तुवरी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
तुवरीदालाः
तुवरीधान्यम्
तुवरीसस्यम्
तुवरीधान्यस्य विक्रयणम्
तुवरीसस्यम्

भारते वर्धमानः कश्चन धान्यविशेषः तुवरी अथवा आढकी । एषा तुवरी अपि सस्यजन्यः आहारपदार्थः । एषा आङ्ग्लभाषायां Toor Dal इति उच्यते । अस्माकं देशे बहुषु राज्येषु तुवर्याः उपयोगः प्रतिदिनं क्रियते एव । तुवरीबीजस्य वर्णानुगुणम् एषा त्रिधा विभक्ता अस्ति । कृष्णतुवरी, श्वेततुवरी, रक्ततुवरी चेति । संस्कृते तुवर्याः आढकी, करवीरभुजा, वृत्तबीजा, पीतपुष्पा इत्यादीनि नामानि सन्ति । आन्ध्रपदेशे “मुद्दुपप्पु”नामकं खाद्यं निर्मान्ति विशेषतया । दक्षिणभारते तुवरीदालेन “सारः”क्वथितं” “बिसिबेळेबात्” इत्यादयः आहारपदार्थाः निर्मीयन्ते ।

आयुर्वेदस्य अनुसारम् अस्याः तुवर्याः स्वभावः[सम्पादयतु]

यद्यपि दालाः वातवर्धकाः तथापि तुवरीदालः न तावान् वातवर्धकः । तुवरी कफं, पित्तं च निवारयति । शीतगुणः अस्याः । शरीरं शुष्कीकरोति अपि । किन्तु पचनार्थं लघु । मलबद्धताम् उत्पादयति । अस्यां किञ्चिन्मात्रेण मधुरत्वं, कषायत्वं च भवतः । रक्तदोषनिवारकः अपि ।

“आढकी तुवरा रूक्षा मधुरा शीतला लघुः ।
ग्राहिणी वातजननी वर्ण्या पित्तकफास्रजित् ॥“ (भा.प्र.)
१. ज्वरपीडितानां, भोजनं न रोचते इति अस्ति चेत्, कासपीडितानाम्, अस्थिरोगयुक्तानां, पुनः पुनः वमनकर्तॄणां च तुवरीदालेन निर्मितः सारः हितकरः ।

“गुल्म-ज्वरारोचक-कासछर्दि-हृद्रोगदुर्नामहराढकी स्यात् ।“ (शा.नि.)

२. तुवरीदालस्य पक्वकरणावसरे घृतं योजितं चेत् त्रिदोषशामकः भवति ।
३. कृष्णतुवरी बलकारिका । पचनशक्तिम् अपि वर्धयति । पित्तनिवारिका अपि । शशीरस्य ज्वलनं न्यूनीकरोति ।
४. श्वेततुवरी वातं पित्तं च वर्धयति । आम्लपित्तम् (आसिडिटि) उत्पादयति । उदरबाधाम् अपि जनयति ।
५. रक्ततुवरी बहुरुचिकरी, पित्तनिवारिका चापि । ज्वरपीडितानाम् अपि उत्तमम् ।
६. तुवरीपिष्टस्य लेपनेन चर्म शुद्धं भवति, कान्तिः अपि वर्धते ।
७. तुवरीदालस्य पचनावसरे किञ्चिन्मात्रेण तैलं योजयामः चेत् न वातकारकः ।
८. पचनावसरे हरिद्रायाः योजनेन पक्वः दालः यदा शीतलः भवति तदा अपि रोगाणवः न उत्पद्यन्ते ।
"http://sa.wikipedia.org/w/index.php?title=तुवरी&oldid=266246" इत्यस्माद् पुनः प्राप्तिः