बालेभ्यश्च अस्माकं प्रासादे रक्षणं कल्प्यते " इति । राज्ञी वागदानं कृत्वा तूष्णीं न स्थितवती । तेषा कृते आश्रयं द्त्तवती, यावत् युद्धं प्रचलति स्म तावत् वासभोजनव्यवस्थया सह सर्वव्यवस्थाम् अपि कल्पितवती । नायकरहिता सेना आङ्ग्लेयान् जितवती । ते सैनिकाः झान्स्या: लुन्ठनं कर्तुं प्रयत्नं कृतवन्तः । राज्ञी तेभ्यः किञ्चित् ध्नं दत्तवती । तेन धनेन ते सन्तृप्ताः अभवन्, देहलीं प्रति प्रस्थिताश्च । अराजकं यथा न भवेत् तथा सर्वव्यवस्थां राज्ञी कल्पितवती । दलनायकः, ग्रामाधिकारिणः सर्वे राज्यभारं स्वीकर्तुम् राज्ञीम् ऐककण्ठ्यं प्रार्थितवन्तः । सा अङ्गीकृतवती । पुनः दुर्गे झान्सीराज्यपताका व्यराजत । झान्सीमध्ये रात्रिन्दिवं युध्दसन्नाहः प्रचलति स्म । नूतनानि आयुधानि निर्मितानि । चतुष्पञ्चदिनानि अतीतानि । तावदभ्यन्तरे राज्ञीं प्रति एका नूतना आपद् आगता । 'झान्सी परिपालिका काचन् अबला महिला’ इति विचिन्त्य सदाशिवरावनामक: कश्चन राज्ये एकस्मिन् कोणे क्रान्तिं कृत्वा आत्मानं राजा इति प्रकटितवान् । राज्ञी अनुक्षणं तत्र गत्वा तां क्रान्तिं शमितवती । तावता 'सर् रोज्’ इत्यस्य नायकत्वे आङ्ग्लसेना झान्सीं प्राप्तवती। " आयुधानि परित्यज्य मित्रैः सह बहिरागत्य मया मिलतु " इति सः लक्षीबायीं प्रति सन्देशं प्रेषितवान् । राज्ञी तिरस्कृतवती । सा 'यत्र कुत्रापि गच्छामि चेत् अपि सैन्येन सहैव गच्छामि’ इति प्रत्युत्तरं प्रेषितवती । ईशवीय १८५७तमवर्षस्य जूनमासतः १८५८ मार्चमासपर्यन्तं दशमासान् यावत् झान्सीपालनसमये लक्ष्मीबायी राज्ये अनेकपरिवर्तनानि आनितवती । कोशः पुनः धनेन पूरितः । सैन्यं पुनर्व्यवस्थितं जातम् । पुरुषसेनया सह महिलासेना अपि निर्मिता । सा 'गर्जनं’, 'भवानीशङ्कर:’, 'विद्युल्लता’ इत्यदि नामानि स्वशतध्नीनां कृतवती । ताः पुरुषाः, महिलाः च समानतया ज्वालयन्ति स्म । पुरातनानि आयुधानि तीक्ष्णीकृतानि । नूतनानि आयुधानि निर्मितानि । तेषु दिनेषु झान्सीपट्ट्णे सर्वस्मिन् गृहे युध्दसज्जता एव दृश्यते स्म । सर्वं महाराज्ञ्याः पर्यवेक्षणे एव प्रचलति स्म । १८५८ मार्च मासे २३ दिनाङ्के रोज् इत्यस्य नायकत्वे आङ्ग्लसेना झान्सीराज्यं प्रति युध्दं प्रकटितवती । १२ दिनपर्यन्तं लघुराज्यं झान्सी विज्यपराजययोर्मध्ये डोलायमानम् आसीत् । एकत्र विजयो लभ्यते चेत् अन्यत्र पराजयः प्राप्यते स्म । अनेके समर्थाः नायकः विगतजीवाः अभवन् । दौर्भाग्यवशात् बाह्यतः किञ्चित् साहाय्यम् अपि न लब्धम् ।

अपरा दुर्गादेवी[सम्पादयतु]

आङ्ग्लेयानां सेना विजृम्भ्य, झान्सीराज्यं यदा प्राविशत् तदा राज्ञी आयुधानि धृत्वा युध्दाय सन्नद्धा अभवत्। पुरुषवेषं धृत्वा अपरदुर्गादेवी इव अयुध्द्यत् । सा यत्र प्रत्यक्षीभवति स्म तत्र आङ्ग्लसेना पलायते स्म । झान्सीराज्यस्य महिलासैन्यं पुरुषैः समानम् आसीत्। महिलाभिः कृतं वीरोचितं युध्दं दृष्ट्वा स्वयम् आङ्ग्लसेनानायकः रोज आश्च्र्यचकितो जातः । क्रमशः स्थितिः स्ववशात् च्यवते इति ज्ञातवती राज्ञी । तत्क्षणं स्वीयजनानां समावेशं कल्पितवती । " अस्माकं सैन्याधिपति:, वीरसैनिका:, शतध्निदलानि च नष्टानि सन्ति। दुर्गस्थेषु पञ्चसहस्रसैनिकेषु अधुना पञ्चशतं अपि जीविताः न सन्ति । दुर्गमपि सुरक्षितं नास्ति । अतः वयं यावच्छक्यं शीघ्रं एतं प्रदेशं त्यक्त्वा गच्छामः । पुनः सैन्यं समीकृत्य आक्रमणं कुर्मः " इत्युक्तवती । सर्वे तस्याः वचनम् अङ्गीकृतवन्तः । कांश्चन वीरान् स्वीकृत्य राज्ञी शत्रुसैनिकानां पङ्क्तीः विदारयन्ती झान्सीतः बहिः सवेगं निर्गतवती । बोकर् इति कश्चन आङ्ग्लाधिकारी अल्पां सेनां स्वीकृत्य ताम् अनुधावितवान् । तदा य: सङ्घर्ष: जात: तस्मिन् सः व्रणित: भूत्वा मन्दवेगः अभवत् । राज्ञ्याः अश्वोऽपि तस्मिन् घर्षणे मृतः किन्तु राज्ञी न विचलिता । ततः सा 'काल्पि’ इति स्थानं गत्वा तात्यातोपेमहोदयेन, रावसाहेबेन च मिलितवती ।

दीपनिर्वापणात् पूर्वम्[सम्पादयतु]

काल्पिमध्येऽपि राज्ञी सैन्यसमीकरणमारब्धवती । रोज् स्वसैन्येन काल्पिम् अपि निबध्दवान् । पराजयः अवश्यं भवतीति राज्ञ्या ज्ञातम् । अनुक्षणं रावसाहेबः, तात्यातोपे, अन्ये केचन योध्दारः राज्ञ्या सह ग्वालियर् प्रति प्रस्थितवन्तः । गोपालपुरं प्राप्तवन्तः । तस्यां रात्रौ रावसाहेब- तात्या-बान्दासाहेबानां मध्ये समावेशः प्राचलत् । अनन्तरदिने ते राज्ञ्या सह समाविष्टाः । 'इतः युध्दं नैव कर्तव्यम्’ इति तेषामभिप्रायः । किन्तु राज्ञी "वयं यावत्पर्यन्तं दुर्गे आस्म तावत्पर्यन्तं आङ्ग्लेयान् विरुध्द्य युध्दं कृतवन्तः । युध्दम् अधुनापि करणीयम् एव । ग्वालियर् दुर्गं समीपे एवास्ति । तत्रत्यः राजा आङ्ग्लेयानाम् अनुकूलः इति तु स्त्यमेव । किन्तु सेना, प्रजाश्च आङ्ग्लेयानां विरुध्दाः इति अहं जानामि । तावदेव न, तत्र् विस्फोटनसामग्रय:, गोलकास्त्राणि च अधिकप्रमाणेन लभ्यन्ते" इति दृढमुक्तवती । राज्ञ्याः सूचनां सर्वे अङ्गीकृतवन्तः । अल्पसेनया यदा तात्या तत्र गतवान् तदैव तत्रत्यसेनातः अधिकसंख्याकाः तस्य पक्षं प्राप्तवन्तः । ग्वालियर्महाराजः आगरां गत्वा आङ्ग्लेयानां शरणं गतः । तावत्पर्यन्तम् उत्तमम् एव आसीत् । किन्तु पूर्वतनमूर्खत्वम् एव पुनरावृत्तम् । राज्ञीं, तस्याः सुहृदः च विहाय सर्वे दलपतयः आनन्दे मग्नाः । राज्ञ्या दूरदृष्ट्या कृतां सूचनां ते न परिगणितवन्तः? । एतादृश-आनन्देभ्यः दूरं स्थिता राज्ञी ग्वालियर् दुर्गस्थानि मुख्यस्थानानि परिशील्य कानिचन् परिवर्तनानि सूचितवती । किन्तु अन्यदलपतयः तस्याः सूचनाः न लक्षितवन्तः ।

युध्दम् समाप्तम्[सम्पादयतु]

इतोऽपि कञ्चित्कालं प्रतीक्षां कर्तुं सिध्दो नासीत् रोज् । ईशवीये १८५८ तमे वर्षे जूनमासे १७ दिनाङ्के युध्दं पुनरारब्धम् । राज्ञी पुरुषवेषं धृत्वा युध्दाय सिध्दा अभवत् । रोज् एकं कुतन्त्रं रचितवान् । ग्वालियर्तः पलायित्वा आगरामध्ये आङ्ग्लेयानाम् आश्रयं प्राप्तवन्तं जयाजीरावसिन्धियां ग्वालियर् प्रति आनायितवान् । " महाराजं जयाजीरावं पुनः सिंहासने प्रतिष्ठापयितुमेव वयं युध्दं कुर्मः । अतः पुनः ये एतत्पक्षम् आगन्तुम् इच्छन्ति तान् सैनिकान् क्षाम्यामः " इति रोज् प्रकटितवान् । तदा एव पेश्वाजनानां विवेको जागरित: । राज्ञ्याः पुरतः मुखं दर्शयितुमपि ते लज्जाम् अनुभूतवन्तः । तात्यां प्रेषितवन्तः । राज्ञी तस्य पुरतः स्वस्य युध्दव्यूहं प्रदर्शितवती । तात्या तं व्यूहं समर्थितवान् । राज्ञ्याः सेना सङ्ख्यापरतया यद्यपि अल्पा, तथापि दलनायकानाम् असाधारणसाहसस्य युध्दव्यूहस्य, राज्ञ्याः पराक्रमस्य च कारणेन तस्मिन् दिने आङ्ग्लसेना अत्यधिकतया हानिं प्राप्तवती । तस्य दिनस्य विजयगौरवं सर्वमपि राज्ञ्या एव प्राप्तम् । अनन्तरदिने १८ दिनाङ्के आङ्ग्लेयाः सूर्योदयात पूर्वमेव युध्दभेरीः निनादितवन्तः । महाराजेन जयाजीरावेण प्रकटितां क्षमाभिक्षां स्वीकृत्य केचन सैनिकाः आङ्ग्लपक्षम् आश्रितवन्तः । रावसाहेबस्य समीपे स्थितेन सेनावाहिनीद्वयेन आङ्ग्लपक्षः अवलम्बितः इति वार्ताऽपि आगता । राज्ञी लक्ष्मीबायी रामचन्द्ररावदेशमुखम् आहूतवती - " अद्य युध्दस्य अन्तिमदिनमिति भाति । यदि अहं मरणं प्राप्नोमि, तर्हि मम पुत्रस्य दामोदररावस्य जीवितं मम जीवितादपि मूल्यवत् इति गणयतु । तं जागरुकतया पालयतु " इति सूचितवती ।" मम मरणानन्तरं मम पार्थिवशरीरं अन्यमतधर्मीयाणां हस्ते न पतेत्" इत्यपि सा प्रार्थितवती । रोज् समीपे अधिका सैनिकशक्तिः आसीत् । क्रान्तिकारिणां सेना आङ्ग्लसैनिकैः विनाशिता । तेषां शतध्नयः अपि आङ्ग्लेयैः प्राप्ताः । एका महोर्मिरिव आङ्ग्लेयसेना ग्वालियरदुर्गाभिमुखं कूर्दितवती । इतः अन्यत्र गमनं विना मार्गान्तरं न दृश्यते राज्ञ्याः । अश्वस्य खलीनं दन्तैः गृहीत्वा हस्तद्वयेन खड्गद्वयं धृत्वा सा अग्रे गच्छन्ती आसीत् । केचन पठाननायकाः, रघुनाथसिंहः, रामचन्द्ररावदेशमुखः इत्यादयः अपि तया सह प्रस्थिताः । आङ्ग्लेयसेना तान् परितः व्यूहं रचितवती । रक्तप्रवाहाः प्रवहन्ति स्म । पश्चिमायां दिशि अस्तं गच्छ्न् सूर्योऽपि रक्तवर्णं प्राप्तवान् । अन्धकारः व्याप्यते । कश्चन् आङ्ग्लसैनिकः राज्ञ्याः अत्यन्तसमीपम् आगतवान् । तस्याः वक्षः स्थलं लक्ष्यीकृत्य भल्लं क्षिप्तवान् । राज्ञी तं सैनिकं स्वखड्गेन खण्डितवती । तस्याः शरीरं सर्वमपि व्रणयुक्तमासीत् । रक्तं प्रवहति स्म । तथापि विश्रान्तिं स्वीकर्तुं समयः नासीत् । आङ्ग्लसेना पृष्ठत: अनुधावन्ती आसीत् । राज्ञी यदा स्वर्णरेखानदीं पारयति स्म तदा केनचन आङ्ग्लसैनिकेन प्रयुक्तं गोलकम् तस्याः दक्षिणभुजं प्रविष्टम् । अनुक्षणं वामहस्तस्थेन खड्गेन सा तस्य शिरः कर्तितवती । अश्वः अपि राज्ञ्याः सहकारं कर्तुं नाशकत् । राज्ञ्याः एकः हस्तः युध्दाय अयोग्यः जातः । उदरात् रक्तं स्रवति स्म । शरीरे सर्वत्र व्रणाः जाताः । अक्षिद्वयं स्वयं निमील्यते । तस्याः दुरवस्थां दृष्ट्वा तस्याः अङ्गरक्षकः गुल् महाम्मदः अपि रोदनं कृतवान् । रघुनाथसिंह-रामचन्द्ररावादीनां साहाय्येन राज्ञी अश्वात् अवरुढा । " इदानीम् एकं क्षणमपि विलम्बं कर्तुं नैव शक्नुम:। त्वरया समीपस्थं बाबागङ्गदासस्य आश्रमं गच्छामः" इत्युक्तवान् रघुनाथसिंहः । रुदन्तं राज्ञ्याः दत्तकपुत्रं दामोदररावं अश्वे आरोहिपतवान् रामचन्द्ररावः । राज्ञीं भुजेन उन्नीय गङ्गादासस्य आश्रमदिशं धावितवान् । तेषां रक्षकरूपेण रघुनाथसिंहगुल् महम्म्दौ अनुधावितवन्तौ । तस्मिन अन्धकारे एव बाबा गङ्गादासः रक्तसिक्तं राज्ञ्याः मुखं ज्ञातवान् । शीतेन जलेन तस्याः मुखं क्षालितवान् । गङ्गाजलं पायितवान् । राज्ञी किञ्चिदिव जागरिता । कम्पमानेन कण्ठस्वरेण एकवारं 'हर हर महदेव' इति तु उक्तवती । अनन्तरं पुनः तस्याः शरीरं निश्चेतनं जातम् । किञ्चित्कालानन्तरं अतिकष्टेन पुनः नेत्रे उन्मील्य बाल्ये स्वेन अभ्यस्ताया: भगवद्गीतायाः श्लोकान् शनैः उच्चरन्ती आसीत् । तस्याः कण्ठस्वरः क्रमशः क्षीणः अभवत् । 'हे कृष्ण ! भवन्तम् अहं प्रणमामि’ इति तस्याः अन्तिमवचनानि । झान्सीराज्यस्य भाग्यरेखा अस्तङ्गता । रघुनाथसिंह- गुलमहम्म्द्- दामोदररावादीनां नेत्रेभ्यः अश्रुधाराः प्रसृताः । बाबागङ्गदासः पवित्रस्वरेण उक्तवान् " प्रकाशस्य अन्तः नास्ति । प्रतिकणं सः निगूढं तिष्ठति । योग्ये समये स्वयं प्रकाशते च" इति। राज्ञ्याः पार्थिवशरीरं तत्रैव अग्निज्वालाभ्यः आहुतीकृतम् ।

चैतन्यमूर्तिः महिला[सम्पादयतु]

झान्सी स्थित: मन्दिरे रानीलक्ष्म्याः मूर्तिचित्रम्

झान्सीराज्ञी लक्ष्मीबायी केवलं भारतदेशे एव न, अपि च सर्वस्मिन् विश्वे महिलाजाते: गौरवं कल्पितवती । तस्याः जीवनं पवित्रम् । परिपूर्णनारीत्वस्य, साहसस्य, अमरदेशभक्तेः, आत्मस्मर्पणस्य च उत्तेजकरा गाथा एव तस्याः जीवितम् । सा महिला, तथापि सिंहसमानतेजस्विनी । राजकर्येषु चतुरा । अन्यसमयेषु साधारणमहिलाभिः समाना । आयुधं धृत्वा युद्धरङ्गे स्थिता सा अपरकालीदेवी एव । वयः अल्पं, तथापि तस्याः दीर्घदर्शितायां, दृढनिर्णये च पक्वता स्पष्टं दृश्यते स्म । पितुः लालनम् अनुभूय भर्त्रा सह श्वशुर्गृहप्राप्त्यनन्तरं सा एका आदर्शपत्नी इव सर्वोत्तमं व्यवहारं कृतवती । पत्युः मरणानन्तरं जीविते विरक्ताऽपि स्वकर्तव्यं न विस्मृतवती । सा निष्ठावती हिन्दुः । अन्यमतधर्माणां विषये तस्याः सम्पूर्णसहिष्णुता आसीत् । यत्रकुत्रापि युध्दार्थं गच्छति चेत् तस्याः सेनायां हिन्दुभिः सह महम्म्दीयाः अपि अग्रे सहचराः भवन्ति स्म । लक्ष्मीबायी ईशवीये १८३५ तमवर्षस्य नवम्बरमासस्य १९ दिनाङ्कत: १८५८ तमवर्षस्य जून् मासस्य १८ दिनाङ्कपर्यन्तं इत्युक्ते २२ वर्षाणि ६ मासान् च जीवितवती । गाढान्धकारे काचित् विद्युल्लता इव विद्योत्य तिरोभूता सा । राज्ञ्या सह अनेकवारं युध्दं कृत्वा पराजयं प्राप्य, अन्ते तां पराजितवान् सर् रोज इति आङ्ग्लसैन्याधिकारी । सः तस्याः विषये अवदत् - "क्रान्तिकारिणां सर्वेषां मध्ये अत्यन्तं साहसवती, सर्वेभ्यः अत्युत्तमा सेनानेत्री च राज्ञी लक्ष्मीबायी" इति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

]

"http://sa.wikipedia.org/w/index.php?title=झांसी_लक्ष्मीबाई&oldid=278768" इत्यस्माद् पुनः प्राप्तिः