तिरुवनन्तपुरम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
Thiruvananthapuram

Trivandrum

• Evergreen City of India •[१]
—  capital  —
From top clockwise: Napier Museum, Padmanabhaswamy Temple, University of Kerala, Government Medical College, Kerala Institute of Medical Sciences, Bhavani building in Technopark and The Oriental Research Institute & Manuscripts Library
Thiruvananthapuram
Location of Thiruvananthapuram
in Kerala and भारतम्
निर्देशाङ्काः

08°26′25″N 76°55′25″E / 8.44028°N 76.92361°E / 8.44028; 76.92361

देशः भारतम्
राज्यम् Kerala
मण्डलानि Thiruvananthapuram
Mayor Adv. K. Chandrika
Deputy Mayor G. Happykumar
Member Of Parliament(LokSabha) Shashi Tharoor
योजनायोगः TRIDA
पौरायोगः Thiruvananthapuram Corporation
जनसङ्ख्या

सान्द्रता
महानगरम्

७,५२,४९०[२] (2011)

४,४५४ /km2 ( /sq mi)
१६,८७,४०६[३] (42nd) (2011)

लिङ्गानुपातः 1064[२] /
साक्षरता

• Male
• Female

93.72[२]

• 94.94[२]%
• 92.58[२]%

व्यावहारिकभाषा(ः) Malayalam · English
Spoken languages Malayalam · English · Tamil
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

महानगरम्
औन्नत्यम्
• तीरप्रदेशः

२१४.८६ square kilometres (. sq mi)

२५०.०० square kilometres (. sq mi)
१० metres ( ft)
७८ kilometres ( mi)

वायुमण्डलम्

तलस्पर्षी
तापमानम्
• ग्रीष्मकालः
• शीतकालः

Am/Aw (कॊप्पेन्)

     १,७०० mm ( in)
     २७.२ °C (. °F)
     ३५ °C ( °F)
     २४.४ °C (. °F)

जालस्थानम् www.corporationoftrivandrum.in
राजारविवर्मणा १८८० तमे वर्षे चित्रितं तिरुवनन्तपुरम्

तिरुवनन्तपुरम् केरळराज्यस्‍य राजधानी अस्‍ति । इदम् एकं सुरम्‍यं नगरम् अस्‍ति । अत्र अनन्तशायिनः श्रीविष्‍णोः मन्दिरम् अत्यन्तं प्रसिद्धम् अस्ति । अत्रत्य जनसंख्या ९००,००० परिमिता अस्‍ति । केरलराज्यस्य राजधानी तिरुवनन्तपुरजनपदस्य आस्थानं च भवति तिरुवनन्तपुरम् । भारतस्य पश्चिमतीरे दक्षिणाग्रे इदं नगरं विराजते । उन्नतावनतभूम्या अतिवेगयुक्तमार्गैः अनलसवाणिज्यमेखलया च सम्पन्नं भवतीयं सुन्दरनगरी । अस्माकं राष्ट्रपतिमहाभागेन महात्मागान्धिवर्येण नित्यहरितनगरम् इति तिरुवनन्तपुरमुद्दिश्य कथितम् । २०११ तमवर्षस्य गणनानुसारम् अस्मिन् नगरे १०००००० जना: वसन्ति । केरलराज्यस्य अत्यधिकजनसान्द्रतायुक्तनगरम् इदमेव ।

तिरुवनन्तपुरे केरलसर्वकारस्य तथा भारतसर्वकारस्य च अनेके कार्यालया: वर्तन्ते । विविधव्यवसायशृङ्खलायाः मुख्यकार्यालयाः च अस्मिन् नगरे तिष्ठन्ति । केरलराज्यस्य राष्ट्रियसिराकेन्द्रं भरणसिराकेन्द्रं च भवति इदं नगरम् । उन्नतविद्याभ्याससंस्थाः च अत्र वर्तन्ते । प्रशस्ता केरलसर्वकलाशाला, राजीव् गान्धी जैवसाङ्केतिकगवेषणकेन्द्रं, विक्रं साराभायी बहिराकाशकेन्द्रमित्यादयः तेषु प्रमुखाः । भारतस्य प्रथमविवरसाङ्केतिकसमुच्चय: टेक्नो पार्क् अपि तिरुवनन्तपुरे वर्तते ।

अन्तर्विषयाः

[सम्पादयतु] नामचरितम्

तिरुवनन्तपुरस्य प्रासादः

तिरुवनन्तपुरम् इति नाम तिरु-अनन्त-पुरम् इति पदत्रयात् रूपीकृतम् इति प्रबलविश्वासः । नगरस्य मुखमुद्रारूपेण गणितस्य श्रीपद्मनाभस्वामिमन्दिरस्य नामसम्बन्धी भवतीदं नाम । सहस्रशिरोयुक्तस्य अनन्तसर्पस्य उपरि शयितस्य महाविष्णोः रूपम् अस्मिन् मन्दिरे आराध्यते ।

[सम्पादयतु] नगरचरितम्

ख्रिस्तोः पूर्वं १००० वर्षादारभ्य तिरुवनन्तपुरस्य वाणिज्यचरित्रं लभ्यते । सुगन्धव्यञ्जनानि, गजशृङ्गाः, चन्दनदारवः इत्यादयः अत्रत्य मुख्यवाणिज्यवस्तूनि आसन् । किन्तु तत्कालीनानाम् अन्येषां नगराणाम् अपेक्षया तिरुवनन्तपुरस्य स्थितिः भिन्ना आसीत् । आय् राजवंशानां भरणे आसीत् तिरुवनन्तपुरम् । तेषां पतनानन्तरं १० शतके नगरभरणं वेणाट् राजवंशानां नियन्त्रणे आगतम् । आधुनिकतिरुवनन्तपुरस्य चरितं १७२९ वर्षे मर्ताण्डवर्मा महाराजस्य नगरभरणेन आरभ्यते । १७४५ वर्षे तिरुवनन्तपुरं तिरुवितांकूर् राज्यस्य राजधानीरूपेण अङ्गीकृतम् ।

[सम्पादयतु] प्रकृतिः भूमिशास्त्रं च

भारतस्य दक्षिणाग्रे पश्चिमपार्श्वे 8.5° N 76.9° E अक्षांशरेखांशेन तिरुवनन्तपुरं विराजते । अस्य जनपदस्य पश्चिमभागे आरबसागरः पूर्वभागे सह्यपर्वतः च वर्तते । नद्यः लघुपर्वताः च देशे तत्र तत्र विद्यन्ते । वेल्लायणी ह्रदः, करमना नदी, किल्लियार्, आक्कुळं, तिरुवल्लं च तिरुवनन्तपुरे प्रवहन्त्यः प्रमुखाः जलाशयाः भवन्ति । समुद्रात् 1890 मी. उपरि स्थितः अगस्त्यकूटम् इति प्रसिद्धः पर्वतः एव अस्य नगरस्य परमोन्नतप्रदेशः । पोन्मुटि, मुक्कुन्निमला च अत्रत्य पर्सिद्धगिरिरिसोर्ट्स् (Hill Resorts)भवति । उष्णमेखलाप्रदेशे वर्तते इत्यतः तिरुवनन्तपुरे विभिन्नकालावस्थाः प्रत्यक्षतया न अनुभूयन्ते । उष्णधर्मपरिमाणं 34 °C तथा 21 °C च मध्ये वर्तते । वायो: आर्द्रता वृष्टिकाले अत्र नवति प्रतिशतं वर्धते । दक्षिणपश्चिममन्सून् (south-west monsoon) मार्गे आद्ये विद्यमाने अस्मिन् नगरे वृष्टिः अपि आद्यमागच्छति । प्रतिवर्षं 1700 mm वृष्टिः अत्र पततीति शास्त्रज्ञानां गणना । जून् मासे वृष्टि: आरभ्यते, डिसम्बर् मासत: फेब्रुवरी पर्यन्तं शीतमनुभूयते । मार्च् तः मेय् पर्यन्तम् उष्णमनुभूयते ।


[सम्पादयतु] साम्पत्तिकमेखला

पूर्वकाले तिरुवनन्तपुरस्य साम्पत्तिकावस्था सेवनमेखलायामाधारितमासीत् । नागरिकेषु षष्ठिप्रतिशतं सर्वकारीयकर्मकारा: आसन् । किन्तु अद्य विवरसाङ्केतिकविद्या, बयो टेक्नोलजि, वैद्यशास्त्रमेखला च अत्रत्य साम्पत्तिकमेखलां नयति । भारतस्य प्रथम आनिमेषन् पार्क् (Animation Park) किन्फ्रा फिल्म् आन्ट् वीडियो पार्क् Kinfra Film and Video Park अस्मिन् नगरे तिष्ठति ।

[सम्पादयतु] टेक्नोपार्क Technopark

भारते विवरसाङ्केतिकमेखलायाम् अनुबन्धकार्येषु च तिरुवनन्तपुरं चतुर्थस्थाने वर्तते । अस्यां मेखलायां नगरस्य केन्द्रं भवति टेक्नोपार्क । १९९५ वर्षे इदं स्थापितम् । केरलस्य तन्त्रांशनिर्याते ८० प्रतिशतम् अस्य नगरस्य योगदानं वर्तते । टेक्नोपार्क केन्द्रे २५० संस्थाः विद्यन्ते । तेषु ३५,००० जनाः च कर्म कुर्वन्ति । Oracle Corporation, Infosys, TCS, HCL, Visual Graphics Computing Services, Ernst & Young Global Shared Services Center, Allianz Cornhill, RR Donnelley, UST Global, Tata Elxsi, IBS Software Services, NeST Software, SunTec Business Solutions इत्यदि अन्ताराष्ट्रियसंस्थानां शाखाः टेक्नोपार्क केन्द्रे वर्तन्ते ।

[सम्पादयतु] विनोदसञ्चारमेखला

तिरुवनन्तपुरस्य साम्पत्तिकमेखलायां प्रधानस्थानं वहति अत्रत्य विनोदसञ्चारमेखला । अनेके देशविदेशयात्रिकाः प्रतिदिनमत्र पर्यटनं कुर्वन्ति । आयुर्वेदः, समुद्रतीरः, गिरिप्रदेशीयसुखवासकेन्द्राणि च अस्य नगरस्य विनोदसञ्चारकेन्द्रेषु अन्यतमानि वर्तन्ते ।

[सम्पादयतु] भरणसंविधानम्

तिरुवनन्तपुरं नगरसभाया: भरणं मेयर् इति प्रसिद्धस्य नगरपितु: नेतृत्वे करोति । केरलीयनगरसभासु अस्यां नगरसभायामेव जनसंख्या अधिका वर्तते । अस्यां नगरसभायां १०० अङ्गानि विद्यन्ते । तिरुवनन्तपुरं नगरविकसनसमितिः, तिरुवनन्तपुरं मार्गविकसनसमितिः इत्याद्यनेक्यः समित्यः नगरसभायाः साहाय्यार्थं प्रवर्तन्ते । केरलनियमसभायाः ४ नियिजकमण्डलानि अस्यां नगरसभायां वर्तन्ते । तानि कषक्कूट्टं, वट्टियूरकाव्, तिरुवनन्तपुरं, नेमं च भवन्ति । भारतीयकरसेनाया: एकं बृहत्केन्द्रं नगरे पाङोड् इति स्थाने वर्तते । नगरसमीपे पल्लिपपुरम् इति स्थाने CRPF आस्थानं तिष्ठति । केरलनियमसभामन्दिरं तिरुवनन्तपुरं नगरस्य हृदयभागे विराजते ।

[सम्पादयतु] गतागतम्

अनेके मार्गाः, रेल् पाता च नगरे सर्वत्र जनान् योजयन्ति । सेलम्-कन्याकुमारी देशीयपाता NH-47 तिरुवनन्तपुरं नगरमार्गेषु प्रधाना । नगरहृदये तम्पानूर् स्थाने रेल निस्थानकं, केरलसर्वकारीयबस्याननिस्थानकं च राजते । समीपे एव तिरुवनन्तपुरं अन्ताराष्ट्रियविमाननिस्थानकं च वर्तते ।

[सम्पादयतु] गणना

२००१ भारतीयजनगणनानुसारं तिरुवनन्तपुरे ७४४७३९ जनाः वसन्ति । ९० प्रतिशतं जना साक्षराः । जनेषु ६५% हैन्दवा:, १८% क्रैस्तवा:, १५% इस्लामिका: च भवन्ति ।

[सम्पादयतु] बाह्यसम्पर्कतन्तुः

  1. Thiruvananthapuram-The Evergreen city of India. asianetindia.com (2009-06-22). दिनांकः 2011-06-06.
  2. Referenzfehler: Ungültiger <ref>-Tag; es wurde kein Text für das Ref mit dem Namen Cities1Lakhandabove angegeben.
  3. Referenzfehler: Ungültiger <ref>-Tag; es wurde kein Text für das Ref mit dem Namen UA1Lakhandabove angegeben.
वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु