दतियामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
दतियामण्डलम्

Datia District
दतिया जिला
दतियामण्डलम्
दतियामण्डलस्य नयनाभिरामदृश्यम्
मध्यरदेश राज्यस्य मानचित्रे दतियामण्डलम्
मध्यरदेश राज्यस्य मानचित्रे दतियामण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि दतिया, सेवन्धा, इन्दरगढ, भण्डेर
विस्तारः २,९०२ च. कि. मी.
जनसङ्ख्या (२०११) ७,८६,७५४
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ७२.६३%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४३.७%
Website http://datia.nic.in/

दतियामण्डलम् ( /ˈdətɪjɑːməndələm/) (हिन्दी: दतिया जिला, आङ्ग्ल: Datia district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य ग्वालियरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति दतिया इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

दतियामण्डलस्य विस्तारः २,९०२ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे उत्तरप्रदेशराज्यं, पश्चिमे ग्वालियरमण्डलम्, उत्तरे भिण्डमण्डलं, दक्षिणे उत्तरप्रदेशराज्यम् अस्ति । अस्मिन् मण्डले सिन्धनदी प्रवहति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं दतियामण्डलस्य जनसङ्ख्या ७,८६,७५४ अस्ति । अत्र ४,२०,१५७ पुरुषाः, ३,६६,५९७ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २७१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २७१ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १८.४६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८७३ अस्ति । अत्र साक्षरता ७२.६३% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि- दतिया, सेवन्धा, इन्दरगढ, भण्डेर ।

वीक्षणीयस्थलानि[सम्पादयतु]

पीताम्बरा-पीठम्[सम्पादयतु]

पीताम्बरा-पीठम् भारतदेशस्य एकं प्रसिद्धं शक्तिपीठम् अस्ति । तस्मिन् पीठे श्री गोलोकवासी स्वामीजी महाराज इत्यनेन बगलामुखीदेव्याः, धूमावतीदेव्याः च प्रतिष्ठापना कृता । तत्र एकं शिवमन्दिरम् अस्ति यत् एकमात्रं महाभारतकालीनं शिवमन्दिरम् अस्ति । पीताम्बरा-पीठे अन्यान्यपि बहूनि मन्दिराणि सन्ति ।

सोनगिरि[सम्पादयतु]

सोनगिरि जैनेषु अन्यतराणां दिगम्बराणां पवित्रतीर्थस्थलम् अस्ति । तत्स्थलं परितः श्वेतशैलेभ्यः निर्मितानि बहूनि जैनमन्दिराणि सन्ति ।

बीरसिंहदेव-भवनम्[सम्पादयतु]

बीरसिंहदेव-भवनं सप्तभूमम् अस्ति । इदं भवनं राज्ञा बीरसिंहदेवेन ई. १६१४ तमे वर्षे निर्मापितम् । इदं भवनं केवलं पाषाणैः निर्मितमस्ति । बडोनी, बोटानिकल गार्डन, राजगढ पैलेस एवं सङ्ग्रहालयः इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://datia.nic.in/
http://www.census2011.co.in/census/district/289-datia.html

"https://sa.wikipedia.org/w/index.php?title=दतियामण्डलम्&oldid=463957" इत्यस्माद् प्रतिप्राप्तम्