ते तं भुक्त्वा स्वर्गलोकं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥ २१ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य एकविंशतितमः(२१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति एवं त्रयीधर्मम् अनुप्रपन्नाः गतागतं कामकामा लभन्ते ॥ २१ ॥

अन्वयः[सम्पादयतु]

ते तं विशालं स्वर्गलोकं भुक्त्वा पुण्ये क्षीणे (सति) मर्त्यलोकं विशन्ति । एवं त्रयीधर्मम् अनुप्रपन्नाः कामकामाः गतागतं लभन्ते ।

शब्दार्थः[सम्पादयतु]

ते = ते मानवाः
विशालम् = विपुलम्
तम् = प्रसिद्धम्
स्वर्गलोकम् = स्वर्गभुवनम्
भुक्त्वा = अनुभूय
पुण्ये = सत्कर्मजन्यफलविशेषे
क्षीणे = विनष्टे सति
मर्त्यलोकम् = मानवलोकम्
विशन्ति = प्रविशन्ति ।
एवम् = इत्थम्
त्रयीधर्मम् = वेदत्रयधर्मम्
अनुप्रपन्नाः = प्राप्ताः
कामकामाः = भोगवस्तूनि
इच्छन्तः
गतागतम् = यातायातम्
लभन्ते = प्राप्नुवन्ति ।

अर्थः[सम्पादयतु]

ते च वेदत्रयविदः विशाले तस्मिन् स्वर्गलोके कञ्चित् कालं सुखम् अनुभूय पुण्ये क्षीणे सति इमं लोकम् आगच्छन्ति । पुनरपि वैदिकमार्गम् अनुसरन्तः भोगान् अपेक्षमाणाः स्वर्गं गच्छन्ति । ततः पुण्ये क्षीणे सति ततः प्रत्यागच्छन्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]