दत्तात्रेय रामचन्द्र बेन्द्रे

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
दत्तात्रेय रामचन्द्र बेन्द्रे

Kamat's Potpourri
जननम् 31 January 1896(1896-01-31)
धारवाडः, कर्णाटकराज्यम्, भारतम्
मरणम् अक्टोबर् २१, १९८१ (वयः ८५)
मुबै, महाराष्ट्ररज्यम्, भारतम्
काव्यनाम अम्बिकातयतत्तः
वृत्तिः अध्यापकः, कविः
राष्ट्रीयता भारतीयः Flag of India.svg
कालः क्रि.श.१८९६ तः क्रि.श.१९८१ ।
प्रकारः परिकल्पना
विषयाः पद्यसाहित्यम् ।
साहित्यकान्दोलनम् कन्नडसाहित्यम् - नवोदयः
प्रमुखकृतयः नाकुतन्ति

द.रा.बेन्द्रे(kn:ದ ರಾ ಬೇಂದ್ರೆ) (D R Bendre) कर्णाटकस्य प्रसिद्धेषु कविषु अन्यतमः। 'वरकविः’ इत्येव ख्यातः एषः ज्ञानपीठप्रशस्तिविजेता अपि। कन्नडभाषायाः प्रसिद्धः कविः एषः।

बाल्यं विद्याभ्यासः च[सम्पादयतु]

१८९६ तमवर्षस्य जनवरीमासस्य ३१तमे दिनाङ्के एतस्य जन्म अभवत्। एतस्य मातुः नाम अम्बिका । पितुः नाम रामचन्द्रः। तस्य जीवने मातुः प्रभावः अधिकः आसीत् इत्यतः सः स्वस्य काव्यनाम्नि 'अम्बिकातनयः’( ಅಂಬಿಕಾತನಯ) इति उल्लेखं कृतवान् अस्ति। तस्य काव्यनाम अम्बिकातनयदत्तः । दत्तात्रेयः बि.ए. पदवीं प्राप्य धारवाडनगरे शिक्षकवृत्तिम् आरब्धवान्। 'गेळेयरगुम्पु’ (ಗೆಳೆಯರ ಗುಂಪು )(मित्रसङ्घः) नामकं सङ्घ कृत्वा ते सर्वे तत्र काव्यवाचनं काव्यविमर्शं च कुर्वन्ति स्म। तत्र अन्यान्यकार्यक्रमाणाम् आयोजनम् अपि भवति स्म।

जयकर्णाटकपत्रिकायै दत्तत्रेयः तदा तदा लेखनानि लिखति स्म ।कञ्चित् कालं यावत् 'आमास’पत्रिकायाः सम्पादनकार्यम् अपि कृतवान्। साहित्यक्षेत्रे एतस्य बहु योगदानम् अस्ति। कविता-नाटक-विमर्शा-संशोधनम् इत्यादिषु सर्वेषु क्षेत्रेषु द.रा.बेन्द्रेवर्यस्य हस्तकौशल्यं दृश्यते। तथापि काव्यक्षेत्रे एतेन विशेषसाधना कृता अस्ति। 'कृष्णकुमारी’ तस्य प्रथमं प्रकटितं कवनम्।

भावजीवी भावकविः[सम्पादयतु]

गरि तस्य प्रथमः कवितासङ्ग्रहः। अस्मिन् भावोत्कटता, छन्दसः निरर्गलता, गेयता च विशेषेण दृश्यते। नव्यभावगीतानां प्रवर्तकेषु बेन्द्रेवर्यः अन्यतमः। एतं भावगीतानां प्रतिनिधिं भावयन्ति। एतस्य प्रेमगीतेषु अन्यगीतेषु च वस्तुनिष्ठता भृशं दृश्यते।

बेन्द्रेवर्यस्य काव्यवस्तु[सम्पादयतु]

यद्यपि कुणियोण बारा(क्रीडामः तावत्).( ಕುಣೀಯೋಣು ಬಾರಾ) 'मनदन्ने(प्रेमिका)’( ಮನದನ್ನೆ) 'नी हीङ्ग नोड ब्याड नन्न' (ನೀ ಹೀಂಗ ನೋಡಬ್ಯಾಡ ನನ್ನ) (भवती माम् एवं न पश्यतु) कवितानां मूलभावः बेन्द्रेवर्यस्य एव तथापि सामान्यजीवनस्य अविभाज्य-अङ्गभूताः घटनाः एव तत्र प्रतिबिम्बिताः दृश्यते। 'पुट्ट विधवे’ (ಪುಟ್ಟ ವಿಧವೆ)(विधवा बाला), 'हेणद हिन्दे’(ಹೆಣದ ಹಿಂದೆ) (शवस्य पृष्ठभूमिका), अन्नावतारः( ಅನ್ನಾವತಾರ) एतादृशीषु कवितासु हृदयवेदकता अनुभवगोचरा भवति। एतासु कवितासु कवेः सुख-दुःखे, दम्पत्यजीवनस्य सरस-विरसभावौ, सांसारिकक्लेशाः एव काव्यवस्तु भवति। 'जोगी’ कवने तु जीवनस्य काळरात्रेः आविर्भावः वर्णितः अस्ति। बेन्द्रेमहोदयः कतिचन साङ्केतिकानि असङ्गतानि नाटकानि लिखितवान्। 'सायो आट'(मरणक्रीडा), देव्वद मने(भूतगृहम्), होस संसार(नूतनः संसारः), जात्रे(महाविपणिः), 'नगेय होगे (हासस्य धूमः) तथा उद्धारः दुरन्तनाटकस्य रूपलक्षणोपेतानि सन्ति। नगेय होगे नाटके यद्यपि हास्यरसः अस्ति तथापि सः करुणरसात् अवरः अस्ति। अत्रत्यः बहिष्कारस्य दुरन्तः वैयक्तिकः। उद्धारनाटके समाजस्य विभिन्नवर्गीयाणां मध्ये प्रचलन् सङ्घर्षः नाटकस्य क्रियायै विशेषां शक्तिं पूरयति।

इतरभाषासु कृतिरचना[सम्पादयतु]

बेन्द्रेवर्यस्य लेखनशक्तिः कन्नडभाषायाः कृते केवलं सीमिता नासीत्। मराठीभाषया अपि कृतीः रचितवान्। तस्य 'संवाद’नामिकायै माराठीकृत्यै केळकरपारितोषिकं प्राप्तम् अस्ति। आङ्ग्लतः अनूदिते अरविन्दस्य 'भारतीयपुनर्जन्म' तथा रानडेवर्यस्य 'उपनिषद्रहस्यम्’ इत्येतौ अमूल्यग्रन्थौ।

प्रशस्तयः[सम्पादयतु]

वरकविः इत्याख्येन बेन्द्रेवर्येण अनेकाः प्रशस्तयः प्राप्ताः सन्ति।एतस्य 'अरळु-मरळु’ कृत्यै १९५९ तमे वर्षे केन्द्रसाहित्य-अकाडेमी पुरस्कारः प्राप्तः अस्ति। कर्णाटक-विश्वविद्यालयेन 'गौरव डाक्टरेट्’ पदवी प्रदत्ता अस्ति। १९७३ तमे वर्षे तस्य 'नाकु तन्ती’ कवनसङ्कलनाय सहित्यक्षेत्रे देशस्य अत्युन्नता ज्ञानपीठप्रशस्तिः प्राप्ता।१९४३ तमे वर्षे शिवमोग्गानगरे प्रवृतस्य २७ तम-कन्नडसाहित्यसम्मेलनस्य अध्यक्षस्थानं बेन्द्रेवर्येण अलङ्कृतम् आसीत्। १९९५ तमवर्षं बेन्द्रेशतमानोत्सववर्षम् इति आचरितम्। तदा राज्ये सर्वत्र तस्य साहित्यजीवनविषये चिन्तनगोष्ठ्यः कृताः। जीवनस्य विषये षड्भिः शब्दैः तेन कृतं निरूपणम् अत्यन्तम् अर्थगर्भितं परिणामकारकं हृदयस्पर्शि च अस्ति। तत् एवम् अस्ति- रसः जननम्। विरसः मरणम्। समरसः जीवनम्॥ आहत्य दार्शनिककवेः दत्तत्रेयरामचन्द्रबेन्द्रेवर्यस्य व्यक्तित्वम् अत्यन्तं महत्वपूर्णम् अस्ति।