डाङ्गमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
डाङ्गमण्डलम्
मण्डलम्
गुजरातराज्ये डाङ्गमण्डलम्
गुजरातराज्ये डाङ्गमण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters आहवा
Area
 • Total १,७६४ km
Population
 (२०११)
 • Total २,२६,७६९
Languages
 • Official गुजराती, हिन्दी
Website dang.gujarat.gov.in
दक्षिणगुजरात

डाङ्गमण्डलम् (गुजराती: ડાંગ જિલ્લો, आङ्ग्ल: Dang district) इत्येतत् गुजरातराज्ये विद्यमानं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति आहवा इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

डाङ्गमण्डलस्य विस्तारः १,७६४ चतुरस्रकिलोमीटर्मितः अस्ति । इदं मण्डलं गुजरातराज्यस्य दक्षिणभागे अस्ति । अस्य मण्डलस्य पूर्वे महाराष्ट्रराज्यं, पश्चिमे नवसारीमण्डलम्, उत्तरे तापीमण्डलं, दक्षिणे महाराष्ट्रराज्यम् अस्ति । अस्मिन् मण्डले ३,०४८ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले चतस्रः नद्यः प्रवहन्ति । ताः यथा- पूर्णा, गीरा, खापरी, अम्बिका ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणम् अस्य मण्डलस्य जनसङ्ख्या २,२६,७६९ अस्ति । अत्र १,१२,९७६ पुरुषाः १,१३,७९३ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १०६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १०६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.४४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००७ अस्ति । अत्र साक्षरता ७६.८०% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले एकमेव उपमण्डलम् अस्ति । तत्- आहवा

पत्तनानि[सम्पादयतु]

गीरमाल, वघाई, सापुतारा, महाल च अस्य मण्डलस्य प्रमुखपत्तनानि सन्ति ।

कृषिः वाणिज्यं च[सम्पादयतु]

इदं मण्डलं कृषिप्रधानम् अस्ति । तण्डुलः, रागी, 'खरसनी', कलायः, आम्रफलं, सीताफलं च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । कृषिः, क्षीरोत्पादनं, प्रवासोद्यमः च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले विद्यमानः सापुतारापर्वतः तु सुप्रसिद्धः 'हिल्-रेजोर्ट्' अस्ति । सापुतारा-वस्तुसङ्ग्रहालयः एकं वीक्षणीयस्थलम् अस्ति । सापुतारातः ६ किलोमीटर्दूरे स्थितः हाथगढदुर्गः अपरं वीक्षणीयस्थलम् अस्ति । वघाईतः ३ किलोमीटर्दूरे विद्यमानः गीराजलपातः सुन्दरं वीक्षणीयस्थलम् अस्ति । अस्मिन् मण्डले विद्यमानं पूर्णा-वन्यजीविधाम अनेकानां वन्यजीविनां, बहूनां बृहद्वृक्षाणां च गृहम् अस्ति । वांसदा-राष्ट्रियोद्यानमपि प्रसिद्धं वीक्षणीयस्थलम् अस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=डाङ्गमण्डलम्&oldid=458240" इत्यस्माद् प्रतिप्राप्तम्