टप्पा

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

टप्पा (Tappa) हिन्दुस्तानीशास्त्रीयसङ्गीतप्रकारेषु अन्यतमः । हिन्दुस्तानीशास्त्रीयसङ्गीते नैके प्रकाराः विद्यन्ते । ध्रुपद् उत् ध्रुवपद, होरि उत धमार्, खयाल् उत ख्याल्, ठुमरि, टप्पा, दाद्रा, तराना, तिरवत्, गजल्, खव्वालि, सादरा, खमसा, लावणि, चतुरङ्ग,भजन्, सरगम्, रागमाला इत्यादयप्रकाराः सन्ति । तेषु अन्यतमः प्रकारः टप्पा भवति । पञ्जाबिभाषायां अस्य टप्पा पदस्य कूर्दनम् इत्यर्थः । अयं प्रकारः ठुमरि प्रकारस्यापेक्षया कठिणं भवति । अतः ’टप्पा’ प्रकारस्य गायकाः न्यूनाः सन्ति । पोश्तो, उर्दु, पञ्जाबिभाषासु टप्पा गीतानि सन्ति । शोरिमिया इत्यनेन १८ तमे शतके अस्य प्रकारस्य आविष्कारमकरोत् । अनेनैव नैकानि गीतानि रचितानि । स्वयमेव अस्य प्रकारस्य प्रचारमपि कृतवान् । टप्पा प्रकारः गच्छताकालेन लखनौ तथा वारणस्यां प्रचारं सम्प्राप्य जनमनरञ्जकः प्रकारः जातः । प्रायशः टप्पा गायनं मध्यलये कुर्वन्ति । अवरिहि, गमक, तान्, इत्याख्यानि अस्य प्रकाराय विशेषतया रञ्जकोत्पत्यादिषु सहकृतानि भवन्ति । शृङ्गाररसस्य प्रतिपादकः प्रकारः भवति । अस्मिन् प्रकारे ’स्थायी’ तथा ’अन्तरा’ इति द्वे विभागे भवतः । साधारणतया ठुमरि प्रकारं एषु रागेषु गायन्ति तेषु एव टप्पा प्रकारमपि गायकाः गायन्ति ।

प्रसिद्धाः[सम्पादयतु]

  • पण्डित् शङ्कररावः अस्य प्रकारस्य प्रसिद्धः गायकः ।
  • पण्डित् शरच्चन्द्रः आरोळकर् सध्यःकालीनः प्रसिद्धः गायकः भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=टप्पा&oldid=265743" इत्यस्माद् पुनः प्राप्तिः