डा. सालिम् अलिः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Salim ali mns.jpg
पीतवर्णकण्ठयुक्तौ चटकौ

(कालः – १२. ११. १८९६ तः १९८७)

एषः डा. सालिम् अलिः (Dr. Salim Ali) भारतस्य सुप्रसिद्धः पक्षिप्रियः विज्ञानी । अयं डा. सालिम् अलिः “भारतीय पक्षिशास्त्रस्य (अर्निथालजि) पितामहः” इत्येव प्रख्यातः आसीत् । १८९६ तमे वर्षे नवेम्बर्-मासस्य १२ दिनाङ्के अस्य पक्षिप्रियस्य डा. सालिम् अलिमहोदयस्य जन्म अभवत् । तस्य पितरौ बाल्ये एव दिवङ्गतौ । तस्मात् कारणात् सः मातुलस्य गृहे एव अवर्धत । तत्र तु बहवः अनाथाः, बन्धूनां, मित्राणां च बालाः आसन् । तैः सह एव एषः डा. सलीम् आलि अपि अवर्धत । एषः डा. सलीम् आलि उपायनत्वेन प्राप्तेन "डैसि एर्गन्” नामकेन यन्त्रेण सदा चटकानां वीक्षणं कुर्वन् भवति स्म । तथा वीक्षणावसरे कदाचित् तेन पीतवर्णस्य कण्ठयुक्तः चटकः दृष्टः । सः अनुक्षणं मातुलम् "अस्य चटकस्य कण्ठः किमर्थं पीतवर्णीयः ?” इति अपृच्छत् । तदा मातुलः "अहं न जानामि” इति अवदत् । अनन्तरं सः एतं डा. सलीम् आलिं "बाम्बे नाचुरल् हिस्टरि सोसैटि” (Bambay Natural History Soceity) प्रति अनयत् । तत्र तस्याः संस्थायाः गौरवकार्यदर्शी डब्ल्यु. एस्. मिलियार्ड् चटकानां प्रभेदान् सम्यक् विवृणोत् । तदा पक्षीणां विषये अस्य डा. सालिम् अलेः आसक्तिः अधिका अभवत् ।


एषः डा. सालिम् अलिः अनन्तरं पक्षिणाम् अभिज्ञानस्य विषये, मृतानां पक्षीणाम् आन्तरिकं भागं रिक्तीकृत्य तत्र अन्यानि वस्तूनि पूरयित्वा तस्य पक्षिणः आकरस्य रक्षणस्य विषये च ज्ञातवान् । एषः तस्मिन् समये कस्मात् अपि विश्वविद्यालयात् कामपि पदवीं न प्राप्तवान् आसीत् । अतः बन्धूनां खनिकार्यस्य तक्षककार्यस्यवाणिज्यस्य निर्वहणार्थं बर्मादेशम् (इदानीन्तनः मयन्मार्-देशः) अगच्छत् । तत्र गत्वा अपि अरण्येषु पक्षिवीक्षणं कुर्वन् अटितवान् । अतः वाणिज्यं तत्रैव परित्यक्तम् अभवत् । अनन्तरं सः डा. सलीम् आलि बर्लिन्-देशे प्रख्यातस्य पक्षिविज्ञानिनः स्ट्रीस्मानस्य मार्गदर्शने पक्षिविज्ञानस्य अध्ययनम् अकरोत् । स्वप्रयत्नेन एव प्राणिविज्ञानम् अपि अधीतवान् । ततः प्रत्यागमनस्य अनन्तरम् अपि तेन डा. सलीम् आलिना योग्यः उद्योगः न प्राप्तः एव । पत्न्या प्राप्यमाणेन अल्पेन एव आयेन तस्य कुटुम्बस्य निर्वहणं प्रचलति स्म ।

एषः डा. सालिम् अलिः स्वस्य गृहस्य पुरतः विद्यमाने वृक्षे निवसतां "वीवर्” पक्षिणां विषये सम्यक् अध्ययनं कृत्वा १९३० तमे वर्षे सविवरणं पुस्तकं प्रकाशितवान् । तत् पुस्तकं बहु प्रसिद्धम् अभवत् । तम् एव अवसरम् उपयुज्य "बाम्बे नाचुरल् हिस्टरि म्यूसियं” मध्ये विना वेतनं कार्यम् आरब्धवान् । तदनन्तरं रजाश्रये स्थितानि बहूनि संस्थानानि एतं डा. सालिम् अलिम् आहूय तत्तत्-राज्यस्य पक्षिसङ्कुलानाम् आवलिं कर्तुम् अवदन् । सः डा. सालिम् अलिः अपि प्रियं कार्यं श्रद्धया अकरोत् । वेतनं न प्राप्तं चेत् अपि कार्यं न स्थगितवान् । कालक्रमेण पुरस्काराः, प्रशस्तयः, अभिनन्दनानि च तम् अन्विष्य आगतानि । तेन डा. सलीम् आलिना “जे.पाल्गट्टि अन्ताराष्ट्रिया प्रशस्तिः”, अन्ताराष्ट्रियायाः परिसर–संरक्षण–संस्थायाः "दि गोल्डन् आर्क्” प्रशस्तिः, ब्रिटिष् पक्षि–विज्ञान-संस्थायाः सुवर्णपदकः, भारतसर्वकारस्य "पद्मश्रीः” प्रशस्तिः, भारतसर्वकारस्य एव "पद्मविभूषण" प्रशस्तिः च प्राप्ताः आसन् । एषः डा. सलीम् आलि १९८५ तमे वर्षे राज्यसभाम् अपि प्रविष्टवान् । अयं डा. सलीम् आलि एस. डिल्लानेन सह मिलित्वा “भारतपाकिस्तानयोः पक्षिणां करपुस्तकं” (The Handbook of birds of India and Pakistan) दशसु सम्पुटेषु प्रकाशयत् । “सिक्किं तथा कच् प्रदेशस्य पक्षिणः” इति सचित्रं पुस्तकम् अपि प्रकाशयत् । एषः डा. सालिम् अलिः ९१ तमे वयसि, १९८७ तमे वर्षे प्रास्ट्रेट्-क्यान्सर् इति रोगेण मृतः ।

"http://sa.wikipedia.org/w/index.php?title=डा._सालिम्_अलिः&oldid=266328" इत्यस्माद् पुनः प्राप्तिः