दक्षिणकन्नडमण्डलम्
दक्षिणकन्नडमण्डलम् कर्णाटकराज्ये विद्यमानं किञ्चन मण्डलम् | अस्य मण्डलस्य केन्द्रं मङ्गळूरु नगरम् |
अन्तर्विषयाः |
विस्तीर्णता [सम्पादयतु]
दक्षिणकन्नडमण्डलस्य- विस्तीर्णता ४८४३ च.कि.मी मिताऽस्ति।
भौगोलिकता [सम्पादयतु]
कर्णाटकस्य मण्डलेषु अतिविशिष्ठं मण्डलं दक्षिणकन्नडमण्डलम् अस्ति । मङ्गलूरु अस्य मण्डलस्य केन्द्रस्थानम् । पूर्वम् उडुपी, कुन्दापुरं कार्कलं च उपमण्डलानि अस्य मण्डलस्य एव भागाः आसन् । अत्र '''तुळु''' इति विशिष्टा भाषा भाष्यते । अतः तुळुनाडु इति अपि एतस्य नाम अस्ति।
इतिहासः [सम्पादयतु]
पूर्वं दक्षिणोत्तरकन्नडमण्डले च मेलयित्वा केनरा इति कथयन्ति स्म । कर्णाटकस्य १५० कि.मी समुद्रतीरप्रदेशः अस्ति। क्रि.श.१८६० तमे वर्षे ब्रिटिश् जनाः उत्तरकेनरा, दक्षिणकेनरा इति विभागम् अकुर्वन् । क्रि.श.१८६२ तमे वर्षे उत्तरकेनराप्रदेशं मुम्बैप्रेसिडेन्सी मध्ये, दक्षिणकेनराप्रदेशं मद्रास् प्रेसिडेन्सी मध्ये प्रवेशितवन्तः । स्वातन्त्र्योत्तरकाले कासरगोडुप्रदेशः अपि दक्षिणकन्नडमण्डले अन्तर्गतः आसीत् । क्रि.श. १९९७ तमे वर्षे प्रशासनहितदृष्ट्या कर्णाटकसर्वकारः समग्रं दक्षिणकन्नडं विभज्य द.क., उडुपी इति मण्डलद्वयम् अकरोत् । एतं समुद्रतटप्रदेशं परशुरामसृष्टिः इति अपि भावयन्ति । अस्मिन् मण्डले मत्स्योद्यमः कृषिः च प्रधानौ उद्योगौ भवतः। किन्तु इदानीन्तनकाले यन्त्रोद्यमः अपि संवृद्धः अस्ति । शालिधान्यानि, नारिकेरफलानि च अत्र अधिकानि प्ररोहन्ति । वाणिज्योद्यमस्य फलचयरूपेण पूगफलानि अपि यथेष्टं प्ररोहन्ति । प्रगतिशीलप्रदेशेषु अस्य द्वितीयं स्थानम् अस्ति । अस्मिन् मङ्गलूरु, बण्टवाल, पुत्तूरु, सुल्य, बेल्तङ्गडि इति पञ्च उपमण्डलानि भवन्ति । शैक्षणिकदृष्ट्या अधिका अभिवृद्धिः अत्र दृश्यते । वैद्यकीयविज्ञाने, अभियान्त्रिकीशास्त्रे, नर्सिङ्ग्, एम्.बि.ए. विभागे च अत्र न्यूनशुल्केन अध्ययनार्थम् अवसराः लभ्यन्ते ।
भाषाः [सम्पादयतु]
कन्नड, तुलु, हव्यककन्नड कोङ्कणी, ब्यारि, कुन्दकन्नड, इत्याद्याः भाषाः अत्र भाष्यन्ते ।
उपमण्डलानि ५ [सम्पादयतु]
मङ्गलूरु, बेळतङ्गडी, बण्ट्वाळ, पुत्तुरु सुळ्य च ।
दर्शनीयानि स्थानानि [सम्पादयतु]
मूडुबिदरे स्थितः सहस्रस्तम्भबसदिः, गुरुबसदिः, धर्मस्थले श्रीमञ्जुनाथदेवालयः, कद्रि मञ्जुनाथेश्वरदेवालयः, कटिलु श्री दुर्गापरमेश्वरीदेवस्थानम्, कुक्के श्रीसुब्रह्मण्यदेवालयः, शान्तिमोगरु श्रीसुब्रह्मण्यस्वामिदेवालयः, कार्कलगोम्मटेश्वरपर्वतः, चतुर्मुखबसदि, श्री अनन्तशयनदेवालयः, पुत्तिगे श्रीसोमनाथेश्वरदेवालयः, पोललि श्री राजराजेश्वरिमन्दिरं, बप्पनाडु श्री दुर्गापरमेश्वरी देवस्थानं, सोमेश्वरनाथदेवालयः, कृष्णापुरमठः, उल्लालदर्गा, पुत्तूरुमहालिङ्गेश्वरदेवालयः, मङ्गलूरु- मस्जिद् तक्वापम्प्वेल्, पुत्तूरुदर्गा शरीफ्माडन्नूर्, दर्गा शरीफ्बैतड्क, दर्गा शरीफ्काजूर् इत्यादीनि प्रसिद्धानि दर्शनीयानि स्थानानि सन्ति ।
पवित्रक्षेत्राणि [सम्पादयतु]
मङ्गलूरु, धर्मस्थलं, कुक्केसुब्रह्मण्यं,मूडबिद्री, पोळली, चिन्तामणिनृसिंहः, कोक्कड शिशिलेश्वरः, कान्तावर, उच्चिल, तोडिकान, वेणूरु कुद्रोळी, कटीलु कद्रि च ।
नद्यः [सम्पादयतु]
नेत्रावती, गुरुपुर, गङ्गोळ्ळी, सीतानदी, स्वर्णा
१. मङ्गळूरु-(०८२४)
मङ्गलूरुनगरं देवालयानाम् आश्र्यस्थानम्। मङ्गळादेवीदेवालयः प्रमुखः। श्रीमङ्गळादेवी नगरदेवता च । अतः एव नगरस्य मङ्गलूरु इति नाम प्राप्तम् अस्ति । अत्रत्याः अन्ये देवालयाः वेङ्कटरमणदेवालयः (२७३५), महामाया देवालयः मुख्यप्राणः, विठोबा, उमामहेश्वरः, सोमेश्वरः (उल्लाल) त्रिभुवनेश्वरः, गोरखनाथः काळी, शरवु गणपतिः च । “मैसूरु-अधिपतिः टिप्पुसुल्तान् अत्र आगन्य आक्रमणं कर्तुम् इष्टवान् । स्वप्ने देवं दृष्ट्वा पलायनं कृतवान् ।अनन्तरं देवालयकार्यार्थं स्वराज्यकोशतः बहुधनं सुवर्ण-रत्नादिकं च दत्तवान्” इति इतिहासः सूचयति ।
मङ्गळूरुनगरे मत्स्योद्यमः, धूमवर्तिका-उद्यमः, काफीसंस्करणघटकः इत्यादयः अनेके उद्यमाः उत्तमतया कार्यं कुर्वन्ति । मार्गः- कङ्कनाडी-रेल् निस्थानकम् । वायुमार्गः-बज्पेविमाननिस्थानकम् । लोकयानानि- यथेष्टं सर्वप्रदेशतः सन्ति । मङ्गळूरुसमीपे कुद्रोळिगोकर्णनाथमन्दिरं बहु सुन्दरम् अस्ति। अत्र दसरामहोत्सवः वैभवपूर्णः भवति । कद्रि श्रीमञ्जुनाथदेवालयः (दशमे शतके) प्रसिद्धः अस्ति । उल्लालसागरतीरः नवमङ्गलूरुनौकास्थानम् इत्यादीनि अन्यप्रेक्षणीयस्थलानि ।
२. मूडबिद्रि -एषः प्रदेशः फल्गुणीनदीतीरे विद्यमानानाम् आजिराजानां राजधानी आसीत् । ”’जैनकाशी”’ति प्रसिद्धः एषः स्थलविशेषः १८ बसदि( बसदिशब्दः वसतिमूलः, जैनमन्दिरम् इत्यर्थम् सूचयति)युक्तः । त्रिभुवनातिलकचूडामणिचन्द्रप्रभास्वामिनः महाचैत्यालयः (दोड्डबसदि- २४३३) सुन्दरः अस्ति । अत्र अष्टमतीर्थकरस्य सार्धषड्पादपरिमितोन्नता मूर्तिः मनोहरा प्रकाशमाना च अस्ति । त्रिस्तरेषु देवालयस्य विस्तारम् औन्नत्यं वैभवं कलासैन्दर्यम् च अत्र द्रष्टुं शक्यमस्ति । काष्ठनिर्मितानि शिलानिर्मितानि अत्र उत्तमानि शिल्पानि अत्र सन्ति । अग्रभागे एकशिला- निर्मितः ५० पादपरिमितोन्नतः शिलास्तम्भः भव्यः कलात्मकः च अस्ति । हिमाचलप्रदेशस्य शैली अत्र दष्टुम् शक्या अस्ति । सहस्रस्तम्भानां बसदिः गमनार्हः अस्ति । पार्श्वनाथस्वामिनः सन्निधिः ’गुरुबसदि’ ’हळेबसदि’ ’सिद्धान्तबसदि’ इति प्रसिद्धः अस्ति । अत्र अष्टपादपरिमितोन्नतम् नेल्लिकारुशिलानिर्मितं सुमनोहरं बिम्बम्, अन्यानि नवरत्ननिर्मितानि ३५ बिम्बानि च सन्ति । मार्गः- मङ्गळूरुतः ३५ कि.मी बण्ट्वाळ, बेळतङ्गडि समीपनगरे कार्कळतः २० कि.मी
३. धर्मस्थलम् - नेत्रावतीनदीतीरे स्थितं दक्षिणकन्नडमण्डालस्य प्रसिद्धेषु त्रिस्थलेषु अन्यतमं मुख्यं क्षेत्रम् इदम् । श्रीमञ्जुनाथस्वामिदेवालयः सोदे वादिराजस्वामिनः काले निर्मितः इति इतिहासेन ज्ञातुं शक्यम्। अधुनापि श्रीमञ्जुनाथस्वामिनः पूजा माध्वमतार्चकैः क्रियते। किन्तु अस्य क्षेत्रस्य व्यवस्थापकाः हेग्गडेवंशीयाः जैनाः इति तु विशेषः। श्रीमञ्जुनाथेश्वरस्य सन्निधाने विष्णुप्रतिकः नरसिंहशालिग्रामः अस्ति । प्रतिदिनम् अन्नदानं विद्यादानम् औषधदानम् अत्र प्रचलति । सहस्रशः जनाः प्रतिदिनम् आगच्छन्ति । देवालयव्यवस्थापकैः आवास-भोजन-दर्शन-पूजादिव्यवस्थाः कल्पिताः सन्ति ।एकत्र धनधान्यव्यवहारः, यात्रिकानाम् आगमनम् साहित्य- सङ्गीतनृत्योत्सवाः, कायकसेवा, दानम् इत्यादिभिः कारणैः‘अभिनवतिरुपति’, इति धर्मस्थलस्य नाम आगतम् अस्ति । कार्तिकमासे लक्षदीपोत्सवः वैभवेन प्रचलति । तदा लक्षाधिकजनाः अत्र आगच्छन्ति ।
धर्मस्थळक्षेत्रस्य रक्षकः अण्णप्पस्वामी लघुपर्वतप्रदेशे स्थितः अस्ति । रत्नगिरिपर्वते गोमटेश्वरस्य मूर्तिः (१९७३) प्रतिष्ठापिता अस्ति ।मञ्जूषाकार् -यानसंग्रहालयः, मत्स्यागारः नेत्रावतीनद्यां स्नानम् इतरविशेषाः । सर्वधर्मसम्मेलनं सामूहिकविवाहसमारम्भाः अत्र प्रचलन्ति । मार्गः -मङ्गलूरुतः ७१ कि.मी । मैसूरुतः २७२ कि.मी बेङ्गलूरुतः ३६५ कि.मी । उडुपितः ११० कि.मी बेळ्तङ्गडीतः २६ कि.मी वसतिः- देवालयस्य यात्रिनिवासाः भोजनव्यवस्था - देवालयसमीपम् अन्नदानजगत् यानानि - लोकयानानि राज्यस्य सर्वप्रदेशतः सन्ति|
४.कुक्केसुब्रह्मण्यम्(सुळ्य) एतत् पुराणानुसारं कुक्केपदृणं परशुरामक्षेत्रं स्कन्दक्षेत्रमिति च प्रसिद्धम् अस्ति । एतत् क्षेत्रं कुमारपर्वतशेषपर्वतयोः मध्ये स्थितम् अस्ति । अस्य क्षेत्रस्य अधिपतिः पावनमूर्तिः श्रीसुब्रह्मण्यस्वामी । अत्रत्या पवित्रनदी ”’कुमारधारा”’। प्रतिदिनम् भक्तजनाः अत्र आगत्य स्कन्दस्य पूजाम् सर्पसंस्कारादिकं कुर्वन्ति । समीपे आदिसुब्रह्मण्यम् इति क्षेत्रम् अस्ति । जनाः तत्रत्यवल्मीकस्य दर्शनं कुर्वन्ति । अत्र मध्वसम्प्रदायानुसरी कश्चनः मठः अस्ति । अत्र श्रीनरसिंहदेवस्य विग्रहः अस्ति । श्रीमठस्य यतिपरम्परायाः वृन्दावनानि अपि सन्ति । श्री नरसिंहदेवस्य सम्पुटे एव पूजापद्धतिः अत्र अस्ति । मार्गः- पुत्तूरुतः ३३ कि.मी । सुळ्यतः ४५ कि.मी। मङ्गळूरुतः ५५ कि.मी । बेङ्गळूरुतः लोकयानव्यवस्था अस्ति। रैल् मार्गः-सामान्यतः २० कि.मी दूरे सुब्रह्मण्यं रोड् नामकं निस्थानकं वर्तते। वसतिः-देवालयस्य यात्रीवासाः सन्ति ।
५.कटिलु (मङ्गळूरु) उडुपि-मङ्गळूरुराष्ट्रियमार्गस्य पार्श्वे श्रीदुर्गापरमेश्वरीमन्दिरम् अस्ति । नन्दिनीनदीतीरे प्रशान्तस्थले सुन्दरः प्राचीनः देवालयः अस्ति । एषः द्वीपदेवालयः। गर्भगृहे शक्तिस्वरूपिणी लिङ्गाकारेऽस्ति। तत्पश्चात् शङ्खचक्रधारिणी चतुर्भुजा वरदाभयमुद्रायुक्ता देवी लोहबिम्बरुपेण विराजते । मूर्तिः लिङस्य अपेक्षया प्राचीना न । वैष्णवाः एव अत्र अर्चकाः शाक्ततन्त्रमार्गतः पूजयन्ति । अत्र विशेषदिनानि नाम मेषसंक्रमणस्य अनन्तरम् अष्टादिनानि । तथैव सिंहशुक्रवारस्य पवित्रदिनम् । जागृतशक्तिस्थलमेतत् । देवालयस्य स्तम्भेषु सुन्दरशिल्पानि प्रसिद्धः शिल्पी रञ्जाळ गोपालशेणै उत्कीर्णवान् अस्ति। मार्गः – मङ्गळूरुतः २७ कि.मी
प्रसिद्धाः व्यक्तयः [सम्पादयतु]
निर्देशाङ्काः [सम्पादयतु]
कला संस्कृतिः [सम्पादयतु]
आहारपद्धतिः, वेशभूषणानि,