ठुमरि

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

ठुमरि (Thumri) हिन्दुस्तानीशास्त्रीयसङ्गीतप्रकारेषु अन्यतमः । हिन्दुस्तानीशास्त्रीयसङ्गीते नैके प्रकाराः विद्यन्ते । ध्रुपद् उत् ध्रुवपद, होरि उत धमार्, खयाल् उत ख्याल्, ठुमरि, टप्पा, दाद्रा, तराना, तिरवत्, गजल्, खव्वालि, सादरा, खमसा, लावणि, चतुरङ्ग,भजन्, सरगम्, रागमाला इत्यादयप्रकाराः सन्ति । तेषु अन्यतमः प्रकारः ठुमरि भवति । ठुमरि प्रकारः भावनाप्रधानः भवति । अस्मिन् प्रकारे खयाल् प्रकारस्यापेक्षया गायने स्वातन्त्र्याधिक्यं भवति । विप्रलम्भशृङ्गारकरुणरसयोः प्रतिपादकः प्रकारः भवति । नृत्यगानस्य आङ्गं भवति अयं प्रकारः। अस्मिन् प्रकारे मूलरागाणां सह स्वान्तरङ्गाय यथा मिलिताः भवन्ति, तादृश अन्यान्य रागाणां योजना शक्या ।

इतिहासः[सम्पादयतु]

“शोरिवंशस्य” गुलाम् नबि इत्यने अस्य प्रकारस्य आविष्कारः कृतः । गच्छताकाले लखनौ प्रान्तस्य “वझीर् अलीशाहस्य” आस्थाने ‘कदरपीया’,’ललनपियौ’ आस्ताम् । एतौ उभौ अपि अस्य प्रकारस्य प्रचारं प्रसिद्धिञ्च सम्पादितवन्तौ । एवं बन्दादीन् महाराज् नामकोऽपि ठुमरि गीतानि रचयित्वा प्रचारं कृतवान् । ठुमरि प्रायः पीलु, काफि, खमाज, देश, झंझोटि, जोगिया, पहाडि, तिलक् कामोदादिषु रागेषु गायन्ति । अस्मिन् प्रकारे स्वराणां सूक्ष्मविन्यासाय अवकाशोऽस्ति । भावरसप्रदर्शनाय विशेषतया अयं प्रकारः सहायं करोति । ठुमरि प्रकारं प्रायः ‘पूरब्’, ‘पञ्जाबि’, ‘दिल्लि’, ‘पहाडि’ चतुर्षु अङ्गेषु (विभागेषु) गायन्ति ।

प्रसिद्धाः गायकाः[सम्पादयतु]

  • प्राचीनाः

बडीमैना, छोटीमैना तथा विद्याधरी अन्याश्च।

  • नव्याः

भय्यागणपतराव्, मौजद्दीन खान्, गिरिजादेवी, अब्दुल् करींखान्, सोनीजि, भय्याश्याम लालजी, उस्ताद् बरकत अलीखान्, उस्ताद बडेगुलाम् अलीखान्, सिद्देश्वरीदेवि, बडिमोतीबायि, रसूलन् बायि, बेगम् अख्तर्, गिरिजादेवी, सुरेशबाबु इत्यादयः भवन्ति।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=ठुमरि&oldid=265781" इत्यस्माद् पुनः प्राप्तिः