तलकाडु

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
तलकाडु
ತಲಕಾಡು
—  नगरम्  —
वैद्येश्वरदेवालयः
Coordinates: 12°13′N 77°02′E / 12.22°N 77.03°E / 12.22; 77.03
राष्ट्रम्  India
ऱाज्याणि कर्णाटकराज्यम्
मण्डलम् मैसूरुमण्डलम्
औन्नत्यम्
तलकाडु
IST (UTC+5:30)

तलकाडु (Talakadu) कर्णाटकराज्यस्य मैसूरुमण्डले विद्यमानं किञ्चन यात्रास्थलम् । सिद्धारण्यं, दवलनपुरं, गङ्गवाडी, गजारण्यक्षेत्रम् इत्यादिभिः नामभिः इदं प्रसिद्धम् अस्ति । एतत् ऐतिहासिकं पौराणिकं धार्मिकं च क्षेत्रमस्ति । चारित्रिकदृष्ट्या तलकाडु गङ्गवंशीयानां राजधानी आसीत् । चोळानां काले अस्य राजराजपुरम् इति नाम आसीत् । अत्र पञ्चब्रह्ममयः परशिवमूर्तिः पञ्चमुखैः युक्तः अस्ति । सः एव वैद्येश्वरः मल्लिकार्जुनः, अर्केश्वरः, पातालेश्वरः, मरळेश्वरः च । कीर्तिनारायणमन्दिरं (नडुबीदिनारायण) होय्सळराजानां काले विष्णुवर्धनेन निर्मितम् अतीव सुन्दरं मन्दिरम् अस्ति । देवः पद्मधारी दशपादपरिमितोन्नतः अस्ति । पीठस्य प्रभावळ्याम् दशावतारस्य शिल्पं सुन्दरम् अस्ति । पञ्चलिङ्गदेवालये स्थितानां पञ्चलिङ्गानां दर्शनम् इति उत्सवः द्वादशवर्षेषु एकवारं वैभवेण प्रचलति । तदा लक्षाधिकजनाः आगत्य उत्सवे भागं स्वीकुर्वन्ति । अतः एतत् क्षेत्रं भारतीयपुण्य- क्षेत्रेषु अग्रपंक्तौ योजितम् अस्ति । भारतीयशैववैष्णवयात्रास्थलेषु अन्यतमम् अस्ति ।

प्रति द्वादशवर्षेशु एकवारम् अत्र ‘पञ्चलिङ्गदर्शनम्’ इति उत्सवः भवति । तदा भक्ताः अत्र विद्यमानानां पञ्चलिङ्गानां दर्शनं कुर्वन्ति । पूर्वम् एतानि मन्दिराणि सिकतासु निमग्नानि भवन्ति स्म । उत्सवस्य समये सिकताः निष्कास्य दर्शनाय सज्जीकुर्वन्ति स्म ।

एतस्मिन् क्षेत्रे प्रचलिता काचित् कल्पितकथा अस्ति । मैसूरुराजस्य शासनकाले अलमेलम्मा नामिका महिला राज्ञः असहनियाः पीडाः सोढुम् अशक्ता तलकाडुसमीपे कावेरीनद्यां पतित्वा मृता अभवत् । नद्यां पतनसमये सा

मालङ्गि कूपः भवतु, तलकाडु सिकतामयं भवतु, मैसूरुराज्ञः सन्ततिः न भवतु

इति शापं दत्तवती । अतः तलकाडु सिकतराशिः अभवत् इति जनानां विश्वासः अस्ति ।

तलकाडुसिकताराशिः[सम्पादयतु]

वैद्येश्वरदेवालयस्य मण्डपदृश्यम्

किन्तु भूवैज्ञानिकदृष्ट्या पश्चिमघट्टः सागरवलयतः १४००मीटर्-औन्नत्ये पर्वतश्रेण्याम् अस्ति । चतुष्कोटिवर्षेभ्यः पूर्वम् अत्रत्य भूभागस्य उत्पतनेन इदानीन्तनम् औन्नत्यम् आगतम् इति भूवैज्ञानिकानाम् अध्ययनेन ज्ञायते । पश्चिमघट्टस्य कोडगुमण्डलस्य भागमण्डलम् नामकस्य उपमण्डलस्य ब्रह्मगिरिपर्वतस्य तलकावेर्याः समीपे चिक्ककुण्डिके ग्रामे कावेरीनद्याः जन्म भवति । इतः किलोमीटर्-द्वयं यावत् एषा गुप्तगामिनीरूपेण प्रवहति । अग्रे नदी इव प्रवहति । अनन्तरम् एतया हेमावती, लक्ष्मणतीर्थम्, हारङ्गी, कपिला उपनद्यः मिलन्ति । पश्चिमघट्टतः अग्रे कष्टकरे खाते एषा सुललिततया प्रवहति । शैलप्रदेशतः अवतीर्य अङ्गणप्रदेशे यदा प्रवहति तदा तस्याः भूनाशशक्तिः नष्टा भवति । पुरतः विद्यमानम् अवरोधस्य सम्मुखीकरणार्थम् अपि तस्यां शक्तिः न भवति । अवरोधं प्रदक्षिणीकृत्य गच्छति । एवम् अवरोधम् उपयुज्य गच्छन्तं नदीभागं ‘नदी तिरुवु’ इति वदन्ति ।

तिरुमकूडलस्य नरसीपुरस्य समीपे कपिलानद्या मेलनानन्तरं कावेरी तलकाडुमार्गेण प्रवहति । तलकाडुप्राप्तेः पूर्वं ‘बेट्टदहळ्ळि’ इत्यत्र आकारस्य मार्गस्य परिवर्तनं करोति । अत्र ७३८मीटर् उन्नतस्य सरगूरुशिलासमूहस्य कश्चन शैलः नद्याः अभिमुखं भवति । तदर्थं पूर्वाभिमुखं प्रवहन्ती कावेरी अत्र दक्षिणाभिमुखिनी भवति ।

एतस्य अनन्तरं नद्याः गभीरता अधिका भवति । एकत्र मसूराकारस्य आखातम् अस्ति । एतेन नद्याः एकस्मिन् पार्श्रे तटस्य आखातम् अधिकम् अस्ति । तलकाडुभागे अधिकः खातः नास्ति । कावेरी नदी प्रयाणसमये आनीताः सिकताः तलकाडुपार्श्वे त्यक्त्वा अग्रे प्रवहति ।

एवं शताधिकवर्षतः सङ्गृहीतः सिकतराशिः एव अद्यतनस्य तलकाडुसिकतराशेः कारणम् । एषः सिकतराशिः सार्धद्विकिलोमीटर् दीर्घः अस्ति । एक किलोमीटर् विशालता अस्ति । केषुचित्स्थानेषु २० मीटर् पर्यन्तम् उन्नतः अस्ति । नद्यां लघुलघु वर्तुलाकारस्य शिलाखण्डाः चूर्णाः भवन्ति चेदपि वायुना केवलं लघुलघु शिलाखण्डाः आनीय केचन उन्नतप्रदेशाः वप्राः रचिताः सन्ति । अत्रत्यस्नानघट्टेषु सिकतानां स्तराः तिर्यक्रूपेण एकस्य उपरि एकः इव योजिताः सन्ति । एते उन्नतसिकतराशयः (वप्राः) एकत्र एव न सन्ति ।

हैदरालेः काले आनन्देश्वरः गौरीशङ्करस्य च देवालयौ सिकतासु निमग्नौ आस्ताम् । अनन्तरं ततः सिकताः निष्कासिताः । होय्सळवंशस्य विष्णुवर्धनेन निर्मितं कीर्तिनारायणस्य मन्दिरं १९२५ तमे वर्षे सिकताभ्यः बहिः निष्कासितम् । पुनः आगताभिः सिकताभिः मन्दिरस्य रक्षणाय मैसूरुराजः तत् परितः भित्तेः निर्माणं कृतवान् अस्ति । तथापि वैद्येश्वरस्य, पाताळेश्वरस्य, मरळेश्वरस्य मन्दिराणि सिकताभिः बहुवारं पिहितानि आसन् । १९८६ तमे वर्षे अपि मन्दिराणि पिहितानि। पुनश्च सिकताः निष्कासितवन्तः ।

कावेरी नदी अत्रैव एवं सिकतराशिं रचयति इत्यत्र भूविज्ञानिनः कारणानि यच्छन्ति ‘कावेरी अत्र वक्रताभिः प्रवहति' इति । एवं प्रवाहसमये एकस्य भागस्य तटः अन्यस्य अपेक्षया शीघ्रं शिथिलं भवति । अत्र आर्षेयकल्पस्य नैस्शिलायाः उपरि नद्याः पात्रम् अस्ति । एतस्याः शिलायाः मुख्यः घटकः अमृतशिलासदृशः । नद्याः प्रवाहेण एतासां शिलानाम् अवघर्षणेन अधिकाधिकानां सिकतकणानां सृष्टिः भवति । परस्परेण घर्षणेन कणानां गात्रं इतोऽपि लघु भवति । एतेषां लघुलघुकणानां सङ्ग्रहणेन सिकतराशिः रूपितः अस्ति ।

क्रि.श.१३४६ तमे वर्षे विजयनगरस्य मन्त्री माधवः तलकाडुसमीपे पानजलस्य सौकर्यार्थं जलबन्धम् एकं निर्मितवान् । एतेन बन्धस्य अधः जलस्य अभावेन भूशिथिलतायाः आधिक्येन सिकतानां सङ्ग्रहणम् अधिकम् अभवत् ।

एतेन सह कर्णाटकस्य अन्येषु भागेषु यथा अस्ति तथा अत्रापि मान्सून् नैऋत्य-ईशान्य दिशि वहति । एवं वायुः अपि नद्या अनीताः सिकताः तलकाडुं प्रापयति । आग्नेयभागस्य कोळ्ळेगालस्य शैलाः एतस्य वायोः अवरोधं कुर्वन्ति इति कारणेन अत्र सिकतराशिः सञ्चितः अस्ति ।

एवं कावेर्या तलकाडुसमीपे सृष्टः लघुमरुभूमिः कर्णाटकस्य विस्मयेषु अन्यतमा ।


मार्गसूची[सम्पादयतु]

मैसूरुतः ४५ कि.मी
बेङ्गगळूरुतः मळवाळ्ळिद्वारा २४४ कि.मी ।
मैसूरुनगरे वासः योग्यः । ततः बसयानसौकर्यम् अस्ति ।

वीथिका[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=तलकाडु&oldid=247120" इत्यस्माद् पुनः प्राप्तिः