थॉमस एडिसन
थॉमस एडिसनस्य नाम वयं सर्वे जानीमः एव । सः क दाचित् चिन्तितवान् मया मतदानपञ्जीक रणयन्त्रं निर्मातव्यम् इति । निरन्तर चिन्तनेन सः तादृशस्य यन्त्रस्य निर्माणे समर्थः जातः एव । यन्त्रस्य स्वाम्यम् अपि सम्पादितं तेन । एतस्मात् मया प्रभूतं यशः सम्पाद्येत इति अभावयत् सः । राष्ट्राध्यक्षाय तत् यन्त्रं दर्शयितुं सः वाषिन्गटन् नगरं गतवान् । संसदः सभाध्यक्षः तेन दृष्टः । स्वस्य यन्त्रस्य वैशिष्ट्य् कार्यनिर्वहण सामर्थ्यं च सः विवृतवान् अध्यक्षस्य पुरतः । एतस्य उपयोगतः मतदान विलम्बदोषः दूरीकर्तुं शक्यः । एकस्य क्षणस्य विलम्बं अपि एतत् यन्त्रं न सहते । मतदाने एकोऽपि दोषः न भवति एतस्य उपयोगतः इति अवदत् सः । सर्व् अपि सश्रद्धं श्रुत्वा प्रयत्नं प्रशंसन् राष्ट्राध्यक्षः यन्त्रमिदं संसद्भवने यदि योज्येत तर्हि मतदाने शीघ्रता भवेत् । किन्तु एतत् यन्त्रं अत्र प्रयोजनाय न भवेत् । यतः राजनीतिपुरुषाः विलम्बं एव इच्छन्ति । चर्चानिर्वहणादि निमित्तं कालविलम्बः आवश्यकः एव भवति इति उक्त्वा यन्त्रस्वीकारं निराकृतवान् । एतस्य श्रवणात् एडिसनः विषण्णवदनः जातः । गुणः अपि अत्र दोषाय जातः इति चिन्तयन् सः निर्णीतवान् इतः परं मया उच्चस्तरीयेभ्यः किमपि न करणीयम् । यः यः आविष्कारः क्रि येत सः सामान्यानां जनानां निमित्तं एव स्यात् इति । अग्रे तेनैव एडिसन् महोदयेन विद्युद्दीपस्य आविष्कारः कृतः ।