तिलभेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
श्वेतखसतिलः
कृष्णखसतिलः

अयं खसतिलः अपि भारते वर्धमानः कश्चन धान्यविशेषः । अयं खसतिलः अपि सस्यजन्यः आहारपदार्थः । अयं खसतिलः आङ्ग्लभाषायां Poppy seeds इति उच्यते । हिन्दीभाषायां खस् खस् के दाने इति, ल्याटिन्-भाषायां Paparer fomniferum इति च वदन्ति । अयं खसतिलः तृणकुले Paparsaecea कुले अन्तर्भवति । खाखसतिलः, तिलभेदः, खसबीजम् इत्यादीनि अपि अस्य खसतिलस्य अन्यानि नामानि । अनेन खसतिलेन निर्मितस्य पायसस्य समम् अन्यत् किमपि नास्ति एव इति उच्यते । अयं खसतिलः वर्णस्य अनुगुणं चतुर्धा विभज्यते । जारणः, मारणः, धारणः, सारणः च इति ।

खसतिलस्य सस्यं, पुष्पं, फलं चापि
खसतिलवृक्षः
खसतिलपुष्पाणि
मेक्सिकन्प्रदेशस्य कण्टकयुक्तं खसतिलफलम्

आयुर्वेदस्य अनुसारम् अस्य खसतिलस्य स्वभावः[सम्पादयतु]

खसतिलस्य क्षेत्रम्

अयं खसतिलः पचनार्थं जडः । खसतिलः अत्यन्तं रुचिकरः अपि ।

“खसबीजानि बल्यानि वृष्याणि सुगुरूणि च ।
शमयन्ति कफं तानि जनयन्ति समीरणम्॥“ (भावप्रकाशः)
१. अयं खसतिलः बलवर्धकः, वीर्यवर्धकः च ।
२. खसतिलः कफहरः, वातकारकः च ।
३. अयं खसतिलः अत्यन्तं वेदनाशामकः । अतः श्रमिकाः अधिकतया अस्य उपयोगं कुर्वन्ति ।
४. अयं खसतिलः निद्राजनकः । निद्राहीनतारोगेण पीडिताः अस्य उपयोगं कर्तुम् अर्हन्ति ।
५. दैहिकरूपेण दुर्बलानां कृते, शुष्ककासेन पीडितानां कृते अयं खसतिलः चूर्णीकृत्य शर्करया सह वा मधुना सह वा दातव्यः ।
६. अयं खसतिलः वेदनायां सत्यां बाह्यलेपनार्थम् अपि उपयुज्यते ।
७. खसतिलस्य तैलं १/४, १/२ प्रमाणेन अनिद्रासमस्यायां दीयते ।
८. शिरोवेदनायां सत्यां खसतिलस्य् तैलं ललाटे लेप्यते ।
९. कर्णवेदनायाम् अपि कर्णपूरणत्वेन खसतिलस्य तैलम् उपयुज्यते ।
१०. वातजप्रवाहिकायाम् अपि (ब्यासिलरि डीसेण्टरि) खसतिलस्य लेह्यं दीयते ।
११. श्वेतवर्णस्य “जारण” नामकः खसतिलः उत्तमः पाचकः ।
१२. कृष्णवर्णस्य “मारण” नामकः खसतिलः विषपूरितः, मरणकारकः च । अयम् उपयोगार्थं निषिद्धः अस्ति ।
१३. पीतवर्णस्य “धारण” नामाकः खसतिलः वृद्धाप्यं दूरीकरोति ।
१४. चित्रवर्णस्य “सारण” नामकः खसतिलः मलसनिस्सारकः ।
१५. अयं खसतिलः बहूनां मधुरभक्ष्याणां निर्माणे प्रमुखं वस्तु ।
१६. मार्फिन् अपि खसतिलस्य वृक्षस्य फलनिर्यासात् उत्पद्यते ।

बाह्यानुबन्धः योजनीयः‎

विषयः वर्धनीयः
सारमञ्जूषा योजनीया‎

भाषानुबन्धः योजनीयः

"https://sa.wikipedia.org/w/index.php?title=तिलभेदः&oldid=366870" इत्यस्माद् प्रतिप्राप्तम्