टिहरीगढवालमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
टिहरीगढवालमण्डलम्

Tihri Gadwal District
टिहरीगढवाल जिला
टिहरीगढवालमण्डलम्
टिहरीगढवालमण्डलस्य बालेश्वरशिवमन्दिरम्
देशः  India
राज्यम् उत्तराखण्डः
उपमण्डलानि टेहरी, धनौल्टी, प्रतापनगर, घंसाली, जखनीधर, नरेन्द्रनगर, देवप्रयाग
विस्तारः ४,०८० च.कि.मी.
जनसङ्ख्या(२०११) ६,१८,९३१
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
साक्षरता ८७.३६%
भाषाः गढवाली, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website http://tehri.nic.in/

टिहरीगढवालमण्डलम् ( /ˈtɪhərɪɡədhəvɑːləməndələm/) (हिन्दी: टिहरीगढवाल जिला, आङ्ग्ल: Tehri Gadwal District) उत्तराखण्डराज्यस्य गढवालविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति टिहरी इति नगरम् । टिहरीगढवालमण्डलं कृषि-जलपात-वन्यविविधता-शिक्षणादिभ्यः प्रख्यातमस्ति ।

भौगोलिकम्[सम्पादयतु]

टिहरीगढवालमण्डलस्य विस्तारः ४,०८० च.कि.मी.-मितः अस्ति । उत्तराखण्डराज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि उत्तरकाशीमण्डलं, दक्षिणदिशि पौरीगढवालमण्डलं, पूर्वदिशि रुद्रप्रयागमण्डलं, पश्चिमदिशि देहरादूनमण्डलम् अस्ति ।

जनसङ्ख्या[सम्पादयतु]

टिहरीगढवालमण्डलस्य जनसङ्ख्या(२०११) ६,१८,९३१ अस्ति । अत्र २,९७,९८६ पुरुषाः, ३,२०,९४५ स्त्रियः, ८४,६५७ बालकाः (४४,६३४ बालकाः, ४०,०२३ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २.३५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०७७ अस्ति । अत्र साक्षरता ८७.३६% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं – ८९.७६% स्त्री - ६४.२८% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- टिहरी, धनौली, प्रतापनगर, घंसाली, जखनीधर, नरेन्द्रनगर, देवप्रयाग

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि विक्षणीयस्थलानि सन्ति । यथा-

  1. बुधकेदार
  2. देवप्रयागः
  3. खट्लिङ् ग्लेसियर्
  4. नरेन्द्रनगर
  5. चम्बा
  6. धनौली
  7. कुञ्जपुरी
  8. टिहरी-नगर
  9. सुरकन्दादेवी

बाह्यानुबन्धः[सम्पादयतु]

http://tehri.nic.in/

http://www.mapsofindia.com/maps/uttaranchal/districts/tehrigarhwal.htm

http://dcteh.uk.gov.in/ Archived २०१४-०२-०८ at the Wayback Machine

http://villagemap.in/uttarakhand/tehri-garhwal.html

"https://sa.wikipedia.org/w/index.php?title=टिहरीगढवालमण्डलम्&oldid=481574" इत्यस्माद् प्रतिप्राप्तम्