दक्षिणकन्नडलोकसभाक्षेत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


कर्णाटकस्य २८ लोकसभाक्षेत्रेषु अन्यतमम् अस्ति दक्षिणकन्नडलोकसभाक्षेत्रम् । २००८तमे वर्षे यदा लोकसभाक्षेत्राणां पुनर्घटनम् अभवत् तदा एतत् क्षेत्रम् अस्तित्वे आगतम् । पूर्वं मङ्गळूरुलोकसभाक्षेत्रम् इति नाम्ना पृथक् क्षेत्रम् आसीत् । पुनर्घटनात् पूर्वं बेळ्तङ्गडीविधानसभाक्षेत्रं चिक्कमगळूरुलोकसभाक्षेत्रे अन्तर्भवति स्म। बण्ट्वाळविधानसभाक्षेत्रं , मूडबिद्रिविधानसभाक्षेत्रं, तथा सुरत्कलविधानसभाक्षेत्रं (इदानीं तस्य उत्तरमङ्गळूरुनगरविधानसभाक्षेत्रम् इति नामकरणं कृतम् अस्ति।) उडुपीलोकसभाक्षेत्रे अन्तर्भवन्ति स्म । एतेन सह समग्रं कोडगुमण्डलं तन्नाम मडिकेरीविधानसभाक्षेत्रं, विराजपेटेविधानसभाक्षेत्रं, सोमवारपेटेविधानसभाक्षेत्रं मङ्गळूरुलोकसभाक्षेत्रे अन्तर्भवन्ति स्म । पुनर्घटनानन्तरम् मङ्गळूरुविधानसभाक्षेत्रस्य दक्षिणमङ्गळूरुनगरविधानसभाक्षेत्रम् इति उळ्ळालविधानसभाक्षेत्रस्य मङ्गळूरुविधानसभाक्षेत्रम् इति पुनर्नामकरणम् कृतम् ।

विधानसभाक्षेत्राणि[सम्पादयतु]

विधानसभानिर्वाचनक्षेत्रस्य सङ्ख्या नाम आरक्षितम्(SC/ST/इतरे) मण्डलम्
२०० बेळ्तङ्गडी इतरे दक्षिणकन्नडमण्डलम्
२०१ मूडबिद्रि इतरे दक्षिणकन्नडमण्डलम्
२०२ उत्तरमङ्गळूरुनगरम् इतरे दक्षिणकन्नडमण्डलम्
२०३ दक्षिणमङ्गळूरुनगरम् इतरे दक्षिणकन्नडमण्डलम्
२०४ मङ्गळूरु इतरे दक्षिणकन्नडमण्डलम्
२०५ बण्ट्वाळ इतरे दक्षिणकन्नडमण्डलम्
२०६ पुत्तूरु, इतरे दक्षिणकन्नडमण्डलम्
२०७ सुळ्ळ्य SC दक्षिणकन्नडमण्डलम्

लोकसभासदस्याः[सम्पादयतु]

वर्षम् लोकसभासदस्यः पक्षः
२००९ नळीनकुमार कटिलु भारतीयजनतापक्षः