तिरुपतिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
తిరుపతి
तिरुपतिः
—  नगरम्  —
View of తిరుపతి
तिरुपतिः, India
తిరుపతి
तिरुपतिः
Location of తిరుపతి
तिरुपतिः
in आन्ध्रप्रदेशः
निर्देशाङ्काः

१३°३९′उत्तरदिक् ७९°२५′पूर्वदिक् / 13.65°उत्तरदिक् 79.42°पूर्वदिक् / १३.६५; ७९.४२

देशः भारतम्
राज्यम् आन्ध्रप्रदेशः
मण्डलम् तिरुपतिमण्डलम्
MLA Tirupati urban and Renigunta-Bhumana Karunakara Reddy (Resigned)Tirupati rural and Chandragiri-chevireddy Bhaskar Reddy
जनसङ्ख्या ११,०४,९९७ (MCT) (Fourth)
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• महानगरम्
• औन्नत्यम्


750 वर्ग किलोमीटर (290 वर्ग मील)
161 मीटर (528 फ़ुट)

तिरुपतिनगरम् आन्ध्रप्रदेशे स्थितं प्रमुखं नगरम् । नगरस्य समीपे स्तिथं तिरुमलपुण्यक्षेत्रं सुप्रसिद्धम् । तिरुमलनगरे श्रीवेङ्कटेश्वरदेवालयः वर्तते ।

तिरुमलपर्वतं सप्तगिरिः इति अपि निर्दिशन्ति । तत्र श्रीनिवासः सप्तगिरिवासः आराध्यः अस्ति । प्रतिदिनम् अत्र अनेकसहस्रजनाः आगच्छन्ति । भोजनवसतिव्यवस्था उत्तमा अस्ति । पर्वतप्रदेशे अनेकानि दर्शनीयानि स्थानानि सन्ति । प्रवासव्यवस्था कर्तुं शक्यास्ति ।

तिरुपतिसमीपे दर्शनीयानि स्थानानि[सम्पादयतु]

तिरुपतिनगरे श्रीगोविन्दराजस्वामी देवालयः दर्शनीयः अस्ति । दश कि.मीटर् दूरे पद्मावती सरोवरं च आकर्षणीयम् अस्ति ।

काळहस्ती[सम्पादयतु]

तिरुपतितः ४० कि.मी दूरे काळहस्ती प्रदेशे श्रीकाळ्हस्तीश्ववरदेवालयः अतीव सुन्दरः अस्ति ।

कैलासगिरिः[सम्पादयतु]

कैलासगिरिप्रदेशे बेडरकण्णप्प इति भक्तवरस्य मन्दिरम् अस्ति ।

चन्द्रगिरिः[सम्पादयतु]

तिरुपतिसमीपे चन्द्रगिरिप्रदेशे विजयनगरसाम्राज्यकाले निर्मितं राजगृहम् अतीव सुन्दरम् अस्ति ।

राष्ट्रियसंस्कृतविद्यापीठम्[सम्पादयतु]

अत्र राष्ट्रियसंस्कृतविद्यापीठं वर्ततॆ।

तिरुपति रोपवे[सम्पादयतु]

तिरुमलतिरुपतिदेवस्थानमण्डली इति काचित् संस्था आन्ध्रप्रदेशे अनेकानि जनहितानि कार्याणि कुर्वती अस्ति । तिरुमलपर्वतप्रदेशे प्रेक्षणीयानि अनेकानि स्थानानि कल्पितानि सन्ति । तेषु स्वामिपुष्करिणि, आकाशगङ्गा, पापनाशिनीतीर्थं, गोगर्भतीर्थं, जाबालितीर्थं, वैकुण्ठतीर्थं पाण्डवतीर्थम् इत्यादीनि प्रमुखाणि सन्ति । सुन्दरे उद्यानवने शिलातोरणं दर्शनीयम् अस्ति । तिरुमलपर्वतप्रदेशं गन्तुं वाहनमार्गः निर्मितः अस्ति । पुनः तिरुपतिनगरम् आगन्तुं अन्यमार्गः अस्ति । तिरुमलतिरुपतिदेवस्थानमण्डली इदानीं पर्वतप्रदेशारोहणाय रोपवे (तन्तुमार्गः) निर्माणस्य योजनाम् कृतवती अस्ति । सप्त कि.मीटरदीर्घः विशिष्टः मार्गः यदा निर्मितः भवेत् तदा एककाले एव प्रति अष्टादशनिमेषेषु ४० सहस्रजनाः आरोहणं कर्तुं समर्थाः भवन्ति । एषा योजना शीघ्रमेव कार्यान्वितं भवितुम् अर्हति ।

मार्गः[सम्पादयतु]

तिरुपति नगरागमनाय विमान निस्थानस्य सौलभ्यम् अस्ति । धूमशकटैः आगन्तुम् तिरुपतिनिस्थानतः रेणिगुण्टा निस्थानतः च शक्यम् अस्ति । आन्ध्रप्रदेशस्य महानगरेभ्यः कर्णाटकराज्यस्य नगरेभ्यः च लोकयानसम्पर्कः अस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तिरुपतिः&oldid=472652" इत्यस्माद् प्रतिप्राप्तम्