तत्र सत्त्वं निर्मलत्वात्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ।
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ ६ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य शष्ठः(६) श्लोकः ।

पदच्छेदः[सम्पादयतु]

तत्र सत्त्वं निर्मलत्वात् प्रकाशकम् अनामयम् सुखसङ्गेन बध्नाति ज्ञानसङ्गेन च अनघ ॥ ६ ॥

अन्वयः[सम्पादयतु]

अनघ ! तत्र निर्मलत्वात् प्रकाशकम् अनामयं सत्त्वं सुखसेन ज्ञानसेन च बध्नाति ।

शब्दार्थः[सम्पादयतु]

अनघ = पापरहित
निर्मलत्वात् = स्वच्छत्वात्
प्रकाशकम् = भासकम्
अनामयम् = निरुपद्रवम्
सुखसेन = सुखयोगेन
ज्ञानसेन = ज्ञानयोगेन ।

अर्थः[सम्पादयतु]

हे पापरहित (अर्जुन) ! तेषु त्रिषु गुणेषु स्वच्छत्वात् भासकं निरुपद्रवं सत्त्वं सुखं जनयति ज्ञानं च ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]