त्रिभुवनदास पटेल

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(त्रिभुवनदास् पटेल् इत्यस्मात् पुनर्निर्दिष्टम्)


त्रिभुवनदास् किशिभायी पटेलवर्यः (Tribhuvandas K Patel) भारतस्य कश्चन स्वातन्त्र्ययोधः सामाजिककार्यकर्ता गान्धीवादी च असीत् । 'अमुल्' नामिकां क्षीरोत्पन्नसम्बद्धां सहकारसंस्थाम् आरब्धवान् । खैरामण्डलस्य क्षीरोत्पादकानां कूटस्य संस्थापनम् एतस्य महोदयस्य मुख्ययोगदानमासीत् । समूदायनायकत्वकार्यार्थम् एषः अन्ताराष्ट्रियेण रमोन् मैग्सेसे-पुरस्कारेण सम्मानितः ।

१९०३तमे वर्षे अक्टोबर् मासस्य २२तमे दिनाङ्के गुजरातराज्यस्य आनन्दग्रामे त्रिभुवनदासस्य जन्म अभवत् । तदा आनन्दग्रामः तु बाम्बेराज्ये अन्तर्भूतः आसीत् । त्रिभुवनदासः तारुण्ये एव मोहनदासकरमचन्दगान्धिमहाभागस्य प्रभावात् भारतस्वातन्त्र्यसङ्ग्रामे भागं गृहीतवान् । सरदार् वल्लभभायी पटेलवर्यः अपि एतस्य आदर्शव्यक्तिः पथिदर्शकश्च असीत् । अनेकेषु आन्दोलनेषु त्रिभुवनदासवर्यः भागं गृहीत्वा त्रिवारं कारागृहवासमपि अनुभूतवान् ।

सामाजिककार्याणि[सम्पादयतु]

  • वल्लभभायिपटेलवर्यस्य मार्गदर्शने तिभुवनदासः आनन्द-उपमण्डलस्य अभ्युदयार्थं विविधकार्याणि कृतवान् । ग्रामस्य अस्पृश्यबालकानां कृते शालामेकां निर्मातुं हरिजनसेवकसङ्घम् आरब्धवान् । तेन द्वारा हरिजनानां शाला आरब्धा । बालेभ्यः पाठ्योपकरणानां-वस्त्राणां वितरणं कृतम् । तद्द्वारा हरिजनानाम् आत्मविश्वासवर्धनाय सामाजिकसमानतायै च प्रयत्तवान् ।
  • त्रिभुवनदासवर्यः आनन्दस्य स्थानीय वस्त्रकार्यागारात् वस्त्राणि विक्रेतुं सहकारिग्राहकसंङ्घं स्थापितवान् ।
  • त्रिभुवनदासवर्येण स्थापितस्य 'देशबन्धु मुद्रणालयस्य' द्वारा उत्तमानि पुस्तकानि पत्रिकाश्च मुद्रितवान् ।
  • खैरामण्डलस्य क्षीरोत्पादकसंस्थाद्वारा स्थलीयेभ्यः क्रीतं क्षीरं संस्करणं कृत्वा मुम्बईनगरे विक्रयणं कृतम् । एषा संस्था एव 'अमुल्' इति प्रसिद्धा जाता । एषः कूटः १९४७तमे वर्षे वल्लभभायिपटेलस्य मोरार्जीदेसायिवर्यस्य मार्गदर्शने संस्थापितः । त्रिभुवनदासवर्यः एतस्य कूटस्य प्रथमाध्यक्षः आसीत् ।
  • १९६३तमे वर्षे त्रिभुवनदासवर्यः रमोन्मेग्सेसेप्रशस्तिभाक् सञ्जातः ।
  • एतान् अतुरिच्य,
  1. खैराजिल्ला कृषि-उत्पन्नविक्रयण-समिति
  2. लोकबन्धु-सहकारीप्रकाशन, निधियाड्
  3. खैराजिल्ला-भूसम्बधित-सहकारीवित्तकोशः
  4. आनन्द्-बोर्साद्- श्रमजीवी-सहकारिसङ्घः
  5. गुजरातराज्य-कोआपरेटिव्-मार्केटिङ्ग्-सोसैटि
  6. खैराजिल्ला-सेन्ट्रल्-कोआपरेटिव् वित्तकोशः इत्यादिषु संस्थासु त्रिभुवनदासवर्यः विविधदायित्वानि निरूढवान्
"https://sa.wikipedia.org/w/index.php?title=त्रिभुवनदास_पटेल&oldid=367507" इत्यस्माद् प्रतिप्राप्तम्