तिरुच्चिरापळ्ळिमण्डलम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
तिरुच्चिरापळ्ळिमण्डलम्

தி௫ச்சிராப்பள்ளி மாவட்டம்

—  मण्डलम्  —
कावेरीनदी


Location of तिरुच्चिरापळ्ळिमण्डलम्
in तमिळ्नाडु
निर्देशाङ्काः

10°47′40.56″N 78°41′6″E / 10.7946°N 78.685°E / 10.7946; 78.685

देशः भारतम्
राज्यम् तमिळ्नाडु
Collector जयश्री मुरलीधरन्,IAS
व्यावहारिकभाषा(ः) तमिळ्
समयवलयः IST (UTC+05:30)
Central location: 10°47′N 78°41′E / 10.783°N 78.683°E / 10.783; 78.683
जालस्थानम् तिरुच्चिरापळ्ळिमण्डलस्य व्यावहारिक जालपुटम्

तिरुच्चिरापळ्ळिमण्डलं (Tiruchirapalli District) (तमिऴ्: தி௫ச்சிராப்பள்ளிமாவட்டம்) ट्रिचीमण्डलम् इति, तिरुच्चिमण्डलम् इति च ख्यातं तमिऴ्नाडुराज्यस्य ३२ मण्डलेषु अन्यतमम् । इदं मण्डलं कावेरीनद्याः तीरभूमौ अस्ति । अस्य केन्द्रस्थानं तिरुच्चिरापळ्ळिनगरम् । ब्रिटिश् प्रशासनकाले इदं ‘ट्रिचिनोपोलि’ इति ज्ञातम् आसीत्, मद्रास् प्रान्तस्य भागः च आसीत् । १९४७ तमे वर्षे भारतेन स्वातन्त्र्यप्राप्यानन्तरं मण्डलस्य पुनर्नामकरणम् अभवत् ।

इतिहासः[सम्पादयतु]

अस्मिन् प्रदेशे भिन्नेषु कालेषु चोळानां, पल्लवानां, पाण्ड्यानां, देहलीसूल्तानानां, मधुरैसूल्तानानां, विजयनगरसाम्राज्यं, नायकवंशं, ब्रिटिशानां च प्रशासनम् आसीत् । आङ्ग्लं, फ़्रेञ्च्सेनयोः मध्ये प्रवृत्तेषु कर्णाटकसमरेषु तिरुच्चिरापळ्ळिः प्रमुखं भागम् अवहत् ।

भौगोलिकम्[सम्पादयतु]

तिरुच्चिरापळ्ळिमण्डलं तमिऴ्नाडुराज्यस्य हृद्देशे अस्ति । अस्य मण्डलस्य विस्तारः ४४०४ चतुरश्रकिलोमीटर् अस्ति। अस्य वायव्यदिशे नामक्कलमण्डलम्, ईशान्ये पेरम्बलूरुमण्डलं, पूर्वभागे तञ्जावूरुमण्डलम्, आग्नेयदिशे पुदुक्कोट्टैमण्डलं, दक्षिणे मधुरै, शिवगङ्गामण्डलं, नैर्ॠत्ये दिन्डुगलमण्डलं, पश्चिमे करूरुमण्डलं च अस्ति । कावेरीनदी आमण्डलं प्रवहति, सैव कृषेः प्रमुखं जलमूलं च भवति।

जनसंख्या[सम्पादयतु]

२०११ जनगणनानुगुणं तिरुच्चिरापळ्ळिमण्डलस्य जनसंख्या २,७१३,८५८ सन्ति। भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य १४६ तमं स्थानं भवति । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ६०२ (१५६० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धेः प्रमाणं १२.२२% आसीत् । अत्र पुं, स्त्री अनुपातः १०००:१०१३, साक्षरताप्रमाणं च ८३.५६% अस्ति । मण्डलस्य प्रधानभाषा तमिऴ् । मण्डलस्य केषुचित् प्रदेशेषु श्रीलङ्कातमिऴानां वसतिः अपि दृश्यते । जनानां ८४.३९% हिन्दूसमुदायस्य सन्ति, ९.०२% क्रैस्तमतीयाः, ६.४६% मुस्लिमाः, इतरे च ०.१२% वसन्ति।

उपमण्डलानि[सम्पादयतु]

तिरुच्चिरापळ्ळिमण्डले ८ उपमण्डलानि सन्ति। तानि -

१) मणप्परै
२) श्रीरङ्गम्
३) तिरुच्चिरापळ्ळिः
४) लाल्गुडिः
५) मनचनल्लूरुः
६) तुरैयूरुः
७) मुसिरिः
८) तोट्टियम्

कृषिः वाणिज्यं च[सम्पादयतु]

कावेरीतीरभूमौ विद्यमाने अस्मिन् मण्डले कृषिकार्यम् एव प्रधानोद्यमः भवति। तण्डुलस्य इक्षोः च कृषिः विस्तृततया भवति । कदली, नारिकेलः,कार्पासः, पूगः, कलायः च अत्र रुह्यमानानि इतराणि सस्यानि भवन्ति।

अश्मचूर्णोद्यमाः, चर्मागाराः, आहारसंस्करणघटकाः, शर्करोत्पादकागाराः, वस्त्रोद्यमाः च अधिकसंख्यायाम् अस्मिन् मण्डले दृश्यन्ते ।

वीक्षणीयस्थलानि[सम्पादयतु]

मुक्कोम्बुः (मेलणै)[सम्पादयतु]

अयं तिरुच्चितः १८ किलोमीटर् दूरे अस्ति । अत्र कावेरीनद्याः पृथग्भूय कोल्लिडं नदी प्रवहति । तस्मिन् स्थले कावेरीनद्याः जलबन्धः निर्मितः अस्ति । अयं जलबन्धः ६८५ मीटर् दीर्घः अस्ति । अयं नवदशशतके सर् आर्थर् काटनेन निर्मितः । चोळानां ‘कल्लणै’ जलबन्धेन प्रभावितः, सः एतं जलबन्धं निर्मितवान् इति श्रूयते । जलबन्धं परितः सुन्दरम् उद्यानम् अस्ति ।

श्रीरङ्गम्[सम्पादयतु]

श्रीरङ्गदेवालयः

तमिऴ्सम्प्रदाये इदं क्षेत्रं ‘तिरुवरङ्गम्’ इति प्रसिद्धम् अस्ति । अस्य प्राचीनं नाम वेळ्ळितिरुमुदग्रामः इति अस्ति। श्रीरङ्गस्य एकस्मिन् पार्श्वे कावेरीनदी प्रवहति। अपरस्मिन् पार्श्वे कावेर्याः उपनदी कोल्लिडं प्रवहति । श्रीरङ्गस्य विश्वप्रसिद्धः रङ्गनाथस्वामिदेवालयः हिन्दूजनानां, विशिष्य श्रीवैष्णवानां पवित्रं तीर्थक्षेत्रं भवति । वैष्णवदिव्यदेशेषु इदं प्रथमं, प्रमुखतमं च भवति। भारते बृहत्तमः देवालयपरिसरः अयम् ४ किलोमीटर् परिधेः ६,३१,००० चतुरश्रमीटर् विस्तारः अस्य परिसरस्य देवालये सप्त प्राकारः, २१ गोपुराणि च सन्ति । अस्मिन् देवालये सर्वदा भक्तानां संमर्दः भवति ।

वयलूरुमुरुगदेवालयः[सम्पादयतु]

अयं देवालयः प्रायः १२०० वर्षेभ्यः प्राक् चोळानां काले निर्मितः । अत्र मूलदेवः आदिनाथः (शिवः) । शिवस्य गर्भगृहस्य पृष्ठतः मुरुगस्य सन्निधिः वर्तते । अत्र अग्नितीर्थनामकः तडागः अस्ति। यः स्वयं मुरुगेन शक्त्यायुधेन निर्मितः इति प्रतीतिः ।

तिरुवनैकोयिल्[सम्पादयतु]

अयं ग्रामः तिरुच्चिनगरात् ३ किलोमीटर् दूरे श्रीरङ्गस्य पार्श्वे अस्ति । अयं परमेश्वरस्य पञ्चभूतस्थलेषु अन्यतमम्। अत्रत्यः देवः जम्बुकेश्वरः, देवी च अखिलाण्डेश्वरी प्रसिद्धम्। इदं जलक्षेत्रम् इत्यतः शिवस्य लिङ्गः अब्लिङ्गः इति ज्ञायते ।

समयपुरम्[सम्पादयतु]

इदं पत्तनं तिरुच्चितः १२ किलोमीटर् दूरे अस्ति । अत्र प्रसिद्धः मारियम्मन् देवालयः अस्ति ।

उरैयूरु वेक्कालियम्मन् देवालयः[सम्पादयतु]

उरैयूरुग्रामः तिरुच्चितः ७ किलोमीटर् दूरे अस्ति । द्वयोः चोळराजयोः पुगऴ् चोळनायनारस्य, गोचेङ्कनचोळस्य च जन्म अत्रैव अभवत् इति ज्ञायते । अत्रत्यः देवालयः गोचेङ्कनचोळेन निर्मितः ।

शिलादुर्गः (राक् फ़ोर्ट्)[सम्पादयतु]

अस्य शिलादुर्गस्य उपरि प्रसिद्धः उच्चिप्पिळ्ळैयार् देवालयः अस्ति । अयं गणेशदेवालयः क्रिस्तीये सप्तमशतके निर्मितः । शिलायाः उपरि ८३ मीटर् उन्नतः राक्फ़ोर्ट् देवालयः तिष्ठति । इयं शिला आदौ पल्लवैः भिन्ना, किन्तु देवालयः नायकराजैः विजयनगरसाम्राज्यकाले निर्मितः ।

कल्लणै जलबन्धः[सम्पादयतु]

अयं चोळैः कावेरीनद्यां निर्मितः प्राचीनः जलबन्धः । अयं तिरुच्चिनगरात् २० किलोमीटर् दूरे अस्ति । अयं करिकालचोळेन क्रिस्तीये द्वितीयशतके निर्मितः । विश्वे अद्यापि उपयुज्यमानेषु जलनियन्त्रणनिर्माणेषु इदं प्राचीनतमम् इति कथ्यते । अनेन जलबन्धेन कावेरीनद्याः चत्वारः निर्झराः निर्मिताः । कोल्लिडम् आरु, कावेरी, वेण्णारु, पुदु आरु इति । अयं जलबन्धः ३२९ मीटर् दीर्घः, २० मीटर् विस्तृतः, ५.४ मीटर् उन्नतः च अस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. www.tn.gov.in