तक्रम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
चषकद्वये पानार्थं सज्जीकृतं तक्रम्
पुरातनकालस्य दधिमथनस्य चित्रम्
यन्त्रेण दधिमथनम्
पानार्थं सिद्धं गन्धद्रव्ययोजितं तक्रम्

भूलोकस्य अमृतम् इति प्रसिद्धम् अस्ति तक्रम् । एतत् तक्रम् आङ्ग्लभाषायां Butter milk इति उच्यते । इदम् अपि आहारपदार्थः न सस्यजन्यः अपि तु प्राणिजन्यः । तथापि इदम् अमृतसमानम् इति उच्यते । देवलोके सुखार्थं देवैः यथा अमृतं पीयते तथा भूलोके तक्रम् इति उक्तवन्तः सन्ति अस्माकं पूर्वजाः ।

“यथा सुराणाम् अमृतं सुखाय ।
तथा नराणां भुवि तक्रमस्ति ॥“ इति ।

दध्नः मथनेन प्रप्यमाणं घनरूपं नवनीतं पृथक् कुर्मः चेत् अवशिष्टं द्रवम् एव तक्रम् इति उच्यते । तक्रं यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । “भोजनान्ते च तक्रं पथ्यम्” इति वदन्ति । भूरिभोजनं कृत्वा अन्ते तक्रं सेवन्ते चेत् अजीर्णं न भवति । “तक्रं शक्रस्य दुर्लभम्” इति एकं वाक्यम् अस्ति । तन्नाम् देवलोकस्य इन्द्रस्य (शक्रः) अपि दुर्लभं तक्रं मनुष्यलोके अस्माभिः मानवैः प्राप्तम् अस्ति । तत् अस्माकं सौभाग्यम् । रुच्यनुगुणं तक्रं द्विधा विभक्तम् अस्ति – मधुरतक्रम्, आम्लतक्रं च इति । एतद्विना यथा दुग्धे शास्त्रकाराः अष्टविधं दुग्धं, तेषाम् उपयोगं च वदन्ति तथैव तेषाम् अष्टानां प्राणिनां दुग्धस्य तक्रम् अपि भवितुम् अर्हति ।

भोजनान्ते सर्वै: उपयुज्यमानं तक्रम् उदरक्रिमिनाशकम्, लघु, जठराग्निदीपकं, ग्रहणी - इत्यादि रोगनिवारकं च भवति । नेत्ररोगिणां कृते गोतक्रं पथ्यं भवति । आयुर्वेदे ‘तक्रारिष्टम्’ इति विशिष्ट: योग: अपि निर्मीयते ।

निष्पावसदृशानां शाकसस्यानां सुलभम्लानतानिवारणार्थं तेषां बीजानां कृषिक्षेत्रे वपनात् पूर्वं तानि बीजानि 24 घण्टा: यावत् तक्रे निमज्य स्थापनीयानि ।


आयुर्वेदस्य अनुसारम् अस्य तक्रस्य स्वभावः[सम्पादयतु]

तक्रं पचनार्थं लघु । कषायमिश्रित-आम्लरसः तक्रस्य । एतत् तक्रं जीर्णक्रियाम् अधिकां करोति । रुचिं वर्धयति च । घृतस्य सेवनेन सञ्जातम् अजीर्णं दूरीकरोति । विषं, रक्ताभावं च निवारयति तक्रम् । ग्रहिणीदोषं, मूलव्याधिं, मूत्रदोषं च शमयति अपि ।

“तक्रं लघु कषायाम्लं दीपनं कफवातजित् ।
शोपोदरार्शोग्रहिणीदोषमूत्रग्रहा रुचिः ॥
प्लीहगुल्मघृतव्यापत्-गरपाण्ड्वामयान् जयेत् ॥“ (वाग्भटसूत्रे ५-३४)
१. अस्माकं शरीरे विद्यमानेषु सप्तधातुषु तक्रं रक्तधातुवर्धकम् अस्ति ।
२. पित्तप्रधनाः रोगिणः, पित्तप्रकृतियुक्ताः च मधुरतक्रम् अथवा तक्रे शर्करां योजयित्वा उपयोक्तुम् अर्हन्ति ।
३. वातप्रकृतियुक्ताः, वातप्रधानाः रुग्णाः च आम्लतक्रे सैन्धवं लवणं योजयित्वा उपयोक्तुम् अर्हन्ति ।
४. कफप्रधानाः रोगिणः, कफप्रकृतियुक्ताः च तक्रे शुण्ठीं, मरीचं, वा अथवा क्षारद्रव्यं किमपि योजयित्वा क्वथयित्वा अथवा तथैव उपयोक्तुम् अर्हन्ति ।
५. उदरसम्बद्धेषु रोगेषु तक्रे जीरिकां, हिङ्गुं, शर्करां, गुडम् अथवा शुण्ठीं योजतिय्वा पातव्यम् ।
६. अनिद्रतायां, रक्तसम्बद्धेषु रोगेषु च तक्रं हितकरम् ।
७. अभ्यङ्गरूपेण शिरसः उपरि अथवा ललाटस्य उपरि धारारूपेण वा तक्रं स्थापयामः चेत् शिरसः सम्बद्धाः रोगाः अपगच्छन्ति ।
८. जीर्णाङ्गानां विकृतेः कारणतः जाते ग्रहिणीरोगे, मूलव्याधौ च तक्रं सदा पथ्यम् ।
९. आतपे आगतानां, दुर्बलानां, मूर्छारोगिणां, शिरोभ्रमणे, रक्तस्रावसम्बद्धेषु रोगेषु तक्रस्य उपयोगः निषिद्धः अस्ति ।
१०. शीतकाले, शीतरोगिणम् अपि तक्रम् अपथ्यम् । वातरोगोणां केवलं तक्रम् अत्युत्कृष्टं पथ्यम् ।
११. मधुरतक्रं कफवर्धकं पित्तशामकं च । आम्लतक्रं वातहरं, पित्तजनकं च । एतावत्पर्यन्तम् उक्ताः एते सर्वे गुणाः दोषाः वा धेनोः दुग्धेन निर्मितस्य तक्रस्य ।
१२. महिष्याः दुग्धस्य तक्रं शीतं, कफवर्धकं च ।‎
"http://sa.wikipedia.org/w/index.php?title=तक्रम्&oldid=250289" इत्यस्माद् पुनः प्राप्तिः