तिरुवनन्तपुरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

तिरुवनन्तपुरम् (मलयाळम्: തിരുവനന്തപുരം) केरळराज्यस्‍य राजधानी अस्‍ति । इदम् एकं सुरम्‍यं नगरम् । अत्र अनन्तशायिनः श्रीविष्‍णोः मन्दिरम् अत्यन्तं प्रसिद्धम् अस्ति ।

अत्रत्य जनसंख्या ९००,००० परिमिता अस्‍ति । केरलराज्यस्य राजधानी तिरुवनन्तपुरजनपदस्य आस्थानं च भवति तिरुवनन्तपुरम् । भारतस्य पश्चिमतीरे दक्षिणाग्रे इदं नगरं विराजते । उन्नतावनतभूम्या अतिवेगयुक्तमार्गैः अनलसवाणिज्यमेखलया च सम्पन्नं भवतीयं सुन्दरनगरी । अस्माकं राष्ट्रपतिमहाभागेन महात्मागान्धिवर्येण नित्यहरितनगरम् इति तिरुवनन्तपुरमुद्दिश्य कथितम् । २०११ तमवर्षस्य गणनानुसारम् अस्मिन् नगरे १०००००० जना: वसन्ति । केरलराज्यस्य अत्यधिकजनसान्द्रतायुक्तनगरम् इदमेव ।

तिरुवनन्तपुरम्
തിരുവനന്തപുരം

ट्रिवान्ड्रम् (Trivandrum)

नित्यहरितनगरम्[१]
—  राजधानी  —
From top clockwise: Napier Museum, पद्मनाभस्वामीमन्दिरम्, केरळविश्वविद्यालयः, Government Medical College, Kerala Institute of Medical Sciences, Bhavani building in Technopark and The Oriental Research Institute & Manuscripts Library
तिरुवनन्तपुरम्
തിരുവനന്തപുരം
Location of तिरुवनन्तपुरम्
തിരുവനന്തപുരം
in केरळम्
निर्देशाङ्काः

०८°२६′२५″ उत्तरदिक् ७६°५५′२५″ पूर्वदिक् / 8.44028°उत्तरदिक् 76.92361°पूर्वदिक् / ८.४४०२८; ७६.९२३६१

देशः भारतम्
राज्यम् केरळम्
मण्डलम् Thiruvananthapuram
Mayor Adv. K. Chandrika
Deputy Mayor G. Happykumar
Member Of Parliament(LokSabha) Shashi Tharoor
योजनायोगः TRIDA
पौरायोगः Thiruvananthapuram Corporation
जनसङ्ख्या

• सान्द्रता
• महानगरम्

७,५२,४९० (2011)

4,454 /किमी2 (11,536 /वर्ग मील)
१६,८७,४०६ (42nd) (2011)

लिङ्गानुपातः 1064[२] /
साक्षरता

• Male
• Female

93.72[२]

• 94.94[२]%
• 92.58[२]%

व्यावहारिकभाषा(ः) Malayalam · English
Spoken languages Malayalam · English · Tamil
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• महानगरम्
• औन्नत्यम्
• तीरप्रदेशः

214.86 वर्ग किलोमीटर (82.96 वर्ग मील)

250.00 वर्ग किलोमीटर (96.53 वर्ग मील)
10 मीटर (33 फ़ुट)
78 किलोमीटर (48 मील)

वायुमण्डलम्

तलस्पर्षी
तापमानम्
• ग्रीष्मकालः
• शीतकालः

Am/Aw (कोप्पेन्)

     1,700 मिमी (67 इंच)
     27.2 °से (81.0 °फ़ै)
     35 °से (95 °फ़ै)
     24.4 °से (75.9 °फ़ै)

जालस्थानम् www.corporationoftrivandrum.in
राजारविवर्मणा १८८० तमे वर्षे चित्रितं तिरुवनन्तपुरम्

निरुक्तम्[सम्पादयतु]

तिरुवनन्तपुरम् इति नाम तिरु-अनन्त-पुरम् इति पदत्रयात् रूपीकृतम् इति प्रबलविश्वासः । नगरस्य मुखमुद्रारूपेण गणितस्य श्रीपद्मनाभस्वामिमन्दिरस्य नामसम्बन्धी भवतीदं नाम । सहस्रशिरोयुक्तस्य अनन्तसर्पस्य उपरि शयितस्य महाविष्णोः रूपम् अस्मिन् मन्दिरे आराध्यते ।

कोवलम्[सम्पादयतु]

तिरुवनन्तपुरतः १८ कि.मी दूरे विद्यमानं समुद्रतीरसुखबासकेन्द्रम् । समुद्रयुखास्थिताः महाशिलाः तरणाय अचिता अननाधता, आतपसेवायै उचितं सिकतामयं विशालं तीरम् इत्येतानि आकर्षकाणि । नेटयार डाम्-नगरात्, २९ कि.मी, उत्तरपूर्वादिशि । लधुवन्यभृगर्सरक्षणकेन्द्रम् । निटिनिकरमध्यसंस्थः तडाणः आकर्षकः ।

वर्कला[सम्पादयतु]

श्रीनारायणगुरुदेवस्य समाधिस्थानम् ।

तिरुवनन्तपुरं नगरम्[सम्पादयतु]

श्रीपद्मनाभस्वामिमन्दिरम् सुवर्णनिर्मिता अन्तशाचिनो विष्णोः मूर्तिरेव प्रतिष्ठा । भारते संपत्समृद्धौ प्रथमस्थानं वर्तते अस्य मन्दिरस्य् ।

प्राणिसङ्गहालयः म्यूसियम्[सम्पादयतु]

शङ्खमुखं समुद्रतीरम्[सम्पादयतु]

राजरविवर्मवर्यस्य चित्राणां संस्थानकेन्द्रं चित्रा आर्ट ग्यालरी[सम्पादयतु]

केरलभरणसिराकेन्द्रं –नियमसभामन्दिरम्[सम्पादयतु]

रोकट् विक्षेपणकेन्द्रम्[सम्पादयतु]

तुम्पायाम् तुम्पा इळवट्टोरियल् रोकट भोञ्चिङ स्टेशन् १९६९ आणस्त १५ राष्ट्राय अर्पितम् । केरलस्र्वकलाशालायाः (विश्वविद्यालयस्य) आटलनम् कार्यवट्टं नाम ग्रामं । विषिञ्चम् –आय राज्ञाम् आस्थानम् । अद्य इदं मस्यबन्धनकेन्द्रम् भारतस्य प्रथमा समुद्रदतलाय –विद्युन्निर्माणपद्धतिः अत्रैव । दूरदर्शनसंप्रेषण्निलयः -१९८२ नवम्बरमासे आरब्धः

श्रीचित्रामेडिकल् सेन्टर्[सम्पादयतु]

राज्यस्य सर्वोत्तमम् आधुनिकाचिकित्साकेन्द्रम्

विमानपत्तनम्[सम्पादयतु]

वलियतुरायाम् ।

तिरुवनन्तपुरस्य विशेषा (०४७१)[सम्पादयतु]

केरळराज्यस्य राजधानीस्थाने स्थितम् एतत् नगरम् त्रिवेण्ड्रम् इत्यपि ख्यातम् अस्ति । भारते दक्षिणपूर्वप्रदेशे अरब्बीसागरपश्चिमघट्टयोः मध्ये सप्तपर्वतानाम् उपरि विद्यमानम् एतत् नगरं रमणीयम् अस्ति । अस्य पौराणिकं नाम शयना नन्दूरपुरमिति । इतिहासानुसारं तिरुवनन्तपुरं तिरुवाङ्कूरुसंस्थानस्य भागः आसीत् । महाराजः मार्ताण्डवर्मा एतत् नगरं राजधानीम् कृतवान् । प्रसिद्धस्य काव्यकर्तुः स्वातितिरुनाळ् महोदयस्य श्रमेण तिरुवनन्तपुरस्य सांस्कृतिकतया अभिवृद्धिः जाता अस्ति । स्वातितिरुनाळ् क्रिस्ताब्दे १८३४ तमे वर्षे आङ्गलभाषाशिक्षणार्थं विद्यालयं संस्थापितवान् । अनन्तरम् अनेकैः महाराजैः कलाविद्यालयाः विश्वविद्यालयाः च स्थापिताः सन्ति । स्वातन्त्र्यप्राप्तेरनन्तरम् भारतेन सम्मिलितं तिरुवाङ्कूरुसंस्थानम् अग्रे केरळराज्यम् इति प्रसिद्धम् अभवत् । आधुनिककाले तिरुवनन्तपुरनगरं उत्तमा, सुन्दरी राजधानी इति प्रख्यातम् अस्ति ।

तिरुवनन्तपुरे केरलसर्वकारस्य तथा भारतसर्वकारस्य च अनेके कार्यालया: वर्तन्ते । विविधव्यवसायशृङ्खलायाः मुख्यकार्यालयाः च अस्मिन् नगरे तिष्ठन्ति । केरलराज्यस्य राष्ट्रियसिराकेन्द्रं भरणसिराकेन्द्रं च भवति इदं नगरम् । उन्नतविद्याभ्याससंस्थाः च अत्र वर्तन्ते । प्रशस्ता केरलसर्वकलाशाला, राजीव् गान्धी जैवसाङ्केतिकगवेषणकेन्द्रं, विक्रं साराभायी बहिराकाशकेन्द्रमित्यादयः तेषु प्रमुखाः । भारतस्य प्रथमविवरसाङ्केतिकसमुच्चय: टेक्नो पार्क् अपि तिरुवनन्तपुरे वर्तते ।

तिरुवनन्तपुरस्य प्रासादः

नगरचरितम्[सम्पादयतु]

ख्रिस्तोः पूर्वं १००० वर्षादारभ्य तिरुवनन्तपुरस्य वाणिज्यचरित्रं लभ्यते । सुगन्धव्यञ्जनानि, गजशृङ्गाः, चन्दनदारवः इत्यादयः अत्रत्य मुख्यवाणिज्यवस्तूनि आसन् । किन्तु तत्कालीनानाम् अन्येषां नगराणाम् अपेक्षया तिरुवनन्तपुरस्य स्थितिः भिन्ना आसीत् । आय् राजवंशानां भरणे आसीत् तिरुवनन्तपुरम् । तेषां पतनानन्तरं १० शतके नगरभरणं वेणाट् राजवंशानां नियन्त्रणे आगतम् । आधुनिकतिरुवनन्तपुरस्य चरितं १७२९ वर्षे मर्ताण्डवर्मा महाराजस्य नगरभरणेन आरभ्यते । १७४५ वर्षे तिरुवनन्तपुरं तिरुवितांकूर् राज्यस्य राजधानीरूपेण अङ्गीकृतम् ।

प्रकृतिः भूमिशास्त्रं च[सम्पादयतु]

भारतस्य दक्षिणाग्रे पश्चिमपार्श्वे 8.5° N 76.9° E अक्षांशरेखांशेन तिरुवनन्तपुरं विराजते । अस्य जनपदस्य पश्चिमभागे आरबसागरः पूर्वभागे सह्यपर्वतः च वर्तते । नद्यः लघुपर्वताः च देशे तत्र तत्र विद्यन्ते । वेल्लायणी ह्रदः, करमना नदी, किल्लियार्, आक्कुळं, तिरुवल्लं च तिरुवनन्तपुरे प्रवहन्त्यः प्रमुखाः जलाशयाः भवन्ति । समुद्रात् 1890 मी. उपरि स्थितः अगस्त्यकूटम् इति प्रसिद्धः पर्वतः एव अस्य नगरस्य परमोन्नतप्रदेशः । पोन्मुटि, मुक्कुन्निमला च अत्रत्य पर्सिद्धगिरिरिसोर्ट्स् (Hill Resorts)भवति । उष्णमेखलाप्रदेशे वर्तते इत्यतः तिरुवनन्तपुरे विभिन्नकालावस्थाः प्रत्यक्षतया न अनुभूयन्ते । उष्णधर्मपरिमाणं 34 °C तथा 21 °C च मध्ये वर्तते । वायो: आर्द्रता वृष्टिकाले अत्र नवति प्रतिशतं वर्धते । दक्षिणपश्चिममन्सून् (south-west monsoon) मार्गे आद्ये विद्यमाने अस्मिन् नगरे वृष्टिः अपि आद्यमागच्छति । प्रतिवर्षं 1700 mm वृष्टिः अत्र पततीति शास्त्रज्ञानां गणना । जून् मासे वृष्टि: आरभ्यते, डिसम्बर् मासत: फेब्रुवरी पर्यन्तं शीतमनुभूयते । मार्च् तः मेय् पर्यन्तम् उष्णमनुभूयते ।


साम्पत्तिकमेखला[सम्पादयतु]

पूर्वकाले तिरुवनन्तपुरस्य साम्पत्तिकावस्था सेवनमेखलायामाधारितमासीत् । नागरिकेषु षष्ठिप्रतिशतं सर्वकारीयकर्मकारा: आसन् । किन्तु अद्य विवरसाङ्केतिकविद्या, बयो टेक्नोलजि, वैद्यशास्त्रमेखला च अत्रत्य साम्पत्तिकमेखलां नयति । भारतस्य प्रथम आनिमेषन् पार्क् (Animation Park) किन्फ्रा फिल्म् आन्ट् वीडियो पार्क् Kinfra Film and Video Park अस्मिन् नगरे तिष्ठति ।

टेक्नोपार्क Technopark[सम्पादयतु]

भारते विवरसाङ्केतिकमेखलायाम् अनुबन्धकार्येषु च तिरुवनन्तपुरं चतुर्थस्थाने वर्तते । अस्यां मेखलायां नगरस्य केन्द्रं भवति टेक्नोपार्क । १९९५ वर्षे इदं स्थापितम् । केरलस्य तन्त्रांशनिर्याते ८० प्रतिशतम् अस्य नगरस्य योगदानं वर्तते । टेक्नोपार्क केन्द्रे २५० संस्थाः विद्यन्ते । तेषु ३५,००० जनाः च कर्म कुर्वन्ति । Oracle Corporation, Infosys, TCS, HCL, Visual Graphics Computing Services, Ernst & Young Global Shared Services Center, Allianz Cornhill, RR Donnelley, UST Global, Tata Elxsi, IBS Software Services, NeST Software, SunTec Business Solutions इत्यदि अन्ताराष्ट्रियसंस्थानां शाखाः टेक्नोपार्क केन्द्रे वर्तन्ते ।

विनोदसञ्चारमेखला[सम्पादयतु]

तिरुवनन्तपुरस्य साम्पत्तिकमेखलायां प्रधानस्थानं वहति अत्रत्य विनोदसञ्चारमेखला । अनेके देशविदेशयात्रिकाः प्रतिदिनमत्र पर्यटनं कुर्वन्ति । आयुर्वेदः, समुद्रतीरः, गिरिप्रदेशीयसुखवासकेन्द्राणि च अस्य नगरस्य विनोदसञ्चारकेन्द्रेषु अन्यतमानि वर्तन्ते ।

भरणसंविधानम्[सम्पादयतु]

तिरुवनन्तपुरं नगरसभाया: भरणं मेयर् इति प्रसिद्धस्य नगरपितु: नेतृत्वे करोति । केरलीयनगरसभासु अस्यां नगरसभायामेव जनसंख्या अधिका वर्तते । अस्यां नगरसभायां १०० अङ्गानि विद्यन्ते । तिरुवनन्तपुरं नगरविकसनसमितिः, तिरुवनन्तपुरं मार्गविकसनसमितिः इत्याद्यनेक्यः समित्यः नगरसभायाः साहाय्यार्थं प्रवर्तन्ते । केरलनियमसभायाः ४ नियिजकमण्डलानि अस्यां नगरसभायां वर्तन्ते । तानि कषक्कूट्टं, वट्टियूरकाव्, तिरुवनन्तपुरं, नेमं च भवन्ति । भारतीयकरसेनाया: एकं बृहत्केन्द्रं नगरे पाङोड् इति स्थाने वर्तते । नगरसमीपे पल्लिपपुरम् इति स्थाने CRPF आस्थानं तिष्ठति । केरलनियमसभामन्दिरं तिरुवनन्तपुरं नगरस्य हृदयभागे विराजते ।

गतागतम्[सम्पादयतु]

अनेके मार्गाः, रेल् पाता च नगरे सर्वत्र जनान् योजयन्ति । सेलम्-कन्याकुमारी देशीयपाता NH-47 तिरुवनन्तपुरं नगरमार्गेषु प्रधाना । नगरहृदये तम्पानूर् स्थाने रेल निस्थानकं, केरलसर्वकारीयबस्याननिस्थानकं च राजते । समीपे एव तिरुवनन्तपुरं अन्ताराष्ट्रियविमाननिस्थानकं च वर्तते ।

गणना[सम्पादयतु]

२००१ भारतीयजनगणनानुसारं तिरुवनन्तपुरे ७४४७३९ जनाः वसन्ति । ९० प्रतिशतं जनाः साक्षराः । जनेषु ६५% हैन्दवा:, १८% क्रैस्तवा:, १५% इस्लामिका: च भवन्ति ।


अत्र प्रेक्षणीयानि बहूनि स्थलानि सन्ति । तेषु शङ्गुमुगं (शङ्खुमुखम्) सागरतीरम् (८ कि.मी), विमाननिस्थानं, नौकानिस्थानं, मत्स्यागारः , विक्रमसाराभाई स्पेस् सेण्टर् , प्राणिपक्षिसङ्ग्रहालयः, नेपियर्वस्तुसङ्ग्रहालयः (१४५३), चित्रकलासङ्ग्रहालयः (१९३५) इत्यादिस्थानानि प्रमुखानि सन्ति । चित्रकलासङ्ग्रहालये राज्ञः रविवर्मणः चित्राणां रोरिच् महोदयस्य च चित्राणां प्रदर्शनव्यवस्था अस्ति । एतेषु प्राचीनकालीनानि तथा आधुनिककालीनानि आभरणानि सन्ति । सूक्ष्मगजदन्तशिल्पानि, मोगल् तञ्जावूरु-शैल्या लिखितानां चित्राणां सङ्ग्रहः अस्ति । एकस्मिन् भागे रविवर्मणः चित्राणां विशेषप्रदर्शनं कृतमस्ति । तिरुवनन्तपुरनगरे श्रीपद्मनाभस्वामिदेवालयः सुन्दरः प्राचीनः विश्वे एव समृद्धः इति ख्यातः अस्ति । पूर्वाभिमुखः अयं देवालयः । देवालयं परितः श्रीबलिपुरंनामकः प्रावारः अस्ति । अस्य देवालयस्य गोपुरं सप्तस्तरीयं -३० मीटरोन्नतमस्ति । अन्तर्भागे सुन्दरशिल्पानि ३६८ स्तम्भेषु चित्रितानि सन्ति । द्वितीये अन्तर्भागे श्रीपद्मनाभस्वामिनः गर्भगृहम् अस्ति । श्रीअनन्तपद्मनाभस्वामी शयानः अस्ति । अस्य सुदीर्घा मूर्तिः अस्ति । त्रिभिः द्वारैः द्रष्टव्या अस्ति । विग्रहादुत्थिते कमले ब्रह्मदेवस्य मूर्तिरस्ति । देवालये अष्टादशपादपरिमिता शिलामूर्तिः स्वर्णमूर्तिः च स्तः । हिन्दूनां कृते एव दर्शनाय अवसरः अस्ति । पुरुषाः धवलवेष्टिधारणं कृत्वा एव दर्शनं कुर्युः ।

तिरुवनन्तपुरसमीपस्थानि स्थलानि[सम्पादयतु]

पध्मनाभपुरं महल् तिरुवनन्तपुरतः ५३ कि.मी दूरे अस्ति । एतस्य निर्माणं राजा मार्ताण्डवर्मा कारितवान् । भव्यं भवनं वास्तुशिल्पयुक्तं शिल्पकलायुक्तं च अस्ति । ९ कि.मी दूरे व्याली ल्यागून् प्रदेशे नौकायानव्यवस्था अस्ति । जलक्रीडापि अत्र कर्तुं शक्या ।

मार्गः[सम्पादयतु]

विमानमार्गः[सम्पादयतु]

तिरुवनन्तपुरं निस्थानम् ।

भूमार्गः[सम्पादयतु]

तमिळ्नाडुकर्णाटककेरळराज्यानां सर्वेभ्यः महानगरेभ्यः वाहन- सम्पर्कः अस्ति । धूमशकटनिस्थानमपि तिरुवनन्तपुरनगरे अस्ति । वसत्यर्थं ‘चैत्रम्’ केरलप्रवासोद्यमाभिवृद्धिनिगमस्य उपाहारगृहं धूमशकटनिस्थानसमीपेऽस्ति। बेङ्गळूरुतः ७३८ कि.मी, कन्याकुमारीतः १८ कि.मी, कोयम्बत्तूरुतः ४३६ कि.मी । चैन्नैतः ७४६ कि.मी मधुरैतः ३०५ कि.मी । मङ्गळूरुतः ७०६ कि.मी, मैसूरुतः ६४६ कि.मी । नगरदर्शनव्यवस्थास्ति ।

बाह्यानुबन्धाः[सम्पादयतु]

आधाराः[सम्पादयतु]

  1. "Thiruvananthapuram-The Evergreen city of India". asianetindia.com. 2009-06-22. Archived from the original on 2012-05-06. आह्रियत 2011-06-06. 
  2. २.० २.१ २.२ २.३ उद्धरणे दोषः : अमान्या <ref> शृङ्खला; Cities1Lakhandabove इत्यस्य आधारः अज्ञातः

फलकम्:केरला मण्डलाः

"https://sa.wikipedia.org/w/index.php?title=तिरुवनन्तपुरम्&oldid=480423" इत्यस्माद् प्रतिप्राप्तम्