डा. शान्तिस्वरूप भट्नागरः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

फलकम्:Underlinked

शान्तिस्वरूप भट्नागरः (पञ्जाबि - ਸ਼ਾਂਤੀ ਸਵਰੂਪ ਭਟਨਾਗਰ) (फेब्रवरि २१, १८९४ - जनवरि १, १९५५) कश्चन प्रसिद्धः भारतीयविज्ञानी ।

बाल्यजीवनम्[सम्पादयतु]

भट्नागरः इदानीन्तनस्य पाकिस्थानस्य षहापुरे जातः । तस्य पिता परमेश्वरी सहै भट्नागरः तदीये अष्टमे मासे एव दिवङ्गतः । अतः सः बाल्ये मातामहस्य गृहे आसीत् । मातामहः कश्चन तन्त्रज्ञः । बाल्यादारभ्य स्वरूप भट्नागरस्य आसक्तिः तु विज्ञान-तन्त्रज्ञानयोः विषये आसीत् । यान्त्रिकक्रीडनकानि, विद्युत्कोशः, तन्तुदूरवाणी इत्यादिभिः एव सः सन्तोषम् अनुभवति स्म । मातृवंशतः सः कवित्वमपि आप्नोत् । तेन लिखितेन 'करमति'नामकेन एकाङ्कनाटकेन प्रथमपुरस्कारः प्राप्तः आसीत् कस्यांश्चित् स्पर्धायाम् ।

संशोधनानि[सम्पादयतु]

भारते स्नातकोत्तरपदवीं प्राप्य सः संशोधनाय इङ्ग्लेण्ड्देशम् अगच्छत् । रासायनिकशास्त्रस्य प्राध्यापकस्य फ्रेड्रिक् जि डोन्ननस्य मार्गदर्शने१९२१ तमे वर्षे लण्डन् युनिवर्सिटि कालेज्तः तेन विज्ञाने विद्यावारिधिः (DSc) अधिगता । भारतं प्रति प्रत्यागमनानन्तरं बेनारस् विश्वविद्यालयतः सः प्राध्यापकपदेन पुरस्कृतः । ब्रिटिश्-सर्वकारेण १९४१ तमे वर्षे तेन कृतं वैज्ञानिकसंशोधनं पुरस्कृत्य नैट्पदेन सम्मानितः । १९४३ तमे वर्षे सः रायल्-सोसैटि-सदस्यत्वेन चितः । तस्य संशोधनविषयाः आसन् भौतिकरसायनशास्त्रम्, औद्यमिकरसायनशास्त्रम् इत्यादयः । किन्तु तस्य प्रमुखं योगदानं तु अयस्कान्तीयरसायनशास्त्रविषये एव । रासायनिकप्रतिक्रियाणाम् अध्ययनाय सः अयस्कान्तत्वम् उपकरणत्वेन उपयुक्तवान् । भौतशास्त्रज्ञेन भट्नागरवर्येण सह कार्यं कृत्वा भट्नागर्-मथूर्-इण्टर्फेरेन्स्-बेलेन्स्-उपकरणस्य विन्यासम् अकरोत् । तेन बनारस्-हिन्दु-विश्वविद्यालयाय कुलगीतमेकं रचितं यच्च विश्वविद्यालयीयकार्यक्रमाणाम् आरम्भे श्रद्धया गीयते ।

भारते कार्याणि[सम्पादयतु]

प्रधानमन्त्री नेहरू वैज्ञानिकप्रगतेः विषये विशेषतया आदरवान् आसीत् । १९४७ तमे वर्षे स्वातन्त्र्यस्य प्राप्तेः अनन्तरं डा भट्नागर्-वर्यस्य आध्यक्षे तेन वैज्ञानिक-औद्यमिक-संशोधनाकेन्द्रं (Council of Scientific and Industrial Research (CSIR)) व्यवस्थापितम् । तस्य केन्द्रस्य प्रथममहानिर्देशकः आसीत् भट्नागरः । 'संशोधन-प्रयोगालयानां पिता' (The Father of Research Laboratories) इति प्रसिद्धः सः भारते विविधेषु स्थलेषु रासायनिकप्रयोगालयान् समस्थापयत् । सः मैसूरु, पुणे, नईदिल्ली, जम्शेड्पुर, धान्बाद् इत्यादिषु द्वादशसु स्थलेषु राष्ट्रियप्रयोगालयान् संस्थापितवान् ।

होमि जहाङ्गीर् बाबा, प्रशान्त चन्द्र महलनोबिस्, विक्रम् अम्बलाल् साराभाइ प्रभृतिभिः सह शान्ति स्वरूप भट्नागरः भारतस्य विज्ञान-तन्त्रज्ञान-सिद्धान्तानां प्रणयने प्रमुखं स्थानम् अवहत् । विश्वविद्यालय-अनुदान-समितेः प्रथमाध्यक्षः आसीत् भट्नागरः ।

सः भारतसर्वकारस्य शैक्षणिकमार्गदर्शकः, शिक्षणमन्त्रिणः कार्यदर्शी च आसीत् । १९४८ तमस्य वर्षस्य वैज्ञानिक-मानवशक्तिसंस्थायाः इतिवृत्तस्य सूक्श्ह्मचिन्तने सज्जीकरणे च महत्त्वपूर्णं पात्रम् अवहत् । सः १९२१ तः १९४० पर्यन्तं बेनारस् हिन्दु विश्वविद्यालये पञ्जाब् विश्वविद्यालये च प्राध्यापकत्वेन कार्यम् अकरोत् । सः प्रेरणाप्रदः शिक्षकः आसीत् । पाठनं तस्य प्रियं कार्यम् आसीत् । भारतस्य नेषनल् रिसर्च् डेवलप्मेण्ट् कार्पोरेषन् संस्थायाः उगमे तस्य प्रयासः महान् । एषा संस्था संशोधन-वर्धनयोः सेतुरूपेण कार्यम् अकरोत् । विज्ञान-शिक्षणक्षेत्रयोः प्रगत्यै धनसाहायार्थं सः बहून् जनान् संस्थाः च प्रैरयत् । तदीया उर्दुभाषीयप्रौढिमा श्लाघनीया ।

तस्य मरणानन्तरं तस्य गौरवरूपेण उत्कृष्ट-विज्ञानिने शान्तिस्वरूपभट्नागर्-पुरस्कारः व्यवस्थापितः वैज्ञानिक-औद्यमिक-संशोधनाकेन्द्रेण ।