तदित्यनभिसन्धाय...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः ।
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥ २५ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य पञ्चविंशतितमः(२५) श्लोकः ।

पदच्छेदः[सम्पादयतु]

तत् इति अनभिसन्धाय फलं यज्ञतपःक्रियाः दानक्रियाः च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥

अन्वयः[सम्पादयतु]

मोक्षकाङ्क्षिभिः तत् इति फलम् अनभिसन्धाय विविधाः यज्ञतपःक्रियाः दानक्रियाः च क्रियन्ते ।

शब्दार्थः[सम्पादयतु]

मोक्षकाङ्क्षिभिः = मोक्षार्थिभिः
फलम् = प्रयोजनम्
अनभिसन्धाय = अनपेक्ष्य
विविधाः = बहुप्रकाराः
यज्ञतपःक्रियाः = यागादयः
दानक्रियाः = वितरणक्रियाः ।

अर्थः[सम्पादयतु]

ये मोक्षम् इच्छन्ति ते तत् इति ब्रह्मणः तदिति शब्दम् उच्चार्य फलनिरपेक्षतया नानाविधं यज्ञं तपः दानं च कुर्वन्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तदित्यनभिसन्धाय...&oldid=418567" इत्यस्माद् प्रतिप्राप्तम्