डि. के. पट्टम्माळ्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
दामल् कृष्णस्वामी पट्टम्माळ्
DKPattammal-DKJayaraman-young.jpg
व्यैक्तिकतथ्यानि
जन्मनाम दामल् कृष्णस्वामी पट्टम्माळ्
ख्यातनाम अलमेलु
मूलतः कञ्चापुरम्, तमिळुनाडुकराज्यम्, भारतम्
सङ्गीतविद्या कर्णाटकसङ्गीतम् अपि च नेपथ्यगानम्
वृत्तिः गायिका, सङ्गीतगुरुः ।
वाद्यानि शास्त्रीयगायिका ।
सक्रियवर्षाणि क्रि.श. १७२९तः २००९



दामल् कृष्णस्वामी पट्टम्माळ् (D. K. Pattammal) (तमिळुभाषा: தாமல் கிருஷ்ணசுவாமி பட்டம்மாள்) कर्णाटाकसङ्गीतस्य मेरुगायिका, अनेकभारतीयभाषां चलच्चित्रस्य नेपथ्यगायिका च । ६०संवत्सराणां कालं कर्णाटकशास्त्रीयसङ्गीताराधनं कृतवती । स्वस्य सुमधुरकण्ठश्रिया कर्णाटकशास्त्रीयसङ्गीतशैल्याः मानं वर्धितवती । गृहे मातापितरौ एव सङ्गीतक्षेत्रस्य साधकौ । तादृशे वातवरणे सहजतया पट्टम्माळ् सङ्गीतेन आकृष्टा। एतस्याः अभिमानिनां वलये एषा 'पट्टा' इत्येव जनप्रिया । पट्टम्माळ्. एम्.एल्.वसन्तकुमारी, एम्.एस्.सुब्बुलक्ष्मी च सङ्गीतसाम्राज्यस्य त्रिदेव्यः इत्येव प्रथिताः । कर्णाटकसङ्गीतस्य अतिक्लिष्टकरं "रागं तानं पल्लवी " गुच्छं सुललिततया उपयुज्य महिलारत्नम् इति ।

बाल्यं शिक्षा च[सम्पादयतु]

पट्टम्माळ्वर्या तमिळुनाडुराज्यस्य काञ्चिपुरस्य सुसंस्कृतविप्रकुटुम्बे क्रि.श. १९१९ तमे वर्षे अजायत । अस्याः गृहपरिसरः सङ्गीतानुकूलकरः आसीत् । पिता धमाळ् कृष्णस्वामी दिक्षितः सङ्गीते तीव्रतया आसक्तः आसीत् । अस्याः बाल्यनाम अलमेलु इति । पितुः प्रभावः बाल्यादेव अस्याम् अपतत् । अस्याः माता कान्तिमतिः एव अस्य प्राथमिकसङ्गीतगुरुः अभवत् । स्वस्य दशमे वयसि एव मद्रास् आकाशवाण्यां सङ्गीतकार्यक्रमं कृत्वा सर्वान् मन्त्रमुग्धान् अकरोत् । क्रि.श. १९३२ तमे वर्षे रसिकरञ्जिनीसभायाः आश्रयेण प्रथमवारं सार्वजनिकसभायां सङ्गीतगोष्ठीं कृतवती । ततः आरब्धः अस्याः सङ्गीतप्रवासः निरन्तरम् ७०वर्षाणि अचलत् । क्रि.श. १९३२ तमे वर्षपश्चात् मद्रास् नगरम् (इदानीन्तनं चेन्नैनगरम्) अगतायाः पट्टम्माळ् वर्यायाः सङ्गीतगोष्ठ्यः अव्याहताः अचलन् । ६वर्षाणां परिश्रमस्य सङ्गीतोपलब्धेः पश्चात् पट्टम्माळ् ईश्वरन् इति केनचित् विदुषा परिणीता ।

शास्त्रीयरचनस्य गायिका[सम्पादयतु]

एषा पट्टम्माळ् स्वसुश्राव्यकण्ठश्रिया मुत्तुस्वामीदीक्षितस्य कृतीः सुमधुरतया गायति स्म । देशभक्तिगीतानि, क्रान्तिकवेः सुब्रह्मण्यभारत्याः गीतानि च अस्याः मधुरस्वरेण श्रवणस्य आनन्दः अनुपमः अवर्णनीयः इति सङ्गीतज्ञरसिकानाम् अभिप्रायः । एवमेव पापनाशं शिवस्य रचनानि च गायन्ती रसिकानां प्रशंसां प्राप्तवती । देशभक्तिगीतानि दैवभक्तिगीतानि च समानश्रद्धया गीत्वा साहित्येषु जीवसञ्चालनं कारयति स्म । चलच्चित्रक्षेत्रे समयनुगुणं योजितानि प्रणयगीतानि गातुम् अस्याः अङ्गीकृतिः नासीत् । अग्रहपूर्वकं क्रि.श. १९२९ तमे वर्षे त्यागभूमिः इति चलच्चित्रस्य एकं गीतं गीतवती । किन्तु तदानीन्तनब्रिटिश् सर्वकारस्य निषेधेन तद्गीतं रसिकजनकर्णगतं नाभवत् । चलच्चित्रे आहत्य ५०अधिकभूमिकानां कण्ठदानं कृतवती । क्रि.श. २०००तमे वर्षे " हे राम् " इति बहुभाषाचलच्चित्रार्थं गीतं गानम् एव अस्याः अन्तिमं गानम् । अस्याः गानस्य विशेषः नाम एषा पुरुषस्वरेणापि गायति स्म ।

मैसूरुबान्धव्यम्[सम्पादयतु]

सुप्रसिद्धः व्यङ्ग्यचित्रकारः आर्. के. लक्ष्मणः, आर्. के. नारायणः इत्यनयोः सहोदरी आर्. के. पट्टाभिवर्यस्य पुत्री शान्ता इति कन्यां पट्टमाळ् पुत्रः लक्ष्मणकुमारः परिणीतवान् । अपि च ख्यातः मृदङ्गवादकस्य फाल्घाट् मणि अय्यरः इत्यस्य पुत्रीं स्वस्नुषारूपेण आनीतवती । अतः कदाचित् अस्याः सङ्गीतगोष्ठिषु मणि अय्यरः मृदङ्गस्य साङ्गत्यं ददाति स्म ।

प्रशस्तिपुरस्काराः[सम्पादयतु]

  • गानसरस्वती' इति प्रशस्तिं उद्घुष्टवान् टैगर वरदाचार् वर्यः एतां सङ्गीतसागररत्नम् इति परिचायितवान् ।
  • क्रि.श. १९९२ तमे वर्षे सङ्गीतनाटकाकादमी सङ्घटनस्य सदस्या अभवत् ।
  • पल्लवि पट्टम्माळ् इति उपाधिं प्राप्तवती ।

नैके शिष्याः[सम्पादयतु]

अस्याः अनुजः डि. के. जयरामन् अग्रजा इव सङ्गीतचतुरः । क्रि.श १९९० तमे वर्षे सङ्गीतकलनिधिप्रशस्तिं प्राप्य अग्रायाः पूर्वमेव विधिवशः अभवत् । अद्यतनकास्य ख्याता सङ्गीतसंयोजिका गायिका नित्यश्री महादेवन् अस्याः शिष्या पौत्री च । एषा शङ्करमहादेवन् इत्यस्य गायकस्य पत्नी अपि ।

स्वरलीना[सम्पादयतु]

सुदीर्घकालम् अनारोग्येन परितप्ता पट्टम्माळ् अस्याः ९०तमे वयसि क्रि.श. २००९ तमे वर्षे जुलैमासस्य १६दिनाङ्के इहलोकं त्यक्तवती ।

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=डि._के._पट्टम्माळ्&oldid=277713" इत्यस्माद् पुनः प्राप्तिः